________________ . स्फुटमिदं तदहो प्रियताकरो, नगति शुद्धगुणो न तु संस्तवः // 4 // तथा--स्वच्छसन्नीरपूरं सरोमण्डलं, फुल्लसत्पद्मनेत्रैर्दिवा वीक्षते / यन्नभस्तत्पुनर्लोकयात्रेच्छया, रात्रिनक्षत्रसल्लोचनैरीक्षते // 5 // नन्दितं गोकुलं मोदिताः पामराः, पुष्पितो नीपवृक्षो निशा निर्मला / . चक्रवाकस्तथापीह विद्राणको, भाजनं यस्य यत्तेन तल्लभ्यते // 6 // ततश्चैवंविधे शरत्समये पश्यन्तौ मनोरमकाननानि, विलोकयन्तौ कमलखण्डभूषितसरोवराणि, निरीक्षमाणौ प्रमुदितानि ग्रामाकरनगराणि, हृष्टौ शक्रोत्सवदर्शनेन तुष्टौ दीपालिकावलोकनेन, आडादितौ कौमुदीनिरीक्षणेन, परीक्षमाणौ जनहृदयानि, प्रयुञ्जानौ स्वप्रयोजनसिद्धयर्थमुपायशतानि, विचरितौ बहिरङ्गदेशेषु विमर्शप्रकर्षों / न दृष्ट कचिदपि रसनायाः कुलं, तथा च विचरतोस्तयोः समायातो हेमन्तः / कीदृशश्चासौ ?-अर्पितचेलतैलवरकम्बलरल्लकचित्रभानुकः / विकसिततिलकलोध्रवरकुन्दमनोहरमल्लिकावनः / शीतलपवनविहितपथिकस्फुटवादितदन्तविणकः / जलराशिकिरणहर्म्यतलचन्दनमौक्तिकसुभगताहरः // 1 // यत्र च हेमन्ते दुर्जनसङ्गतानीव हूस्वतमानि दिनानि, सज्जनमैत्रीव दीर्घतरा रजन्यः, सुजानानीव संगृह्यन्ते धान्यानि, काव्यपद्धतय इव विरच्यन्ते मनोहरा वेण्यः, सुजनहृदयानीव विधीयन्ते स्नेहसाराणि वदनानि, परबलकलकलेन रणशिरसि सुभटा इव निवर्तन्ते दवीयोदेशगता अपि निजदयिताविकटनितम्बबिम्बपयोधरभरशीतहरोष्मसंस्मरणेन पथिकलोका इति / प्रतापहानिः संपन्ना, लाघवं च दिवाकरे / अथवा दक्षिणाशावलग्नस्य, सर्वस्यापीदृशी गतिः // अन्यच्च-अयं हेमन्तो दुर्गतलोकान्-- __प्रियवियोगभुजङ्गनिपातितान् , शिशिरमारुतखण्डितविग्रहान् / पशुगणानिव मुर्मुरराशिभिः. पचति किं निशि भक्षणकाम्यया ? // 1 // यदा चेयतापि कालेन नोपलब्धा विमर्शप्रकर्षाभ्यां रसनामूलशुद्धिस्तदा प्रविष्टौ तावन्तरङ्गदेशेषु, तत्रापि पर्यटितौ नानाविधस्थानेषु / अन्यदा प्राप्तौ राजसचित्तनगरे-- .. तच्च दीर्घमिवारण्य, भूरिलोकविवर्जितम् / कचिदृष्टगृहारक्षं, ताभ्यां समवलोकितम् // 1 // ततः प्रकर्षणाभिहितं-माम ! किमितीदं नगरं विरलजनतया शून्यमिव दृश्यते ? किंवा कारणमाश्रित्येदमीदृशं संपन्नं ? विमर्शः प्राह-- यथेदं दृश्यते सर्वे, समृद्धं निजसम्पदा / केवलं लोकसन्दोहरहितं सुस्थितालयम् // 1 // तथेदं भाव्यते नूनं, नगरं निरुपद्रवम् / प्रयोजनेन केनापि, कचिनिष्क्रान्तराजकम् // 2 // युग्मम् / प्रकर्षः प्राह-एवमेतत्सम्यगवधारितं मामेन / विमर्शः प्राह--भद्र ! कियदिदं, जानाम्यहं सर्वस्यैव वस्तुनो दृष्टस्य यत्तत्त्वं, प्रष्टव्यमन्यदपि यत्र ते कचित्सन्देहः संभवति / प्रकर्षणाभिहितमाम ! यद्येवं ततः किमितीदं नगरं रहितमपि नायकेन विवर्जितमपि भूरिलोकैनिजश्रियं न परित्यजति ? विमर्शेनोक्तं-अस्त्यस्य मध्ये कश्चिन्महाप्रभावः पुरुषः तज्जनितमस्य सश्रीकत्वम् / प्रकर्षः प्राह—यधेवं ततः प्रविश्य निरूपयावस्तं पुरुषम् / विमर्शेनोक्तं-एवं भवतु / ततः प्रविष्टौ तौ नगरे। प्राप्तौ राजकुले दृष्टस्तत्राहंकारादिकतिचित्पुरुषपरिकरो मिथ्याभिमानो नाम महत्तमः। ततो विमर्शः राजसचित्ते गमन