________________ कुमारशै 178 ततः संतुष्टचित्तेन, शैलराजो मयाऽन्यदा / प्रोक्तो विश्रम्भजल्पेन, स्नेहनिर्भरचेतसा // 58 // लराजयो- वयस्य ! योऽयं संपन्नो, लोकमध्येऽतिसुन्दरः। मम ख्यातिविशेषोऽयं, प्रतापो हन्त तावकः // 59 // रालाप: ततश्च-मदीयवचसा तुष्टः, शैलराजः स्वमानसे / वष्टतामुररीकुर्वन्निदं वचनमब्रवीत् // 60 // कुमार ! परमार्थोऽयं, कथ्यते तव साम्प्रतम् / यदेवंविधजल्पस्य, कुमारस्येह कारणम् // 61 // ये दुर्जना भवन्त्यत्र, गुणपूर्ण परं जनम् / स्वाभिप्रायानुमानेन, मन्यन्ते दोषपुञ्जकम् // 62 // ये सजना पुनर्धन्यास्ते लोकं दोषपूरितम् / स्वाभिसन्धिविशुद्धयैव, लक्षयन्ति गुणालयम् // 63 // एवं च स्थिते—यद्भासते गुणित्वेन, गुणहीनोऽप्ययं जनः। कुमार ! तावके चित्ते सौजन्य तत्र कारणम् // 64 // - प्रतापस्तावकीनोऽय, समस्तोऽपि सुनिश्चितम् / भावत्कवीर्यविख्याताः, के वयं परमार्थतः 1 // 65 // तदिदं शैलराजीयं, वचनं सुमनोहरम् / आकाहं तदा भद्रे ! परं स्नेहरसं गतः // 66 // चिन्तितं च मया-अहो मय्यनुरागोऽस्य, अहो गम्भीरचित्तता / अहो वचनविन्यासस्तथाऽहो भावसारता // 67 // ततो मयाऽभिहितं-वयस्य ! नेदृशं वाच्यमुपचारपरं वचः / ममाग्रतो यतो ज्ञातं, माहात्म्य तावकं मया // 6 // ततो हर्षवशात्तेन, शैलराजेन जल्पितम् / प्रसादपरमे नाथे, भृत्यानां किं न सुन्दरम् ? // 69 // अन्यच्च--यदि सम्भावना जाता, भवतां मादृशे जने / ततो मे परमं गुह्यं, भवद्भिरनुमन्यताम् // 70 // विद्यते मम सवीर्य, हृदयस्यावलेपनम् / तन्निजे हृदये देयं, कुमारेण प्रतिक्षणम् // 71 // मयाऽभिहितं, कुतस्तदवाप्तं भवता ? किनामकं ? को वा तस्य हृदयावलेपनस्य प्रभाव इति श्रोतुमिच्छामि / स्तब्धचि. शैलराजेनाभिहितं--कुमार ! न कुतश्चिदपि तदवाप्तं मया, किं तर्हि ? स्वकीयेनैव वीर्येण ताख्यम- .. जनितं, नामतः पुनः स्तब्धचित्तं तदभिधीयते, प्रभावं तस्यानुभवद्वारेणैव विज्ञास्यति कुमारः, किं वलेपन तेनावेदितेन ? मयाऽभिहित-यद्वयस्यो जानीते। ततः समर्पितं ममान्यदा शैलराजेन तदात्मीय हृदयावलेपनं, विलिप्तं मया हृदयं, जातोऽहं गाढतरमुल्लम्बितशूनतस्कराकारधारितया नमनरहितः, ततस्तथाभूतं मामवलोक्य सुतरां प्रणतिप्रवणाः संपन्नाः सामन्तमहत्तमादयः, तातोऽपि सप्रणाम मामालापयति स्म, तथाऽम्बाऽपि स्वामिनमिव मां विज्ञपयति स्म / ततः संजातो मे हृदयावलेपनप्रभावे सम्प्रत्ययः, संपन्ना स्थिरतरा शैलराजे परमबन्धुबुद्धिरिति // .. इतश्चान्यदा गतोऽहमन्तरङ्गे क्लिष्टमानसाभिधाने नगरे तच्च कीदृशम् ? मृषावादस्तत्कुटु आवासः सर्वदुःखानां, नष्टधर्मेनिषेवितम् / कारणं सर्वपापानां, दुर्गतिद्वारमञ्जसा // 1 // तत्र च नगरे दुष्टाशयो नाम राजा / स च कीदृशः? उत्पत्तिभूमिर्दोषाणामाकरः क्लिष्टकर्मणाम् / सद्विवेकनरेन्द्रस्य, महारिः स नराधिपः // 2 // तस्य च राज्ञो जघन्यता नाम देवी, सा च कीदृशी ? / नराधमानां साऽभीष्टा, विद्वद्भिः परिनिन्दिता। प्रवतिका च सा देवी, सर्वेषां निन्द्यकर्मणाम् // 3 // तयोश्च जघन्यतादुष्टाशययोर्दैवीनृपयोरत्यन्तमभीष्टोऽस्ति मृषावादो नाम तनयः। स च. कीदृशः ? समस्तभूतसङ्घस्य, विश्वासच्छेदकारकः। निःशेषदोषपुञ्जत्वाद्गर्हितश्च विचक्षणः // 4 // शाठयपैशुन्यदौर्जन्यपरद्रोहादितस्कराः / तं राजपुत्र सेवन्ते, सदनुग्रहकाम्यया // 5 // स्नेहो मैत्री प्रतिज्ञा च, तथा सम्प्रत्ययश्च यः। एतेषां शिष्टलोकानां, राजसू नुरसौ रिपुः // 6 // पिताऽसौ व्रतलोपस्य, मर्यादाया महारिपुः। अयशोवादतूर्यस्य, सदास्फालनतत्परः // 7 //