________________ 202 प्रकर्षः प्राह को वाऽत्र, विकल्पो माम ! गम्यताम् / ततः प्रचलितौ तूर्ण, हृष्टौ स्वसीयमातुलौ // 8 // ततो विलङ्घन्य वेगेन, मार्ग पवनगामिनौ / प्राप्तौ तौ मध्यमे भागे, महाटव्याः प्रयाणकैः // 9 // अथ तत्र महामोहं, रागकेसरिसंयुतम् / युक्तं द्वेषगजेन्द्र ग, चतुरङ्गबलान्वितम् // 10 // आवासितं महानद्याः, पुलिनेऽतिमनोरमे / महामण्डपमध्यस्थं, वेदिकायं प्रतिष्ठितम् // 11 // महासिंहासनारूढं, भटकोटिविवेष्टितम् / गत्वा स्म नातिदूरं तौ, दत्तास्थानं प्रपश्यतः // 12 // ततो विमर्शनाभिहितं-भद्र ! प्राप्तौ तावदावामभीष्टप्रदेशे, ललिता महाटवी, दृष्टं महामोहसाधनं, दर्शनपथमवतीर्णोऽयं दत्तास्थानः सह रागकेसरिणा सपरिकरो महामोहराजः, तन्न युक्तोऽ धुनाऽऽवयोरस्मिन्नास्थाने प्रवेशः, मा भूदेतेषामास्थानस्थायिनां लोकानामपूर्वयोरावयोर्दर्शनेन काचिदाशङ्का / अन्यच्च-अत्रैव प्रदेशे व्यवस्थिताभ्यां दृश्यत एवेदं सकलकालमास्थानं, अतः कुतूहलेनापि न युक्तोऽत्र प्रवेशः। प्रकर्षणोक्तं-एवं भवतु, केवलं मामेयं महाटवी, इयं च महानदी, इदं च पुलिनं, अयं च महामण्डपः, एषा च वेदिका, एतच्च महासिंहासनं, अयं च महामोहनरेन्द्रः, एते च सपरिवाराः समस्ता अपि शेषनरेन्द्राः / सर्वमिदमदृष्टपूर्व अहो महदत्र कुतूहलं, तेनामीषामेकैकं नामतो गुणतश्च मामेन वर्ण्यमानं विस्तरतः श्रोतुमिच्छामि। अभिहितं च पूर्व मामेन यथा जानाम्यहं दृष्टस्य वस्तुनो यथावस्थितं तत्त्वं, अतः समस्तं निवेदयितुमर्हति मामः। विमर्शः प्राहसत्य, अभिहितमिदं मया, केवलं भूरिप्रकारं परिप्रश्चितमिदं भद्रेण, ततः सम्यगवधार्य निवेदयामि / प्रकर्षः प्राह-विश्रब्धमवधारयतु मामः / ततो विमर्शन समन्तादवलोकिता महाटवी, निरीक्षिता महानदी, विलोकितं पुलिनं, निर्वणितो महामण्डपः, निरूपिता वेदिका, निभालितं महासिंहासन, विचिन्तितो महामोहराजा, विचारिताः प्रत्येकं महताऽभिनिवेशेन सपरिकराः सर्वे नरेन्द्राः, स्वहृदयेन प्रविष्टो ध्यानं, तत्र च व्युपरताशेषेन्द्रियग्रामवृत्तिनिष्पन्दस्तिमितलोचनयुगलः स्थितः कश्चित्कालं, ततः प्रकम्पयता शिरः प्रहसितमनेन / प्रकर्षः प्राह-माम ! किमेतत् ? विमर्शेनोक्तं-अवगतं समस्तमिदमधुना मया, ततः समुद्भतो हर्षः, प्रच्छनीयमन्यदपि साम्प्रतं यत्ते रोचते / प्रकर्षेणोक्तं-एवं करिष्यामि, तावदिदमेव प्रस्तुतं निवेदयतु मामः / विमर्शेनाभिहितं यद्येवं ततस्तावदेषा चित्तवृत्तिर्नाम महाटवी / . इयं च भद्र ! विस्तीर्णविविधागतसंगता / उत्पत्तिभूमिः सर्वां, सद्रनानामुदाहृता // 1 // इयमेव च सर्वेषां, लोकोपद्रवकारिणाम् / महानर्थपिशाचानां, कारणं परिकीर्तिता // 2 // सर्वेषामन्तरङ्गाणां, लोकानामत्र संस्थिताः / चित्तवृत्तिमहाटव्यां, ग्रामपत्तनभूमयः // 3 // यदापि बहिरङ्गेषु, निर्दिश्यन्ते पुरेषु ते / किश्चित्कारणमालोक्य, विद्वद्भिर्ज्ञानचक्षुषा // 4 // तथापि परमार्थेन, तेऽन्तरङ्गजनाः सदा। अस्यामेव महाटव्यां, विज्ञेयाः सुप्रतिष्ठिताः // 5 // (युग्मम्) यतः-नैवान्तरङ्गालोकानां, चित्तवृत्तिमहाटवीम् / विहाय विद्यते स्थानं, बहिरङ्गपुरे क्वचित् // 6 // - ततश्च-सुन्दरासुन्दराः सर्वे, येऽन्तरङ्गाः कचिज्जनाः। एनां विहाय ते भद्र ! न तन्ते कदाचन // 7 // अन्यच्च-मिथ्यानिषेविता भद्र ! भवत्येषा महाटवी / घोरसंसारकान्तारकारणं पापकर्मणाम् // 8 // सम्यद निषेविता भद्र, भवत्येषा महाटवी / अनन्तानन्दसन्दोहपूर्णमोक्षस्य कारणम् // 9 // किं चेह बहुनोक्तेन ? सुन्दरेतरवस्तुनः / सर्वस्य कारणं भद्र ! चित्तवृत्तिमहाटवी // 10 // इयं चासारविस्तारा, दृश्यते या महानदी / एषा प्रमत्तता नाम, भद्र ! गीता मनीषिभिः // 11 // चित्तवृत्यः टवीवर्णन प्रमत्तत्तानदोषण