________________ रकमण्डप 184 संजातमद्य मम देवकीयमाकारणं, ततः समागतोऽहं, अयं तु कुतश्चिदन्यतः स्थानादिहागत इति / तातेनाभिहितं-आर्य ! यद्येवमपात्रचूडामणिरेष रिपुदारणो गुणानामभाजनतया वर्जितो युष्माभिः तत्किमिति गर्भाधानादारभ्यास्येयन्तं कालं यावत्कल्याणपरम्परा संपन्ना ? किमिदानीमेवं लोकमध्ये बिगुप्यत इति / महामतिराह-देव ! अस्त्यस्य पुण्योदयो नामान्तरङ्गो वयस्यः, तजनिता प्राक्तनीकल्याणपरम्परा, तथाहि-तत्प्रभावादेवायं प्रादुर्भूतः सुकुले संपन्नो जननीजनकयोरभीष्टतमः संजातो रूपसौभाग्यमुखैश्वर्यादिभाजनम् / तातः प्राह-तर्हि क्व पुनरधुना गतोऽसौ पुण्योदयः ? महामतिराहन कुत्रचिद्गतोऽत्रैव प्रच्छन्नरूप आस्ते, केवलं पश्यन्नस्यैव रिपुदारणस्य सम्बन्धीनि दुर्विलसितानि चित्तदुःखासिकया साम्प्रतं क्षीणशरीरोऽसौ तपस्वी वर्तते, न शक्नोत्यस्यापदं निवारयितुमिति / तदाकर्ण्य तातो नास्त्यत्र कश्चिदुपायो विनाटिता वयमनेन दुष्पुत्रेण महालोकमध्ये प्रसभमिति चिन्तया राहुग्रस्तशशधरबिम्बमिव कृतं तातेन कृष्णं मुखं, लक्षितः समस्तलोकः पर्यालोचनपरमार्थः ततो विलक्षीभ्रतास्तातबान्धवाः, विद्राणवदनः संपन्नः परिजनः, प्रहसिता मुखमध्ये पिङ्गलोकाः, विषण्णा नरसुन्दरी, विस्मितो नरकेसरिलोकः / ततश्चिन्तितं जनेन तातलज्जया लघुध्वनिना परस्परमुक्तं च-अये ! गर्वाध्मातः परं मूढो, बस्तिवद्वातपूरितः। निःसारोऽपि गतः ख्यातिमेष भो ! रिपुदारणः // 1 // अथवा--निरक्षरोऽपि वाचालो, लोकमध्येऽतिगौरवम् / वागाडम्बरतः प्राप्तो, यः स्यादन्योऽपि मानवः // 2 स सौं निकषप्राप्तः, प्राप्नोत्येव विडम्बनाम् / महाहास्यकरी मूढो, तथाऽयं रिपुदारणः // 3 // मम तु तातोपाध्यायौ कर्णोत्सारकेण परस्परं तथाजल्पन्तौ पश्यतः समुत्पन्नो मनसि विसर्गः विकल्पः-अये ! बलात्कारेण मामेतौ जल्पयिष्यतः / ततो भयातिरेकेण स्तम्भितं मे गलकनाडीजालं निरुद्धश्वोच्छवासनिःश्वासमार्गः, संजाता म्रियमाणावस्था / ततो हा पुत्र! हा तात! हा वत्स! हा तनय ! किमेतदितिप्रलपन्ती वेगेनागत्य शरीरे लग्ना ममाम्बा विमलमालती, पर्याकुलीभूतः परिजनः, किं कर्तव्यताविमूढा वसुंधरा, विस्मितो नरकेसरी / तातेनाभिहित-गच्छत भो लोकाः ! गच्छत न पटुः शरीरेणाद्य कुमारः, पुनर्जल्पो भविष्यति / तदाकर्ण्य निर्गता वेगेन लोकाः, मिलिता बहिस्त्रिकचतुष्कचत्वरादिषु, अहो रिपुदारणस्य पाण्डित्यमहो पाण्डित्यमिति प्रवृत्तं प्रहसनं, प्रहितौ लज्जावनम्रण तातेन कलोपाध्यायनरकेसरिणौ, गतः स्वावासस्थाने नरकेसरी / चिन्तितमनेन-दृष्टं यद् द्रष्टव्यं, दीयतां प्रभाते प्रयाणकमिति / ममापि निर्जनीभूते मन्दीभूतं भयं, स्वस्थीभूतं शरीरं, तातस्य तु हृतराज्यस्येव वज्राहतस्येव महाचिन्ताभराक्रान्तस्य लङ्घितं तद्दिनं, समागता रजनी, न दत्तं प्रादोषिकमास्थानं. निवार्य जनप्रवेशं प्रसुप्तः, केवलं तया चिन्तयाऽपनिद्रेणैवातिवाहितप्राया विभावरी // पुण्योदयेन इतश्च लज्जितो मे वयस्यः पुण्योदयः। चिन्तितमनेनयस्य जीवत एवैवं, पुंसः स्वामी विडम्ब्यते / कि अस्य जन्मनाऽप्यत्र, जननीक्लेशकारिणः // 1 // ततश्च-जातं विच्छायकं तावन्ममैतदतिदुःसहम् / यायात्सुतामदत्त्वैव, यद्यसौ नरकेसरी // 2 // ततोऽस्य सर्वथा व्यर्थ, कुमारस्य मदीयकम् / संनिधानमतो नैव, ममोपेक्षाऽत्र युज्यते // 3 // ततो यद्यप्ययोग्योऽयमेतस्या रिपुदारणः / तथापि दापयाम्येनामस्मै कमललोचनाम् // 4 // अत्रान्तरे समागता तातस्य रात्रिशेषे निद्रा / ततो भद्रेऽगृहीतसङ्केते ! समाश्वासनार्थ तातस्य दत्तं कामरूपितया स्वमान्तरे तेन पुण्योदयेन दर्शनं, दृष्टः सुन्दराकारो धवलवर्णः पुरुषः / अभिहितमनेन-महाराज ! कि स्वपिषि किंवा जागर्षि ? तातेनाभिहितं-जागर्मि / पुरुषः प्राह-यद्येवं ततो मुञ्च दापिता कुमारी