________________ विषाद, दापयिष्माम्यहं रिपुदारणकुमाराय नरसुन्दरीमिति / तातेनाभिहितं-महाप्रसादः / अत्रान्तरे प्रहतं प्राभातिकं तूर्य, ततो विबुद्धस्तातः / पठितं कालनिवेदकेन / हीनप्रतापो यः पूर्व, गतोऽस्तं जगतां पुरः। स एवोदयमासाद्य, रविराख्याति हे जनाः ! // 1 // यदा येनेह यल्लभ्यं, शुभं वा यदि वाऽशुभम् / तदाऽवामोति तत्सर्व, तत्र तोषेतरौ वृथा // 2 // परसुन्दरी . एतच्चाकर्ण्य चिन्तितं तातेन यदुत न कर्तव्यो मयाऽधुना विषादः, यतो लम्भयिष्यामि विवाहः कुमारं नरसुन्दरीमिति स्फुटमेव निवेदितं स्वप्ने मम देवेन, अनेन तु कालनिवेदकेन पाठव्याजेन दत्तो ममोपदेशो वेधसा यदुत यः पुरुषो यावतः सुन्दरस्यासुन्दरस्य वा वस्तुनो यदा भाजनं तस्य तावत्तदतर्कितमेव तदा मद्वशेन संपद्यत इति न कर्तव्यौ तत्र विदुषा हर्षविषादौ, ततोऽनया भावनया स्वस्थीभूतस्तातः। इतश्चाचिन्त्यप्रभावतया पुण्योदयस्य संपादिता तेन नरकेसरिणो बुद्धिः यदुत महानुभावोऽयं नरवाहनराजः, विज्ञातं च राज्यान्तरेष्वपि मम यदिहागमनप्रयोजनं ततो लज्जाकर पक्षद्वयस्यापि नरसुन्दरीमदत्त्वा मम स्वस्थाने गमनं, अतः संभाल्य कथञ्चिदेनां प्रयच्छामि रिपुदारणकुमारायेति / ततो निवेदितो नरकेसरिणा वसुंधरासमक्षं नरसुन्दर्यै स्वाभिप्रायः / ततो नरसुन्दर्या अपि पुण्योदयप्रभावादेव वलितं मां प्रति मानसं, चिन्तितमनया-युक्तियुक्तमेव तातेन मन्त्रितं, ततोऽभिहितमनया यदाज्ञापयति तातः तदाकर्ण्य हृष्टो नरकेसरी, आगत्याभिहितोऽनेन नरवाहनः, महाराज ! किमत्र बहुना जल्पितेन ? आगतैवेयं वत्सा नरसुन्दरी कुमारस्य स्वयंवरा, तदत्र किं बहुना विकत्थनेन ?, केवलं दुर्जनवचनावकाशो भवति, अतो निर्विचारं ग्राह्यतां कुमारेण स्वपाणिना पाणिरस्याः / तातेनाभिहितं--एवं क्रियते, गणितं प्रशस्तदिनं, परिणीता मया महता विमन नरसुन्दरी, तां विमुच्य गतः स्वस्थाने नरकेसरी / दत्तो मह्यं तातेन निर्व्यग्रभोगार्थ महाप्रासादः, गतानि नरसुन्दर्या सह ललमानस्य मे कतिचिदिनानि, घटितं च पुण्योदयेन निरन्तरमावयोः प्रेम, समुत्पादितश्चित्तविश्रम्भः, लगिता मैत्री जनितो मनोरतिप्रबन्धः, प्ररोहितः प्रणयः, वर्धितश्चित्तमीलकाहादप्रणयसागरः सर्वथा / स्वप्रभामिव तीक्ष्णांशुश्चन्द्रिकामिव चन्द्रमाः / क्षणमेकं न मुञ्चामि, तामुमामिव शङ्करः // 1 // साऽपि मामकवक्त्राब्जरसास्वादनतत्परा / भ्रमरीव गतं कालं, न जानाति तपस्विनी // 2 // ततस्तं तादृशं वीक्ष्य, देवानामपि दुर्लभम् / सार्ध मे नरसुन्दर्या, प्रेमाबन्धं मनोहरम् // 3 // मदीयौ सुहृदाभासौ, परमार्थेन वैरिको / तौ मृषावादशैलेशौ, चित्तमध्ये रुषं गतौ // 4 // युग्मम् / चिन्तितं च ततस्ताभ्यां, कथमेष वियोक्ष्यते / एतया नरसुन्दर्या, पापात्मा रिपुदारणः ? / / 5 / / शैलराजो मृषावादं, ततश्चेत्थमभाषत / त्वं तावन्नरसुन्दर्याः कुरु चित्तविरञ्जनम् // 6 // स्वयमेवाहमत्रार्थे, भलिष्यामि ततः परम् / मादृशा च कृते यत्ने, कीदृशं प्रेमबन्धनम् // 7 // मषावादस्ततःप्राह. नोत्साह्योऽहं भवाशा। कतमेव मया पश्य, एतस्याश्चित्तभेदनम // 8 // तदेवं मद्वियोगार्थ, ततस्तौ कृतनिश्चयौ / शैलराजमृषावादी, पर्यालोच्य व्यवस्थितौ // 9 // अहं तु तां समासाद्य, सद्भार्या नरसुन्दरीम् / चिन्तयामि त्रिलोकेऽपि, प्राप्तं यत्सुन्दरं मया // 10 // ततश्चोन्नामितैकभूर्मन्थरीकृतलोचनः / दत्त्वा तच्छैलराजीयं हृदये स्वेऽवलेपनम् // 11 // चिन्तयामि न लोकेऽत्र, पुरुषोऽन्योऽस्ति मादृशः। यतो ममेदृशी भार्या, ततो गाढतरं पुनः // 12 // न पश्यामि गुरुं नैव, देवानो बन्धुसन्ततिम् / न भृत्यवर्ग नो लोकं, न जगत् सचराचरम् // 13 // त्रिभिर्विशेषकम् / परस्परंप्रेम