________________ 189 ततः सा वराकी नरसुन्दरी विगलितविद्येवाम्बरचारिणी, परिभ्रष्टसमाधिसामर्थ्येव योगिनी, तप्तस्थलनिक्षिप्तेव शफरिका, अवाप्तनष्टरत्ननिधानेव मूषिका सर्वथा त्रुटिताशापाशबन्धना निपतिता महाशोकसागरे चिन्तयितुं प्रवृत्ता–किमिदानीं सर्वथा प्रियतमतिरस्कृताया मम जीवितेनेति / ततो निर्गत्य भवनात् कचिद् गन्तुमारब्धा / ततः किमियं करोतीति विचिन्त्य सहित एव शैलराजे नालक्षितपादपातं लग्नोऽहं तदनुमार्गेण / ___ इतश्च--लोकयन्निव निर्विणो, मदीयं दुष्टचेष्टितम् / अत्रान्तरे गतोऽन्यत्र तदा क्षेत्रे दिवाकरः॥१॥ ततः समुल्लसितमन्धकारं संजाता विरलजनसञ्चारा राजमार्गाः, ततो गता सैकत्र शून्यगृहे नरसुन्दरी / इनश्चोद्गन्तुं प्रवृत्तः शशधरः, ततो मन्दमन्दप्रकाशे तामेव निरीक्षमाणः प्राप्तोऽहमपि तद्द्वारदेशे, स्थितो गोपायितेनात्मना / ततो नरसुन्दर्या विलोकितं दिक्चक्रवालं, इष्टकास्थलमारुह्योतरीयेण बद्धो मध्यवलये पाशकः, निर्मिता तत्र शिरोधरा। ततोऽभिहितमनया-भो भो लोकपालाः! शृणुत यूयं, अथवा प्रत्यक्षमेवेदं दिव्यज्ञानिनां तत्रभवतां यदुत लब्धप्रसरतया नाथवादेन कलोपन्यासं कारितो मयाऽऽर्यपुत्रो न परिभवबुद्धया, तस्य तु तदेव मानपर्वतारोहकारणं संपन्नं एवं च सर्वथा निराकृताऽहं तेन मन्दभाग्या / अत्रान्तरे मया चिन्तितं--नास्यास्तपस्विन्या ममोपरि परिभवबुद्भिः, किं तर्हि ? प्रणयमात्रमेवात्रापराध्यति, ततो न सुन्दरमनुष्ठितं मया, अधुनाऽपि वारयाम्येनामितोऽध्यवसायादिति विचिन्त्य पाशकच्छेदार्थ यावञ्चलामि तावदभिहितं नरसुन्दर्या यदुत तत्प्रतीच्छत भगवन्तो लोकपालाः साम्प्रतं मदीयप्राणान् , मा च मम जन्मान्तरेष्वपि पुनरेवंविधव्यतिकरो भूयादिति / ततः शैलराजेनाभिहितं-कुमार ! पश्य जन्मान्तरेऽपि त्वदीयसम्बन्धमेषा नाभिलपति / मया चिन्तितं--सत्य मिदं, तथाहि--इयं प्रस्तुतव्यतिकरनिषेधमाशास्ते मदीयव्यतिकरश्चात्र प्रस्तुतः, तम्रियतां, किमनया मम पापया? ततो लब्धप्रसरेण दत्तो मम हृदये शैलराजेन स्वविलेपनहस्तकः, स्थितोऽहं तस्य माहात्म्येन तां प्रति काष्ठवनिष्ठितार्थः। ततः प्रवाहितो नरसुन्दर्यात्मा, पूरितः पाशकः लम्बितुं प्रवृत्ता, निर्गते नयने, निरुद्धःश्वासमार्गः, वक्रीकृता ग्रीवा, आकृष्टं धमनीजालं, शिथिलितान्यङ्गानि, समसमायितं श्रोतोभिः, निर्वादितं वक्रकुहरं, विमुक्ता च सा प्राणैर्वराकी / इतश्च भवनाग्निर्गच्छन्ती दृष्टाऽम्बया नरसुन्दरी, अहं तु तदनुयायी। चिन्तितमनया नूनं भग्नप्रणयेयं रुष्टा कचिद् गच्छति मे वधूः, अयं पुनरस्या एव प्रसादनार्थ पृष्ठतो लग्नो मम पुत्रकः / ततो दूरं गतयोरावयोरनुमार्गेणागच्छन्ती समागताऽम्बापि तत्र शून्यगृहे / दृष्टा तथा लम्बमाना नरसुन्दरी / चिन्तितमम्बया-हा हा हताऽस्मि, नूनं मत्पुत्रकस्यापीयं वार्ता, कथमन्यथाऽस्यामेवं व्यवस्थितायां स तूष्णीमासीत् ? मया तु शैलराजीयावलेपनदोषेणैव अवस्तुनिर्बन्धपरेयमिति कृता तदवधीरणा / ततः शोकभरान्धया मम पश्यत एव तथैव व्यापादितोऽम्बयाऽप्यात्मा / ततः साध्वससन्तापेनेव शुष्कं मनाङ् मे स्तब्धचित्ताभिधानं तत्तदा हृदयावलेपनं गृहीतोऽहं पश्चात्तापेनाक्रान्तः शोकभरेण / ततः स्वाभाविकस्नेहविहलीभूतमानसः / क्षणं विधातुमारब्धः, प्रलापमतिदारुणम् // 1 // ___ तथाऽप्यतिप्रौढतया निजमाहात्म्येन कृत एव मे शैलराजेन चित्तावष्टम्भः / चिन्तितं च मया अये मनुष्यः कथं स्त्रीविनाशे रोदितीति / ततः स्थितोऽहं तूष्णींभावेन / इतश्च कन्दलिकया चिन्तितं-किमिति स्वामिनी नागच्छति ? तद्गच्छाम्यहं तदन्वेषणार्थ, ततः कुतश्चिनिश्चित्य प्राप्ता