________________ गुरुपरि भव: ततश्च तद्वशेनाहमुपाध्यायं मदोद्धतः / जात्या श्रुतेन रूपेण, हीलयामि क्षणे क्षणे // 28 // ततश्च चिन्तितं महामतिना, अये!ग्रस्तस्य सन्निपातेन, क्षीरानमिव सुन्दरम् / अपथ्योऽस्य वराकस्य, कलाशास्त्रपरिश्रमः // 29 // गाढं कर्षितदेहस्य, यथाऽऽम्लं भूरि भोजनम् / तथाऽस्य मत्कृतो यत्नः, श्वयधुं वर्धयत्यलम् 30 // ततो यद्यपि राजेन्द्रः, पुत्रस्नेहपरायणः / उत्साहयति मां नित्यं, गुणाधानार्थमस्य वै // 31 // तथाप्यपात्रभूतोऽयं, य एवं रिपुदारणः / तस्य त्यागः परं न्याय्यो, ज्ञानदानं न युज्यते // 32 // यो हि दद्यादपात्राय, संज्ञानममृतोपमम् / स हास्यः स्यात्सतां मध्ये, भवेच्चानर्थभाजनम् // 33 // न चैष शक्यते कर्तु, नम्रो यत्नशतैरपि / को हि स्वेदशतेनापि, श्वपुच्छं नामयिष्यति ? 34 // ततश्चैवं स्वचेतस्यवधार्य तेन महामतिना कलाचार्येण शिथिलितो ममोपरि कलाशास्त्रग्राहणानुबन्धः परित्यक्तमुपचारसंभाषणं दृष्टोऽहं धूलिरूपतया, तथापि तातलज्जया नासौ बहिर्मुखविकारमात्रमपि दर्शयति न च मनागपि मां परुषमाभाषते / इतश्च तेऽपि राजदारकाः शैलराजमृषाबादनिरतं मामुपलभ्य विरक्ताश्चित्तेन, तथापि पुण्योदयेनाधिष्ठितं मां ते चिन्तयन्तोऽपि न कश्चिदभिभवितुं शक्नुवन्ति / इतश्च यथा यथा तौ शैलराजमृषावादौ वर्धते तथा तथाऽसौ मदीयवयस्यः पुण्योदयः क्षीयते, ततः कृशीभूते तस्मिन् पुण्योदये समुत्पन्ना मे गाढतरं गुरुपरिभवबुद्धिः / अन्यदा निर्गतो बहिः प्रयोजनेनोपाध्यायः, ततोऽधिष्ठितं मया तदीयं महाई वेत्रासन, दृष्टोऽहमुपविष्टस्तत्र राजदारकैः, ततो लज्जितास्ते मदीयकर्मणा, लघुध्वनिना चोक्तमेतैः-हा हा कुमार ! न सुन्दरमिदं विहितं भवता, वन्दनीयमिदं गुरोरासनं, न युक्तं भवादृशामस्याक्रमणं, यतोऽस्मिन्नुपविशतां संपद्यते कुलकलङ्कः, समुल्लसति भृशमयशःपटहः, प्रवर्धते पापं, संजायते चायुषः क्षरणमिति / मयाऽभिहितं--अरे ! बालिशा ! नाहं भवादृशां शिक्षणाईः, गच्छत यूयमात्मीयं सप्तकुलं शिक्षयत / तदाकर्ण्य स्थितास्ते तूष्णीभावेन, ततः स्थित्वा तत्र वेत्रासने बृहती वेलामुत्थितोऽहं यथेष्टचेष्टया, समागतः कलोपाध्यायः, कथितं तस्मै राजदारकैर्मदीयं विलसितं, क्रुद्धः स्वचेतसा, पृष्टोऽहमनेन / ततः सासूयं मयाऽभिहितं-- अहमेतत्करोमि ? अहो ते शास्त्रकौशलं, अहो ते पुरुषविशेषज्ञता, अहो ते विचारितभाषिता, अहो ते विमर्शपाटवं यस्त्वमेतेषां मत्सरिणामसत्यवादिनां वचनेन विप्रतारितो मामेवमाभाषसे / ततो विलक्षीभूतः कलोपाध्यायः / चिन्तितमनेन—न तावदेते राजदारका विपरीतं भाषन्ते, अयं तु स्वकर्मापराधमेवमपलपति तदेनं स्वयमुपलभ्य शिक्षयिष्यामि / अन्यदा प्रच्छनदेशस्थितेनावेक्षितोऽहं तेन महामतिना, दृष्टस्तत्र वेत्रासने सरभसमुपविष्टो ललमानः, ततः प्रकटीभूतोऽसौ, दृष्टो मया, मुक्तं प्रगिति वेत्रासनम् / महामतिनाऽभिहित-इदानीं तर्हि भवतः किमुत्तरं ? मयोक्तं-कीदृशे प्रश्ने ? महामतिराह-तत्रैव पूर्वके / मयोक्तं न जानाम्यहं कीदृशोऽसौ पूर्वकः प्रश्नः? महामतिराह-किमुपविष्टस्त्वमत्र वेत्रा. सने न वेति / ततो हा शान्तं पापमिति ब्रुवाणेन पिहितौ मया कौँ / पुनरभिहितं पश्यत भो मत्सरविलसितं यदेते स्वयमकार्य कृत्वा ममोपर्येवमारोपयन्ति / महामतिना चिन्तितं-अहो सेयं दृष्टेऽप्यनुपपन्नता नाम, अहो अस्य धृष्टत्वं, अवैधकः खल्वयं, इयत्ताऽतः परमसत्यवचनस्य, राजदारकैरभिहितमेकान्ते विधाय कलाचार्य, यदुत-अद्रष्टव्यः खल्वयं पापः तत्किमेनमस्माकं मध्ये धारयत यूयम् /