________________ मातुस्ति रस्कार त्वदीयरोषनाम्नाऽपि, म्रियते सा तपस्विनी / सन्तोषमात्रनाम्नाऽपि, तावकीनेन जीवति // 3 // अतो यन्मुग्धया किञ्चिदपराद्धं तया तव / बालया प्रणयात्सर्व, तद्वत्सः क्षन्तुमर्हति // 4 // प्रणतेषु दयावन्तो, दीनाभ्युद्धरणे रताः / सस्नेहार्पितचित्तेषु, दत्तप्राणा हि साधवः // 5 // ततश्चेदम्बया नरसुन्दरीस्नेहसर्वस्वमुत्कीय॑मानमाकर्ण्य यावकिलाह नहनिर्भरतया तां प्रति प्रगुणो भवामि तावच्छैलराजेन विरचिता कुटिलभ्रकुटिवूनितमुत्तमानं दत्तो मदीयहृदये विलेपनचर्चः। ततस्तस्याः सम्बन्धिनमपराधं संस्मृत्य जातो मम पुनश्चित्तावष्टम्भः। ततोऽभिहिता मयाऽम्बा यदुत न कार्य मम तया परिभवकारिण्या पापयेति / अम्बयाऽभिहितं-वत्स! मा मैवं वोचः, क्षन्तव्यो मम लग्नाया वत्सेन तदीयोऽयमेको गुरुरप्यपराधः। ततः पतिता मच्चरणयोरम्बा / मयाऽभिहितअपसर त्वमप्यवस्तुनिर्बन्धपरे ! मम दृष्टिपथादपसर, न प्रयोजनं त्वयाऽपि मे; या त्वं मया निःसारितां तां दुरात्मिकां संगृहासि, ततश्चरणाभ्यां प्रेरिता मयाऽम्बा / ततो भद्रेऽगृहीतसङ्केते ! शैलराजवशवर्तिना मया पापात्मना तथा तिरस्कृता सती लक्षयित्वा मदीयमनिवर्तकमाग्रहविशेष निराशा मुञ्चन्ती नयनसलिलं यथाऽऽगतमेव प्रतिगताऽम्बा / निवेदितो नरसुन्दर्यै व्यतिकरः, तमाकर्ण्य वज्रनिर्दलितेव मूर्च्छया निपतिताऽसौ भूतले सिक्ता चन्दनरसेन, समाश्वासिता तालवृन्तवायुना लब्धचेतना रोदितुमारब्धा / विमलमालत्याऽभिहितं--पुत्रि ! किं क्रियते ? वज्रमयहृदयोऽसौ ते भर्ता तथापि मा रुदिहि, मुश्च विषाद, साहसावष्टम्भेन कुरु तावदेकं त्वमुपायं, गच्छ स्वयमेव प्रियतमप्रसादनार्थ ततः स्वयं गतायाः प्रत्यागतहृदयः कदाचित्प्रसीदत्यसौ / यतो मार्दवाध्यासितानि कामिहृदयानि भवन्ति, अथ तथापि कृते न प्रसीदेत्ततः पश्चात्तापो न भविष्यति, यतः सुपरिणामिते वल्लभके किलावरक्तको न भवतीति लोकवार्ता / नरसुन्दरी प्राह--यदाज्ञापयत्यम्बा, ततश्चलिता सा मम तोषणार्थ, किमस्यास्तत्र गतायाः संपद्यत इतिविमर्शेन लग्ना तदनुमार्गेणाम्बा, प्राप्ता मम पार्थे नरसुन्दरी, स्थिता द्वारदेशे विमलमालती। . नरसुन्दर्याऽभिहितंनाथ! कान्त ! प्रिय ! स्वामिञ्जीवदायक वल्लभ ! प्रसीद मन्दभाग्यायाः, प्रसीद नतवत्सल ! // 1 // न पुनस्ते मनोदुःखं, करिष्येऽहं कदाचन / त्वां विना शरणं नाथ !, नास्ति मे भुवनत्रये॥२॥ एवं च वदन्ती बाष्पोदकबिन्दुवर्षिणा लोललोचनयुगलेन स्नपयन्ती मदीयचरणद्वयं प्रणता नरसुन्दरी / मम तु तां तादृशीं पश्यतस्तदा कीदृशं हृदयं संपन्नं ? अपि च--स्नेहेन नरसुन्दर्या, भवत्युत्पलकोमलम् / वीक्षितं शैलराजेन, शिलासङ्घातनिष्ठुरम्॥१॥ नवनीतमिवाभाति, यावच्चिन्तयति प्रियाम् / वज्राकारं पुनर्भाति, शैलराजवशीकृतम् // 2 // ततो दोलां समारूढं तदा मामकमानसम् / निश्चेतुं नैव शक्नोमि, किमत्र मम सुन्दरम् // 3 // तथापि मोहदोषेण, मया दीनाऽपि बालिका / शैलराज प्रियं कृत्वा, भत्सिता नरसुन्दरी॥४॥ कथम्--आः पापे ! गच्छ गच्छेति, वागाडम्बरमायया।न प्रतारयितुं शक्यस्त्वयाऽयं रिपुदारणः // 5 // कुशलाऽपि कलासूच्चैरन्येषां यदि वश्चनम् / कर्तुं शक्ताऽसि नो जातु, मूर्खाणामपि मादृशाम्॥६॥ यदाऽहं हसनस्थानं, संजातस्त्वादृशामपि / तदा किं ते प्रलापेन?, कीदृशी मम नाथता॥७॥ इत्युक्त्वा स्तब्धसर्वाङ्गः, शून्यारण्ये मुनियथा / स्थितोऽहं मौनमालम्ब्य शैलराजेन चोदितः॥८॥ नरसुन्द गिमः