________________ 200 तच्च कीदृशम् ?--नाशिताशेषसन्मार्गमामूलतस्तेन दुर्ग न लङ्घन्यं परेषां सदा / सर्वदोद्योतमुक्तं च तद्वर्तते, चौरवृन्दं तु तत्रैव संवर्धते // 1 // वल्लभं तत्सदा पापपूर्णात्मनां, निन्दितं तत्सदा शिष्टलोकैः पुरम् / कारणं तत्सदाऽनन्तदुःखोदधेरणं तत्सदाऽशेषसौख्योनतेः // 2 // केवलं तदपि ताभ्यां विमर्शप्रकर्षाभ्यामीदृशमवलोकितं, यदुत-- दवदग्धमिवारण्य, कृष्णवर्ण समन्ततः / रहितं भूरिलोकेन, न मुक्तं च निजश्रिया // 3 // ततः प्रकर्षस्तं दृष्ट्वा, प्रत्याह निजमातुलम् / माम ! किं विद्यते कश्चिदत्रापि पुरनायकः? // 4 // विमर्शः प्राह नैवास्ति, योऽत्र भो! मलनायकः। केवलं नायकाकारः, कश्चिदत्रास्ति मानवः // 5 // ततो यावदेतावान् विमर्शप्रकर्षयोजल्पः संपद्यते तावद्दष्टस्ताभ्यां तत्रैव नगरे प्रवेष्टुकामो दैन्याक्रन्दनविलपनादिभिः कतिचित्प्रधानपुरुषैः परिकरितः शोको नाम पाडीरिकः / ततः संभाषितोऽसौ विमर्शप्रकर्षाभ्यां, पृष्टश्च-भद्र ! कोऽत्र नगरे राजा ? शोकः प्राह-ननु भुवनप्रसिद्धोऽहं नरेन्द्रः। तथाहि-महामोहसमुद्भूतो, रागकेसरिसोदरः। धवोऽविवेकितायाश्च, प्रसिद्धोयं नराधिपः // 1 // स्वर्गपातालमर्येषु, शत्रुभिर्भीतकम्पितैः / नामापि गृह्यते तस्य, प्रतापहतवैरिणः // 2 // देवस्याचिन्त्यवीर्यस्य, सत्पराक्रमशालिनः / तस्य द्वेषगजेन्द्रस्य, नाम कः प्रष्टुमर्हति ? // 3 // किं च-आस्तां तावदेवः, किं तर्हि ?या मोहयति वीर्येण, सकलं भुवनत्रयम् / ख्याताऽविवेकिताऽप्यत्र, सा देवी देववल्लभा // 4 // अन्यच्च-सा महामोहनिर्देशकारिणी गुरुवत्सला / सा महामूढताज्ञायां, वर्तते सुन्दरा वधूः // 5 // रागकेसरिनिर्देश, न लङ्घयति सा सदा / मूढतायाश्च तत्पत्न्याः , सौहार्द दर्शयत्यलम् // 6 // तथा द्वेषगजेन्द्रस्य, सा भर्तुर्गाढवत्सला / तेनाविवेकिता लोके, प्रख्याति समुपागता // 7 // तदेतौ भुवनेऽप्यत्र, ख्यातौ देवीनरेश्वरौ / इदानीं हन्त भद्राभ्यां, कथं प्रष्टव्यतां गतौ ? // 8 // विमर्शः प्राह नैवात्र, कोपः कार्यस्त्वया यतः / सर्वः सर्व न जानीते, सिद्धमेतज्जगत्त्रये // 9 // आवां दवीयसो देशादागतौ न च वीक्षितम् / पूर्वमेतत्पुरं किं तु, श्रुतौ देवीनरेश्वरौ // 10 // ततश्च-किं स्याद् द्वेषगजेन्द्रोऽत्र !, किं वा स्यानगरान्तरे ? / ततः कुतूहले नेदं, पृष्टं संदिग्धचेतसा // 11 // तद्भद्र ! साम्प्रतं ब्रूहि, किमत्रास्ते नराधिपः ? / किं वा विनिर्गतः कापि ? पश्यावस्तं नरेश्वरम् // 12 // शोकेनोक्तं जगत्यत्र, वृत्तान्तोऽयमपि स्फुटम् / प्रसिद्ध एव सर्वेषां, विदुषां दत्तचेतसाम् // 13 // यथा देवो महामोहस्तत्पुत्रो रागकेसरी / तथा द्वेषगजेन्द्रश्च, समस्तबलसंयुताः // 14 // सन्तोषहतकस्योच्चैधाय कृतनिश्चियाः / विनिर्गताः स्वकस्थानाद् भूरिकालश्च लडितः // 15 // विमर्शः प्राह यद्येवं, ततो भद्रः किमर्थकम् / इहागतः किमास्तेऽत्र पुरे भोः साऽविवेकिता ? // 16 // शोकेनाभिहितम्-नास्त्यत्र, नगरे तावदधुनासाऽविवेकिता। नापि देवसमीपे सा, तत्राकर्णय कारणम् // 17 यदा तातो महामोहस्तथाऽन्यो रागकेसरी / सन्तोषहतकस्योच्चैवधार्थ कृतनिश्चयः // 18 // तदा प्रचलिते देवे, ताभ्यां सह कृतोद्यमे / देवेन साधू सा देवी, प्रस्थिता भर्तृवत्सला // 19 // ततो द्वेषगजेन्द्रेण, सा प्रोक्ता कमलेक्षणा / स्कन्धावारक्षम देवि ! न त्वदीयं शरीरकम् // 20 // दीर्घा कटकसेवेयं, त्वं च गर्भभरालसा / नातः संवाहनायोग्या, वेलामासश्च वर्तते // 21 // /