________________ रसनाया गुलशुद्धिः 219 प्राह-भद्र ! सोऽयं पुरुषो यत्प्रभावजन्यमस्य राजसचित्तनगरस्य सश्रीकत्वम् , प्रकर्षेणोक्तं-यद्येवं ततस्तावदेनमुपसृत्य जल्पयावः, पृच्छावश्च कोऽत्र वृत्तान्त इति / विमर्शेनोक्तं-एवं भवतु / ततः संभाषितस्ताभ्यां मिथ्याभिमानः, पृष्टश्च-भद्र ! केन पुनर्व्यतिकरण विरलजनमिदं दृश्यते नगरम् ? मिथ्याभिमानः प्राह-ननु सुप्रसिद्धैवेयं वार्ता कथं न विदिता भद्राभ्यां ? विमर्शेनोक्तंन कर्तव्योऽत्र भद्रेण कोपः, आवां हि पथिको न जानीवो महच्चात्रार्थे कुतूहलं अतो निवेदयितुमर्हति भद्रः / मिथ्याभिमानेनोक्तं---अस्ति तावत्समस्तभुवनप्रतीतोऽस्य नगरस्य स्वामी सुगृहीतनामधेयो देवो रागकेसरी, तज्जनकश्च महामोहः, तथा तयोर्मन्त्रिमहत्तमाश्च भूयांसो विषयाभिलाषादयः, तेषामितो नगरात् सर्वबलसमुदयेन दण्डयात्रया निर्गतानामनन्तः कालो वर्तते, तेनेदं विरलजनमुपलभ्यते नगरम् / विमर्शः प्राह--भद्र ! केन सह पुनस्तेषां विग्रहः ? मिथ्याभिमानः प्राह--दुरात्मना सन्तोषहतकेन / विमर्शेनोक्तं--किं पुनस्तेन साधै विग्रहनिमित्तम् ? मिथ्याभिमानेनोक्तं-कचिदेवादेशेनैव जगद्वशीकरणार्थ विषयाभिलाषेण प्रहितानि पूर्व स्पर्शनरसनादीनि पश्चात्मीयानि गृहमानुषाणि / ततस्तैर्वशीकृतप्राये त्रिभुवने सन्तोषहतकेन तान्यपि निर्जित्य भूयांसो निर्वाहिताः कियन्तोऽपि लोकाः प्रापिता निर्वृतौ नगर्या, तच्छ्रुत्वा सन्तोषहतकस्योपरि प्रादुर्भूतक्रोधानुबन्धो निर्गतः स्वयमेव देवो रागकेसरी विक्षेपेण, तदिदमत्र विग्रहनिमितम् / विमर्शेन चिन्तितं-अये ! उपलब्धं तावद्रसनाया नामतो मूलोत्थानं, गुणतः पुनर्विषयाभिलाषं दृष्ट्वा ज्ञास्यामि, यतो जनकानुरूपाणि प्रायेणापत्यानि भवन्ति, ततो भविष्यति मे तदर्शनानिश्चयः / ततोऽभिहितमनेन-भद्र ! यद्येवं ततो भवतां किनिमित्तमिहावस्थानं ? मिथ्याभिमानेनोक्तं-प्रस्थितोऽहमप्यासं तदा केवलमग्रानीकानिवर्तितो देवेन / अभिहितश्च-यथार्य मिथ्याभिमान ! न चलितव्यमितो नगराद्भवता, इदं हि नगरं त्वयि स्थिते निर्गतेष्वप्यस्मास्वविनष्टश्रीकं निरुपद्रवमास्ते, वयमप्यत्र स्थिता एव परमार्थतो भवामः, यतस्त्वमेवास्य नगरस्य प्रतिजागरणक्षमः / मयाऽभिहितं यदाज्ञापयति देवः / ततः स्थितोऽहं, तदिदमस्माकमत्रावस्थानकारणम् / विमर्शेनोक्तं--अयि ! प्रत्यागता काचिद्देवसकाशात्कुशलवार्ता ? मिथ्याभिमानः प्राह-बाढमागता, जितप्रायं वर्तते देवकीयसाधनेन, केवलमसावपि वष्टः सन्तोषहतको न शक्यते सर्वथाऽभिभवितुं, ददात्यन्तराऽन्तरा प्रत्यवस्कन्दान्, निर्वाहयत्यद्यापि कश्चिजनं, अत एव देवेऽपि रागकेसरिणि लग्ने स्वयमेतावान् कालविलम्बो वर्तते / विमर्शेनोक्तं--क पुनरधुना भवदीयदेवः श्रूयते ? ततः समुत्पन्ना मिथ्याभिमानस्य प्रणिधिशङ्का, न कथितं यथावस्थितं, अभिहितं चानेन-न जानीमः परिस्फुटं, केवलं तामसचित्तं नगरमुररीकृत्य तावदितो निर्गतो देवः, ततः कदाचित्तत्रैवावतिष्ठते / विमर्शेनोक्तं-पूरितं भद्रेणावयोः कुतूहलं, निवेदितः प्रस्तुतवृत्तान्तः, दर्शितं सौजन्यं तद्गच्छावः साम्प्रतमावाम् / मिथ्याभिमानेनोक्तं-एवं सिद्धिर्भवतु / तदाकर्ण्य हृष्टो विमर्शः / ततः परस्परं विहितं मनोगुत्तमाङ्गनमनं, निर्गतौ राजसचि‘त्तनगराद्विमर्शप्रकौ / विमर्शेनोक्तं-भद्र ! कथिता तावदनेन तेषां विषयाभिलाषमानुषाणां मध्ये रसना, तदधुना तमेव विषयाभिलाषं दृष्ट्वा तस्याः स्वरूपमावयोर्गुणतो निश्चेतुं युक्तं, तद्गच्छावस्तत्रैव तामसचित्तनगरे। प्रकर्षः प्राह-यन्मामो जानीते, ततो गतौ तामसचित्तपुरे विमर्शप्रकर्षों / ग्रामसचिसनगर