________________ जातः संवर्धमानोऽसौ, प्रकर्षों बुद्धिमन्दनः। विचक्षणगुणैस्तुल्यो, विमर्शस्यातिवल्लभः // 42 // अथान्यदा स्वकं दृष्टं, काननं सुमनोहरम् / विचक्षणजडाभ्यां भो! नाम्ना वदनकोटरम् // 43 // तत्र खादनपानेन, ललमानौ यथेच्छया / तौ द्वावपि स्थितौ कश्चित्कालं संतुष्टमानसौ // 44 // तत्र कुन्दसमाः शुभ्रा, रदनाः सन्ति वृक्षकाः। तेषां च वीथिकायुग्मं, ताभ्यां दृष्टं मनोहरम् // 45 // ततः कुतूहलेनान्तः प्रविश्य प्रविलोकितम् / तत्र चालब्धपर्यन्तं दृष्टं ताभ्यां महाबिलम् // 46 // ततो विस्फारिताक्षाभ्यां, कौतुकेन सविस्मयम् / विचक्षणजडाभ्यां तत् , सुचिरं संनिरीक्षितम् // 47 // अथ तस्मात्समुद्भूता, रक्तवर्णा मनोहरा / दासचेटया समं काचिल्ललना चारुविग्रहा // 48 // तां वीक्ष्य स जडश्चित्ते, परं हर्षमुपागतः / ततश्च चिन्तयत्येवं, विपर्यासितमानसः // 49 // अहो अपूर्विका योषिदहो सुन्दरदर्शना / अहो संस्थानमेतस्या, अहो रूपमहो गुणाः // 50 // किमेषा नाकतो मुग्धा, भ्रष्टा स्यादमराङ्गना ? / किं वा पातालतो बाला, नागकन्या विनिर्गता ? // 51 // अथवा नहि नहि सुष्ठु मया चिन्तितम्यतः-स्वर्गे वा नागलोके वा, कुतः स्यादियमीदृशी। मत्यै च दूरतोऽपास्ता, वार्ताऽपीदृक्षयोषितः // 52 // तन्नूनं विधिना मह्यं, परितुष्टेन कल्पिता / निर्माप्येयं प्रयत्नेन, सुन्दरैः परमाणुभिः // 53 // अन्यच्च-नूनं पुरुषहीनेयं, मदर्थ विहिता वने / यतो मां वीक्षते बाला, लोलदृष्टिर्मुहुर्मुहुः // 54 // गत्वा समीपमेतस्याः, कृत्वा चित्तपरीक्षणम् / ततः करोमि स्वीकारं, किं ममान्येन चेतसा // 55 // इतश्च-विचक्षणश्च तां दृष्ट्वा, ललनां ललिताननाम् / ततश्चेतसि संपन्नो, वितर्कोऽयं महात्मनः॥५६॥ एकाकिनी वने योषा, परकीया मनोरमा / न द्रष्टुं युज्यते रागानापि संभाषणोचिता // 57 // यतः सन्मागरक्ताना, व्रतमेतन्महात्मनाम् / पस्त्रिय पुरा दृष्वा, यान्त्यधोमुखष्टयः // 58 // अतो व्रजाम्यतः स्थानात्किं ममापरचिन्तया ? / ततो गन्तुं प्रवृत्तोऽसौ, हस्तेनाकृष्य तं जडम् // 59 // तेन चाकृष्यमाणोऽसौ, कथञ्चिदलिना जडः / हृतसर्वस्ववन्मोहात्परं दुःखमुपागतः // 6 // यावत्तौ गच्छन्तः स्तोकं, भूभागं राजपुत्रकौ / तावत्सानुचरी तस्याः, पश्चाल्लग्ना समागता // 61 // तया च दूरत एव विहितः पूत्कारः, यदुत बायध्वं भो नाथास्त्रायध्वं, हा हताऽस्मि मन्दभागिनी, ततो वलितस्तदभिमुखं जडः / तेनाभिहित--सुन्दरि ! मा भैषीः, कथय कुतस्ते भयमिति / तयाऽभिहितं यद्भवन्तौ मम स्वामिनी विमुच्य चलितौ तेनैषा जातमूर्छा म्रियते लग्नाऽधुना, तस्माद् देवौ! तावत्समीपे स्थीयतां भवद्भ्यामेतस्याः येन युष्मत्सन्निधानेन मनाकस्वस्थीभूतायां स्वामिन्यां ततोऽहं निराकुला सती भवतोरेतत्स्वरूपं समस्तं विज्ञपयामि। ततो जडेनाभिहितो विचक्षणः-भ्रातर्गम्यतामेतत्स्वामिनीसमीपे, भवतु सा स्वस्था, विज्ञपयत्वेषा यथाविवक्षितं, को दोषः ? विचक्षणेन चिन्तितं- न सुन्दरमिदं, इयं हि वष्टा चेटी तरला स्वभावेन प्रतारयिष्यति नूनमस्मान् , अथवा पश्यामि तावत्किमेषा तत्र गता जल्पति ? न चाहमनया प्रतारयितुं शक्यः तस्माद्गच्छामि, काऽत्र मम शङ्का ? एवं विचिन्त्याभिहितं विचक्षणेन-भ्रातरेवं भवतु / ततो गतौ पश्चान्मुखौ विचक्षणजडौ, प्राप्तौ तत्समीपे, स्वस्थीभूता ललना, निपतिता दासचेटी तयोश्चरणेषु / अभिहितमनया-महाप्रसादः, अनुगृहीताऽस्मि युवाभ्यां, जीविता स्वामिनी, दत्तं मे जीवितम् / जडेनाभिहितं-मुन्दरि ! किनामिकेयं तव स्वामिनी ? चेटयाऽभिहित-देव ! सुगृहीतनामधेया रसनेयमभिधीयते / जडेनाभिहितं--भवती किनामिकामवगच्छामि ? ततः सलज्जमभिहितमनया-देव !