________________ सुषमा विजोड पात्रता 181 महामतिना चिन्तितं—सत्यमेते तपस्विनः प्रवदन्ति, नोचित एवायं रिपुदारणः सत्सङ्गमस्य / तथाहि-लुब्धमर्थप्रदानेन क्रुद्धं मधुरभाषणैः मायाविनमविश्वासात् , स्तब्धं विनयकर्मणा।।१॥ चौर रक्षणयत्नेन, सबुद्धया पारदारिकम् / वशीकुर्वन्ति विद्वांसः, शेषदोषपरायणम् ॥२॥युग्मम् न विद्यते पुनः कश्चिदुपायो भुवनत्रये / असत्यवादिनः पुंसः, कालदष्टः स उच्यते // 3 // यतः--सर्वेऽपि ये जगत्यत्र, व्यवहाराः शुभेतराः / सत्ये प्रतिष्ठिता नेदं, यस्यासौ नन्वलौकिकः // 4 // अतो विज्ञाय यत्नेन, सत्यहीनं नराधमम् / त्यजन्त्येव सुदूरेण, प्रियसत्या महाधियः // 5 // ततोऽयं सत्यहीनत्वादस्माकं रिपुदारणः / सम्यग्विज्ञातशीलानां, न मध्ये स्थातुमर्हति // 6 // अथवा नास्य वराकस्य रिपुदारणस्यायं दोषो यतोऽयमनेन शैलराजेन प्रेर्यमाणस्तावत्सकलदुविनयमाचरति, तथाऽनेन मृषावादेन प्रोत्साह्यमानः खल्वयमेवं भाषते, ततो यथेतौ पापवयस्यौ परिहरति तदर्थ शिक्षयामि तावदेन, ततः कृतोऽहमुत्सारके महामतिना / अभिहितश्च-कुमार ! नेदृशानां स्थानमिह मदीयशालायां, अतः कदाचिदेतौ पापवयस्यौ परिहर, अन्यथा नागन्तव्यमिह . कुमारेणेति / मयाऽभिहितं--त्वमात्मीयजनकाय स्वस्थानं प्रयच्छ, वयं तु त्वदीयस्थानेन त्वयापि च विनैव भलिष्यामहे / ततश्चैवंविधैस्तिरस्कृत्य परुषवचनैरुपाध्यायमुनामितया कन्धरया गगनाभिमुखेन वदनेन विततीकृतेन वक्षःस्थलेनाविकटपादपातेन गतिमार्गेण विलिप्य तेन स्तब्धचित्तेन शैलराजीयविलेपनेनात्महृदयं निर्गतोऽहमुपाघ्यायभवनात् / ततोऽभिहिता महामतिना राजदारकाः-अरे ! निर्गतस्तावदेष दुरात्मा रिपुदारणः, केवलं गरीयानरवाहननृपतेः पुत्रस्नेहः, स्नेहमूढाश्च प्राणिनो न पश्यन्ति वल्लभस्य दोषसमूह, समारोपयन्त्यसन्तमपि गुणसङ्घातं, रुष्यन्ति तद्विप्रियकारिणि जने, न विचारयन्ति विप्रियकरणकारणं, न लक्षयन्ति स्थानमानान्तरं, कुर्वन्ति स्वाभिमतविप्रियकर्तुमहापायम् / तदेवं व्यवस्थिते भवद्भिर्मोनमवलम्बनीयं / यदि रिपुदारणनिर्गमनव्यतिकरं प्रश्नयिष्यति देवो नरवाहनस्ततोऽहमेव तं प्रत्याययिष्यामि / राजदारकैरभिहितं--यदाज्ञापयत्युपाध्यायः। इतश्च ततो निर्गत्य गतोऽहं तातसमीपे / पृष्टस्तातेन-पुत्र ! किं वर्तते कलाग्रहणस्येति ? ततः शैलराजीयहृदयावलेपनवशेन मृषावादावष्टम्भेन च मयाऽभिहित–तात ! समाकर्णय पूर्वमेव ममाशेष, विज्ञानं हृदयस्थितम् / अयं तावकयत्नो मे, विशेषाधायकः परम् // 1 // ततश्च-लेख्ये चित्रे धनुर्वेदे, नरादीनां च लक्षणे / गान्धर्वे हस्तिशिक्षायां, पत्रच्छेद्ये सवैद्यके // 2 // शब्दे प्रमाणे गणिते, धातुवादे सकौतुके / निमित्ते याश्च लोकेऽत्र, कलाः काश्चित्सुनिर्मलाः // 3 // तासु सर्वासु मे तात !, प्रावीण्यं वर्तते परम् / आत्मतुल्यं न पश्यामि, त्रैलोक्येऽप्यपरं नरम् // 4 // सुतस्नेहेन तच्छ्रुत्वा, तातो हर्षमुपागतः / चुम्बित्वा मूर्धदेशे मामिदं वचनमब्रवीत् // 5 // जात ! चारु कृतं चारु, सुन्दरस्ते महोद्यमः / किं त्वेकं मे कुमारेण, वचनं श्रूयतामिति // 6 // मयाभिहितं-वदतु तात ! तातेनाभिहितंविद्यायां ध्यानयोगे च, स्वभ्यस्तेऽपि हितैषिणा / सन्तोषो नैव कर्तव्यः स्थैर्य हितकरं तयोः॥७॥ एवं च स्थिते-गृहीतानां स्थिरत्वेन, शेषाणां ग्रहणेन च / कलानां मे कुमारत्वे, त्वं पुषाण मनोरथान् // 8 // मयाऽभिहितं--एवं भवतु, ततो गाढतरं तुष्टस्तातः, दत्तो भाण्डागारिकस्यादेशः, अरे पूरय महामतिभवनं धनकनकनिचयेन, येन कुसारः सकलोपभोगसम्पत्त्या निर्व्यग्रस्तत्रैव कलाग्रहणं कुर्वनास्ते /