________________ शुभार्पितं यथा धन्यो, निधान रत्नपूरितम् / विचक्षणाख्यमाचार्य, स नरेन्द्रो व्यलोकयत् // 30 // अथ तं तादृशं वीक्ष्य, सूरिं निर्मलमानसः। नरवाहनराजेन्द्रः, परं हर्षमुपागतः // 31 // ततश्चित्ते कृतं तेन, नूनं नास्ति जगत्त्रये / ईदृशं नरमाणिक्य, यादृशोऽयं तपोधनः // 32 // निर्जितामरसौन्दर्या, निवेदयति वीक्षिता / अमुष्याकृतिरेवोच्चैर्गुणसम्भारगौरवम् // 33 // तदीदृशस्य किं नाम, भवेद्वैराग्यकारणम् ? / येन यौवनसंस्थेन, खण्डितो मकरध्वजः // 34 // अथवा-गत्वा प्रणम्य पादाब्ज, स्वयमेव महात्मनः / ततः पृच्छामि पूतात्मा, भवनिर्वेदकारणम् // 35 // एवं विचिन्त्य गत्वाऽसौ, नत्वा सूरेः क्रमद्वयम् / दत्ताशीस्तेन हृष्टात्मा, निषण्णः शुद्धभूतले // 36 // ततस्तदनुमार्गेण, राजवृन्दं तथा पुरम् / उपविष्टं यथास्थानं, नत्वाऽऽचार्याध्रिपङ्कजम् / / 37) मया तु भद्रे ! पापेन, शैलराजवशात्मना / न नतं तादृशस्यापि, तदा सूरेः क्रमद्वयम् // 38 // पाषाणभृतमुक्तोलीसन्निभो लोकपूरणः / केवलं स्तब्धसर्वाङ्गो, निषण्णोऽहं भुवस्तले // 39 // अथ गम्भीरवोषेण, मेघवन्नीरपूरितः / धर्ममाख्यातुमारब्धः, स आचार्यों विचक्षणः // 40 // अभिहितं च तेन भगवता यदुत भो भो भव्याः ! प्रदीप्तभवनोदरकल्पोऽयं संसारविस्तारो, निवासः शारीरादिदुःखानां, न युक्त इह विदुषः प्रमादः, अतिदुर्लभेयं मानुषावस्था, प्रधानं परलोकसाधनं, परिणामकटवो विषयाः, विप्रयोगान्तानि सत्सङ्गतानि, पातभयातुरमविज्ञातपातमायुः, तदेवं व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः, तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः, अतः स्वीकर्तव्यः सिद्धान्तः, सम्यक् सेवितव्यास्तदभिज्ञाः, भावनीयं मुण्डमालिकोपमानं, त्यक्तव्या खल्वसदपेक्षा, भवितव्यमाज्ञाप्रधानेन, उपादेयं प्रणिधान, पोषणीयं सत्साधुसेवया रक्षणीयं प्रवचनमालिन्यम् / एतच्च विधिप्रवृत्तः संपादयति, अतः सर्वत्र विधिना प्रवर्तितव्यं सूत्रानुसारेण, प्रत्यभिज्ञातव्यमात्मस्वरूपं, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसंपन्नयोगेषु, लक्षयितव्या विस्रोतसिका, प्रतिविधेयमनागतमस्याः, भवत्येवं प्रवर्तमानानां सोपक्रमकर्मविलयः, विच्छिद्यते निरुपक्रमकर्मानुबन्धः, तस्मादत्रैव यतध्वं यूयमिति // एवं च निवेदिते तेन भगवता विचक्षणसूरिणाऽस्या: परिषदो मध्ये केपाश्चिद्भव्यानामुल्लसितश्चरणपरिणामः, अपरेषां संजातो देशविरतिक्षयोपशमः, अन्यैः पुनर्विदलितं मिथ्यात्वं, अपरेषां प्रतनूभूता रागादयः, केषाञ्चित्संपन्नो भद्रकभावः / ततो निपतितास्ते सर्वेऽपि भगवच्चरणयोः, अभिहितमेतैः--इच्छामोऽनुशास्ति, कुर्मों यदाज्ञापयन्ति नाथाः / अत्रान्तरे चिन्तितं तातेन यदुत प्रश्नयाम्यधुना तदहमात्मविवक्षितं, ततो ललाटतटविन्यस्तकरमुकुलितेनाभिहितमनेनजनातिशायिरूपाणां. जगदैश्वर्यभागिनाम् / भदन्त ! तत्रभवतां, किं वो वैराग्यकारणम् // 1 // सूरिणाऽभिहितं भूप ! यद्यत्र तव कौतुकम् / ततस्ते कथयाम्येष, भवनिर्वेदकारणम् // 2 // किं तु-आत्मस्तुतिः पनिन्दा, पूर्वक्रीडितकीर्तनम् / विरुद्धमेतद्राजेन्द्र ! साधूनां त्रयमप्यलम् // 3 // ममात्मचरिते चैतत्कथ्यमाने परिस्फुटम् / त्रयं संपद्यते तेन, न युक्तं तस्य कीर्तनम् // 4 // तातेनाभिहितम्-एवं निगदता नाथ! वर्धितं कौतुकं त्वया। कर्तव्योऽतः प्रसादो मे, निवेद्यं चरितं निजम् // 5 // ततो विज्ञाय निर्बन्धं, मध्यस्थेनान्तरात्मना / प्रबोधकारणं ज्ञात्वा, सूरिरित्थमवोचत // 6 // यदुत-अनादिनिधनं लोके, नानावृत्तान्तसङ्कुलम् / विद्यते भूतलं नाम, नगरं सुमनोहरम् // 7 //