________________ 183 उपविष्टः सपरिकरो नरकेसरी / ततस्तदनन्तरं पूरयन्ती जनहृदयसरांसि, लावण्यामृतप्रवाहेण अधरयन्ती वरवर्हिकलापं कृष्णस्निग्धकुश्चितकेशपाशेन प्रोद्भासयन्ती दिक्चक्रवालं, वदनचन्द्रेण विधुरयन्ती कामिजनचित्तानि, लीलामन्थरेण विलासविलोकितेन दर्शयन्ती महेभकुम्भविभ्रमं पयोधरभरेण उच्छृङ्खलयन्ती मदनवारणं विस्तीर्णजघनपुलिनेन विडम्बयन्ती सञ्चारितरक्तराजीवयुगललीलां चरणयुग्मेन उपहसन्ती कलकोकिलाकुलकूजितं मन्मथोल्लापनल्पितेन कुतूहलयन्ती वरमुनीनपि प्रवरनेपथ्यालङ्कारमाल्यताम्बूलाङ्गरागविन्यासेन परिकरिता प्रियसखीवृन्देन अधिष्ठिता वसुंधरया प्रविष्टा नरसुन्दरी / ततस्तां विलोक्याहं हृष्टः स्वचेतसा विजृम्भितः शैलराजः विलिप्तं स्तब्धचित्तेन तेनावलेपनेन मयाऽऽत्महृदयम् / चिन्तितं च-कोऽन्यो मां विहायैर्ना परिणेतुमर्हति ? न खलु मकरध्वजाहते रतिरन्यस्योपनीयते / अत्रान्तरे विहितविनया तातादीनामभिहिता नरकेसरिणा नरसुन्दरी यदुत उपविश वत्से ! मुश्च लर्जा, पूरयाऽऽत्मीयमनोरथान्, प्रश्नय रिपुदारणकुमारं कलामार्गे यत्र कचित्ते रोचते / ततो नरमुन्दर्या सहर्षमुपविश्याभिहितं यदाज्ञापयनि तातः, केवलं गुरूणां समक्षं न युक्तं ममोद्राहयितुं, तस्मादार्यपुत्र एवोद्ाहयतु सकलाः कलाः, अहं पुनरेकैकस्यां कलायां सारस्थानानि प्रश्नयिष्यामि, तत्रार्यपुत्रेण निर्वाहः करणीय इति / तदाकयं हृष्टौ नरवाहननरेन्द्रौ समस्तं राजकुलं लोकाश्च / ततस्तातेनाभिहितोऽहं-कुमार ! सुन्दरं मन्त्रित राजदुहित्रा, तत्साम्प्रतमुद्ग्राहयतु कुमारः सकलाः कलाः, पूरयत्वस्या मनोरथान् , जनयतु ममानन्दं, निर्मलयतु कुलं, गृह्णातु जयपताकां, एषा सा निकषभमिर्वर्तते विज्ञानप्रकर्षस्येति / मम तु तदा कलानां नामान्यपि विस्मृतानि। ततो विहलीभूतमन्तःकरणं, प्रकम्पिता गात्रयष्टिः, प्रादुर्भूताः प्रस्वेदविन्दवः, संजातो रोमोद्धर्षः, प्रनष्टा भारती, तरलिते लोचने / ततो हा किमेतदितिविषण्णस्तातः, प्रलोकितं महामतिवदनम् / महामतिराह-किं कर्तव्यमादिशतु देवः। तातेनाभिहितं-किमितीयमीदृशी कुमारशरीरेऽवस्था ? ततः कर्णे निवेदितं महामतिना, देव ! मनःक्षोभविकारोऽयमस्य / तातः प्राह-किं पुनरस्य मनःक्षोभनिमित्तं ? महामतिराह-देव ! प्रस्तुतवस्तुन्यज्ञानं, भवत्येव हि वागायुधानां सदसि विदुषां सस्पर्धमाभाषितानां ज्ञानावष्टम्भविकलानां मनसि क्षोभातिरेकः / तातेनाभिहितं आर्य ! कथमज्ञानं कुमारस्य ? ननु सकलकलासु प्रकर्ष प्राप्तः कुमारो वर्तते ! ततः संस्मृत्य मदीयदुर्विलिसितं गृहीतो मनाक्क्रोधेन कलाचार्यः / ततोऽभिहितमनेन--देव ! प्रकर्ष प्राप्तः कुमारः शैलराजमृषावादप्रणीतयोः कलयोन पुनरन्यत्र / तातः प्राड-के पुनस्ते कले ? महामतिराह--दुर्विनयकरणमसत्यभाषण च, एते ते शैलराजमृपावादप्रणीते कले, अनयोश्चात्यन्तं कुशलः कुमारः, न पुनरन्यकलानां गन्धमात्रमपि जानीते / तातः प्राह-कथमिदं ? महामतिनाऽभिहितं-देव ! देवस्य दीर्घचित्तसन्तापभीरुभिस्तदैव नाख्यातमिदमस्माभिः, यतो लोकमार्गातीतं कुमारस्य चरितमिदानीमपि देवस्य पुरतस्तत्कथयतो न प्रवर्तते मे वाणी / तातेनाभिहितं-यथावृत्तकथने भवतो नास्त्यपराधः, निःशकं कथयत्वार्यः / ततो कलाचार्येणावज्ञाकरणादिको वेत्रासनारोहणगर्भो दुर्वचनतिरस्करणपर्यन्तो निवेदितः समस्तोऽपि मदीयदुर्विलसितवृत्तान्तः / तातेनाभिहितं-आर्य ! यद्येवं ततो जानताऽपि त्वयाऽस्य कुलदूषणस्य स्वरूपं किमित्ययमेवंविधसभामध्ये प्रवेशितः ? ननु विगोपिता वयमाकालमनेन पापेन / महामतिराहदेव ! न मयाऽयमिह प्रवेशितः, मद्भवनामिर्गतस्यास्य द्वादश वर्षाणि वर्तन्ते, केवलमकाण्ड एव