________________ 282 मायोत्पत्तिस्तत्कु टुम्ब च नरसुन्दयोगमा ततो यदाज्ञापयति देव इत्यभिधाय संपादितं भाण्डागारिकेण राजशासनम् / महामतिनाऽपि मा देवस्य चित्तसन्तापो भविष्यतीत्याकलय्य न निवेदितं ताताय मदीयविलसितम् / ततोऽभिहितोऽहं तातेन-वत्स ! अद्यदिनादारभ्य स्थिरीकुर्वता पूर्वगृहीतं कलाकलापं गृह्णता चापूर्व तत्रैवोपाध्यायभवने भवता स्थातव्यमहमपि न द्रष्टव्यः / मयाभिहितं-'एवं भवतु', जातश्च मे हर्षः / ततस्तातसमीपानिर्गतेन मया मृषावादं प्रत्यभिहित-वयस्य ! कस्योपदेशेनेदृशं भवतः कौशल्यं, येन युष्मदवष्टम्भेन मया संपादितस्तातस्य हर्षः, प्रच्छादितः कलाचार्यकलहव्यतिकरो, लब्धा चेयमतिदुर्लभा मुत्कलचारितेति / मृषावादेनाभिहितं--कुमाराकर्णय / अस्ति राजसचित्ते नगरे रागकेसरी नाम राजा / तस्य च मूढता नाम महादेवी / तयोश्चास्ति माया नाम दुहिता सा मया महत्तमा भगिनी प्रतिपक्षा, प्राणेभ्योऽपि वल्लभोऽहं तस्याः, ततस्तदुपदेशेन ममेदृशं कौशलं, सा च जननीकल्पमात्मानं मन्यमाना यत्र यत्र कचिदहं संचरामि तत्र तत्र वत्सलतया सततमन्तर्लोना तिष्ठति, न क्षणमात्रमपि मां विरहयति / मयाऽभिहितं--वयस्य ! दर्शनीया ममापि साऽऽत्मीया भगिनी भवता / मृषावादेनाभिहितं--एवं करिष्यामि / ततो मया ततः प्रभृति वेश्याभवनेषु, द्यूतकरशालासु, दुर्ललितमीलकेषु, तथाऽन्येषु च दुर्विनयस्थानेषु यथेष्टचेष्टया विचरता तथापि मृषावादबलेन कलाग्रहणमहं करोमीति लोकमध्ये गुणोपार्जनतत्परमात्मानं प्रकाशयता तातमपश्यतैवातिवाहितानि द्वादश वर्षाणि / मुग्धजनप्रवादेन च समुच्चलिताऽलीकवार्ता यथा रिपुदारणकुमारः सकलकलाकलापकुशल इति / प्रचलितो देशान्तरेष्वपि प्रवादः, समारूढश्चाई यौवनभरे / ततश्च शेखरपुरे नगरे नरकेसरिनरेन्द्रस्य वसुंधरामहादेव्याः कुक्षिसंभूताऽस्ति नरसुन्दरी नाम दुहिता, सा च भुवनाद्भुतभूता रूपातिशयेन निरुपमा, कलासौष्ठवेन संप्राप्ता यौवनं, समुत्पन्नोऽस्याश्चित्तेऽभिनिवेशो यदुत यः कलाकौशलेन मत्तः समधिकतरः स एव यदि परं मां परिणयति, नापरः, निवेदितं पित्रोनिजाकूतं, संजातमनयोः पर्याकुलत्वं नास्त्येवास्याः कलाभिः समानोऽपि भुवने पुरुषः कुतः पुनरधिकतर इति भावनया / ततः श्रुतस्ताभ्यां मदीयः कलाकौशलप्रवादः। चिन्तितं नरकेसरिणा-स एव रिपुदारणो यदि परमस्याः समगलतरो भविष्यति, युज्यते च नरवाहनेन सहास्माकं वैवाह्यं, यतः प्रधानवंशो महानुभावश्चासौ वर्तते, तस्य च राज्ञो रत्नसूचिरिव महानागस्य निरपत्यस्य सैवैका नरसुन्दरी दुहिता / ततोऽत्यन्तमभीष्टतया तस्याश्चिन्तितमनेन गच्छामि तत्रैव सिद्धार्थपुरे गृहीत्वा वत्सां नरसुन्दरी, ततः परीक्ष्य तं रिपुदारणं निकटस्थितो विवाहयाम्येनां येन मे चित्तनिवृतिः संपद्यते / ततः सर्वबलेन समागतो नरकेसरी, ज्ञापितस्तातस्यागमनवृत्तान्तः, परितुष्टोऽसौ, कारितमुच्छ्रितपताकं नगरं, प्रवेशितो महाविमर्देन नरकेसरी तातेन, दत्तमावासस्थानं, भविष्यति रिपुदारणकुमारस्य नरसुन्दर्या सह कलाकौशलपरीक्षेति ज्ञापितं लोकानां, प्रशस्तदिने सज्जीकारितः स्वयंवरमण्डपः, विरचिता मञ्चाः, मीलितं राजवृन्दं, समुपविष्टस्तन्मध्ये सपरिकरस्तातः / समाहूतोऽहं कलाचार्यश्च, प्राप्तोऽहं सह मित्रत्रयेण तातसमीपं, महामतिश्च सह राजदारकैः / इतश्च पुण्योदयस्य मदीयदश्चेष्टितानि पश्यतश्चित्तखेदेनैव संजातं कशतरं शरीरं, विगलितं परिस्फरणं, मन्दीभृतः प्रतापः / ततोऽहमुपविष्टस्ताताभ्यणे कलोपाध्यायश्च, निवेदितं विनयनम्रण नरवाहनेन महामतये नरकेसरिराजागमनप्रयोजनम् / तदाकर्ण्य संजातो मे हर्षातिरेकः, स्थितस्तूष्णींभावेन स्वहृदयमध्ये हसन्नुपाध्यायः / अत्रान्तरे समागतो नरकेसरी, परितुष्टो नरवाहनः, दापितं तस्मै महार्हसिंहासनं, मूर्खस्य हास्यास्प