________________ 195 लोलताऽहं प्रसिद्धा लोके, चिरपरिचिताऽपि विस्मृताऽधुना देवस्य, तत्किमहं करोमि मन्दभागिनीति / जडेनाभिहितं--भद्रे ! कथं मम त्वं चिरपरिचिताऽसि ? लोलतयाऽभिहितं--इदमेवास्माभिर्विज्ञपनीयम् / जडः प्राह-विज्ञपयतु भवती / लोलतयोक्तं-अस्ति तावदेषा मम स्वामिनी परमयोगिनी, जानात्येवातीतानागतं, अहमपि तस्याः प्रसादादेवंविधैव / पूर्वसांगत्यं इतश्च कर्मपरिणाममहाराजभुक्तौ स्थितमस्त्यसंव्यवहारनगरं तत्र कदाचिद्भवतोरवस्थानमासीद, ततः कर्मपरिणामादेशेनैवायातौ भवन्तावेकाक्षनिवासपुरे, ततोऽप्यागतौ विकलाक्षनिवासे, तत्र त्रयः पाटका विद्यन्ते, तत्र प्रथमे द्विहृषीकाभिधानाः कुलपुत्रकाः प्रतिवसन्ति, ततस्तेषां मध्ये वर्तमानाभ्यां युवाभ्यां यथानिर्देशकारितया प्रसन्नेन कर्मपरिणाममहानरेन्द्रेण भटभुक्त्या दत्तमिदं वदनकोटरं काननं, एतब स्वाभाविकमेवात्र सर्वदा विद्यत एव महाबिलं, इयं च सर्वाप्यस्मदुत्पत्तेः पूर्विका वार्ता। ततो विधिना चिन्तित गृहिणीरहिताविमौ वराको न सुखेन तिष्ठतः अतः करोम्यनयोगृहिणीमिति / ततस्तेन भगवता विधात्रा दयापरीतचेतसा युवयोनिमित्तमत्रैव महाविले निर्वर्तितैषा मे स्वामिनी, तथाऽहं चास्या एवानुचरीति / जडेन चिन्तितं--अये ! यथा मया विकल्पितं तथैवेदं संपन्न, अस्मदर्थमेवेयं रसना निष्पादिता वेधसा, अहो मे प्रज्ञातिशयः / विचक्षणेन चिन्तितं-कः पुनरयं विधिर्नाम ?, हुं ज्ञातं, स एव कर्मपरिणामो भविष्यति, कस्यान्यस्येदृशी शक्तिरिति / जडः प्राह--भद्रे ! ततस्ततः / लोलतयोक्तं--ततः प्रभृत्येषा मे स्वामिनी युक्ता मया युवाभ्यां सह खादन्ती नानाविधानि खाद्यकानि, पिबन्ती विविधरसोपेतानि पानकानि, ललमाना यथेष्टचेष्टया तत्रैव विकलाक्षनिवासे नगरे त्रिष्वपि पाटकेषु तथा पश्चाक्षनिवासे मनुजगतौ अन्येषु च तथाविधेषु स्थानेषु विचरिता भूयांसं कालं, अत एव क्षणमप्येषा युष्मद्विरदं न विषहते, युष्मदवधीरणया चागतमूर्छा म्रियते स्वामिनी / तदेवमहं भवतोश्चिरपरिचिताऽस्मि / रसनालोल __एतच्चाकर्ण्य सिद्ध नः समीहितं इति भावनया परितुष्टो जडः। ततोऽभिहितमनेन--सुन्दरि! तास्वीकार यद्येवं प्रविशतु तव स्वामिनी नगरे पवित्रयत्वेकं स्वावस्थानेन महाप्रासाद, येन पुनस्तत्र चिरन्तनस्थित्या सुखमास्महे / लोलतयाऽभिहितं--मा मैवमाज्ञापयतु देवः, न. निर्गतेयं स्वामिनी कदाचिदपीतः काननात् , पूर्वमपीयमत्रैव वर्तमाना युवाभ्यां सह ललिता, तदधुनाऽप्यस्मिन्नेव स्थाने तिष्ठन्ती लालयितुं युज्यते स्वामिनी / जडः प्राह--यद्भवती जानीते तदेव क्रियते, सर्वथा त्वमेवात्र प्रमाणं, कथनीयं यद्रोचते तव स्वामिन्ये येन संपादयामः / लोलतयोक्तं-महाप्र सादः, किमत्रापरमुच्यतां , अनुभवतु भवतोः स्वामिनी लालनेन सुखामृतमविच्छेदेनेति / र एवं च स्थापिते सिद्धान्ते--तत आरभ्य यत्नेन, जडो वदनकोटरे। तिष्ठन्ती रसनां नित्यं लालयत्येव मोहतः कथं ?--क्षीरेक्षुशर्कराखण्डदधिसर्पिगुंडादिभिः / पकानखाद्यकैदिव्यैर्द्राक्षादिवरपानकैः॥२॥ मद्यैर्मीसरसैश्वित्रैमधुभिश्च विशेषतः / ये चान्ये लोकविख्याता, रसास्तैश्च दिने दिने // 3 // एवं लालयतस्तस्य, जडस्य रसनां सदा / यदि शूणं भवेत्तच्च, कथयत्येव लोलता॥४॥ यतः सानुदिनं वक्ति, स्वामिनी मधुरप्रिया / मांसमाहरमद्यं च, नाथ ! मृष्टं च भोजनम् // 5 // ददस्व व्यञ्जनान्यस्यै, रोचन्ते तानि सर्वदा। तत्सर्व स करोत्येव, मन्वानोऽनुग्रहं जडः॥६॥ सततं लालनासक्तो, भार्यायाः प्रतिवासरम् / क्लेशराशिनिमग्नोऽपि, मोहादेवं च मन्यते // 7 //