________________ णिमेखलाकिङ्किणीकलकोलाहलनूपुरझणझणारावसमाकृष्टस्नानवापिकाकलहंसिकानि पदानि निक्षिपन्ती चलिता नरसुन्दरी, निर्गता मामकीनसदनात् , प्राप्ता तातीयभवने, स्थितोऽहं शैलस्तम्भनया यावदद्यापि न शुष्यति शैलराजीयं तद्वक्षःस्थलावलेपनं तावतीं वेलां, शोषमुपागते मनाक् पुनस्तत्रावलेपने संजातो मे पश्चात्तापः, बाधते नरसुन्दरीस्नेहमोहः समाध्यासितोऽहमरत्या, गृहीतो रणरणकेन, अङ्गीकृतः शून्यतया, उररीकृतो विहलतया, प्रतिपन्नो विकारकोटिभिः, अवष्टब्धो मदनज्वरेण / ____ततो निषण्णः शयनीये, तत्रापि प्रवर्धमानया जृम्भिकयाऽनवरतमुद्वर्तमानेनाङ्गेन मत्स्यक इव खादिराङ्गारराशिमध्ये दन्दह्यमानः स्तोकवेलायां यावत्तिष्ठामि तावदागता सविषादमम्बा विमलमालती। ततस्तां वीक्ष्य कृतं मयाऽऽकारसंवरणं, निषण्णा भद्रासने स्वयमेवाम्बा, स्थितोऽहं पर्यङ्क एवोपविष्टः / अभिहितमम्बया-वत्स ! न सुन्दरमनुष्ठितं भवता यदसौ तपस्विनी नरसुन्दरी परुषवचनैस्तथा तिरस्कृता, तथाहि-यदितो गतायास्तस्याः संपन्नं तत्समाकर्णयतु वत्सः। मयाऽभिहितं-उच्यतां यत्ते रोचते / अम्बयाऽभिहितं-अस्ति तावदितो निर्गता नयनसलिलधाराधौतगण्डलेखा दीनमनस्का दृष्टा सा मया नरसुन्दरी पतिता रुदन्ती मम पादयोः / मयाऽभिहिता-हले ! नरसुन्दरि ! किमेतत् ? तयाऽभिहित-अम्ब ! दाहज्वरो मां बाधते, ततो नीता मया सा वातप्रदेशे, सज्जीकारितं शयनीयं, तत्र च स्थापिता सा, निषण्णाऽहं पार्श्व, ततः प्रहतेव महामुद्रेण, प्लुष्यमाणेव तीव्राग्निना, खाद्यमानेव वनपश्चाननेन, ग्रस्यमानेव महामकरण, अवष्टभ्यमानेव महापर्वतेन, उत्कर्त्यमानेव कृतान्तकर्तिकया, पाटयमानेव क्रकचपाटेन, पच्यमानेव नरके प्रतिक्षणमुद्वर्तपरावर्त कर्तुमारब्धा / भिहितं-हले ! किनिमित्तकः पुनस्तवायमेवंविधो दाहज्वरः ? ततो दीर्घदीर्घ निःश्वस्य न किञ्चिजल्पितमनया / मया चिन्तितं-मानसीयमस्याः पीडा, कथमन्यथा ममापि न कथयेत् ? ततः कृतो मया निबन्धः, कथितं कृच्छ्रेण नरसुन्दा यथावृत्तं, ततो नियुज्य तस्याः शीतक्रियाकरणे कन्दलिकां मयाऽभिहिता सा नरसुन्दरी यदुत वत्से ! यद्येवं ततो धीरा भव, मुश्च विषादं. अवलम्बस्व साहसं, गच्छाम्यहं स्वयमेव वत्सस्य रिपदारणस्य समीपे, करोमि तं तवानकलं. केवलं किं न विज्ञातं पूर्वमेव त्वयेदं यथा नितरां मानधनेश्वरो मदीयस्तनयः न विषयः प्रतिकूलभाषणस्य, तदिदानीमपि विज्ञातमाहात्म्ययाऽस्य त्वया न कदाचिदपि प्रतिकूलमाचरणीयं यावज्जीवं परमात्मेवायमाराधनीयः / ततश्चेदं मदीयवचनमाकर्ण्य सा बाला नरसुन्दरी विकसितेव कमलिनी, कुसुमितेव कुन्दलता, परिपाकबन्धुरेव मञ्जरी, मदसुन्दरेव करिणिका, जलसेकाप्यायितेव वल्लरी, पीतामृतरसेव नागप्रणयिनी, गतघनबन्धनेव चन्द्रलेखिका, सहचरमीलितेव चक्रवाकिका, क्षिप्तेव सुखामृतसागरे सर्वथा किमप्यनाख्येयं रसान्तरमनुभवन्ती शयनादुत्थाय निपतिता गाढं मम चरणयोः। अभिहितमनया अम्ब ! महाप्रसादः, अनुगृहीताऽस्मि मन्दभाग्याऽहमनेन वचनेनाम्बया, तद्गच्छतु शीघ्रमम्बा, करोतु ममानुकूलमेकवारमार्यपुत्रं, ततो यदि पुनरयं जनस्तस्य प्रतिकूले वर्तमानः स्वप्नेऽपि विज्ञातः स्यादम्बया ततो यावज्जीवं न संभाषणीयो नापि द्रष्टव्यः पापात्मेति / मयाऽभिहितं यद्येवं ततो गच्छामि / नरसुन्दरी प्राह-अम्ब ! महाप्रसादः। ततः समागताऽहमेषा वत्सस्य समीपे, तदयमत्र वत्स ! परमार्थः। सा तु दन्दह्यते बाला, विदित्वा प्रतिकूलताम् / तवानुकूलतां मत्वा, प्रमोदमवगाहते // 1 // वल्लभेयं कुमारस्य, श्रुत्वेदममृतायते / अनिष्टेयं कुमारस्य, श्रुत्वेदं नारकायते // 2 //