________________ ततः पर्याकुलतया चित्तस्य न श्रुतं तेन मद्वचनम् / मया चिन्तित-परिभवबुद्धया मामेष न गणयति, ततः समुल्लसितौ मे हिंसावैश्वानरौ, गृहीता तत्कटीतटादसिपुत्रिका, ततस्तेनापि विस्फुरितहिंसावैश्वानरेणैव समाकृष्टं मण्डलाग्रं, दत्तौ समकमेव द्वाभ्यामपि प्रहारौ, दारिते शरीरे / अत्रान्तरे मम तस्य च जीर्णा सा एकभववेद्या गुटिका, ततो वितीर्णे अपरे गुटिके द्वयोरपि भवितव्यतया / इतश्चास्ति पापिष्ठनिवासा नाम नगरी / तस्यामुपर्युपरि सप्त पाटका भवन्ति / तेषु च पापिष्ठाभिधाना एव कुलपुत्रका वसन्ति / ततः षष्ठे तमःप्रभाभिधाने पाटके नीतौ द्वावपि गुटिकाप्रभावेण भवितव्यतया, स्थापितौ तादृशकुलपुत्रकरूपतया, प्रवृद्धः सोऽधिकतरमावोवैरानुबन्धः, स्थितौ परस्परघातमनेकयातनाभिर्विदधानौ द्वाविंशति सागरोपमाणि, अवगाहितोऽनन्तमहादुःखसागरः / ततस्तस्याः पर्यन्ते गुटिकादानद्वारेणैवानीतौ पश्राक्षनिवासनगरे द्वावपि भवितव्यतया, विहितौ गर्भजसर्परूपौ, प्रादुर्भूतः पूर्वावेधेन परस्परं पुनः क्रोधाबन्धः, युध्यमानयोः संपन्नं गुटिकाजरणं, पुनः प्रापितो तेनैव प्रयोगेण तस्यामेव पापिष्ठनिवासायां नगर्या धूमप्रभाभिधाने पञ्चमे पाटके भवितव्यतया / तत्रापि परस्परं निर्दलयतोर्गतानि सप्तदश सागरोपमाणि, अनुभूतान्यतितीव्रदुःखानि / ततः पुनरानीय पञ्चाक्षनिवासनगरे विहितौ द्वावपि सिंहरूपो, तत्रापि तदवस्थितो वैराबन्धः / ततश्चान्योऽन्यं प्रहरतोरपनीय तद्रूपं विहितं तस्यामेव पुर्यां पङ्कप्रभाख्ये चतुर्थपाटके पापिष्ठरूपं भवितव्यतया, तद्गतयोः पुनरप्यावयोरनुवर्तते स्मासौ रोषोत्कर्षः, लजितानि तत्रापीतरेतरं निघ्नतोर्दश सागरोपमाणि, सोढानि वाग्गोचरातीतानि दुःखानि / ततः पुनरानीय जनितौ द्वावपि श्येनरूपौ, संलग्नमुल्लसितवैश्वानरयोरायोधनं ततश्चयावयित्वा तद्रूपं पुनर्नीतौ तस्यामेव पुरि वालुकाप्रभानाम्नि तृतीयपाटके गुटिकाप्रयुक्तिवशेनैव भवितव्यतया, तत्रापि परस्परं शरीरचूर्णनं कुर्वतोः क्षेत्रानुभावजनितानि परमाधार्मिकासुरोदीरितानि चानन्तदुःखानि सततमनुभवतोरतिक्रान्तानि सप्त सागरोपमाणि, तदन्ते पुनरानीतौ पश्चाक्षनिवासनगरे दशितौ च नकुलरूपौ भवितव्यतया, न त्रुटितस्तत्रापि परस्परं मत्सरप्रकर्षः, प्रहरतोश्चान्योऽन्य विदीर्णे द्वयोरपि शरीरे, जीर्णे प्राचीनगुटिके, वितीर्णे पुनरपरे, नीतौ पुनस्तस्यामेव नगर्यां शर्कराप्रभाभिधाने द्वितीयपाटके / ततो विहितबीभत्सरूपयोरन्योन्यं पिषतोः परमाधार्मिककदर्थनां क्षेत्रजनितसन्तापं च वेदयतोरतीतानि तत्रापि त्रीणि सागरोपमाणि, एवं पापिष्ठनिवासनगर्याः पश्चाक्षनिवासनगरे, ततोऽपि पुनस्तस्यां गत्यागमनं कुर्वता तेन च धराधरेण साधं वैरं खेटयता भद्रे ! अगृहीतसङ्गेते ! विडम्बितानि मया भवितव्यताप्रेरितेन भूयांसि रूपाणि / ततः पुनः कुतूहलवशेनैव तया निजभार्यया जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुटिकायां भूयोभूयः परापरां गुटिकां योजयन्त्या तदसंव्यवहारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु तिलपीडकन्यायेन भ्रमितोऽहमनन्तकालमिति / एवं वदति संसारिजीवे प्रज्ञाविशालया चिन्तिर:-अहो रौद्ररूपोऽसौ क्रोधः, दारुणतरा हिंसा, तथाहि-तद्वशवर्तिनाऽनेन संसारिजीवेन घोरं संसारसागरं कथश्चिदतिलञ्जय प्राप्तेऽपि मनुष्यभवे विहितं तत्तादृशमतिरौद्रं कर्म, न प्रतिपन्नं भागवतं वचनं, हारिता मनुष्यरूपता, निर्वर्तिता वरपरम्परा, उपार्जिता संसारसागरेऽनन्तरूपा विडम्बना, स्वीकृतो महादुःखसन्तानः / तदिदमनुभवागमसिद्धमनुभवन्तोऽप्येते मनुष्यभावापन्नाः प्राणिनो न लक्षयन्तीवानयोः स्वरूपं, आत्मवैरिण इव समाचरन्ति तमेव क्रोधं, तामेव हिंसां सततमनुवर्तन्ते, तदेतेऽपि वराका लप्स्यन्ते नूनमेवंविधामनर्थपरम्परामित्येषा चिन्ता ममान्तःकरणमाकुलयति /