________________ संसारिजीवः प्राह-ततः पुनरन्यदाऽहमगृहीतसङ्केते ? नीतः श्वेतपुरे भवितव्यतया विहितः थाभीररूपः, तद्रूपतया वर्तमानस्य मे तिरोभूतोऽसौ वैश्वानरः, जातो मनागहं शान्तरूपः, प्रवृत्ता मे यदृच्छया दानबुद्धिः, न चाभ्यस्तं किञ्चिद्विशिष्टं शीलं, न चानुष्ठितः कश्चित्संयमविशेषः, केवलं कथञ्चिद्घर्षणघूर्णनन्यायेन संपन्नोऽहं तदा मध्यमगुणः / ततस्तथाभूतं मामुपलभ्य जाता मयि प्रसन्नहृदया भवितव्यता, ततश्चाविर्भावितोऽनया पुनरपि सहचरो मे पुण्योदयः। ततोऽभिहितमनयाआर्यपुत्र ? गन्तव्यं भवता सिद्धार्थपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति / मयाऽभिहितं--यदाज्ञापयति देवी ! ततो जीर्णायां प्राचीनगुटिकायां दत्ता पुनरेकभववेद्या सा ममापरा गुटिका भवितव्यतयेति / / भो भव्याः प्रविहाय मोहललितं युष्माभिराकर्ण्यताम् / एकान्तेन हितं मदीयवचनं कृत्वा विशुद्धं मनः / राधावेधसमं कथश्चिदतुलं लब्ध्वाऽपि मानुष्यकम् / हिंसाक्रोधवशानुगैरिदमहो जीवैः पुरा हारितम् // 1 // अनादिसंसारमहाप्रपञ्चे, कचित्पुनः स्पर्शवशेन मूढैः / अनन्तवारान् परमार्थशून्यविनाशितं मानुषजन्म जीवैः // 2 // . . एतनिवेदितमिह प्रकटं ततो भोः ! तां स्पर्शकोपपरताऽपमतिं विहाय / शान्ताः कुरुध्वमधुना कुशलानुबन्धमहाय लङ्घयथ येन भवप्रपञ्चम् // 3 // इत्युपमितभवप्रपञ्चायां कथायां __ क्रोधहिंसास्पर्शनेन्द्रियविपाकवर्णनस्तृतीयः प्रस्तावः॥