________________ राज्ञा चिन्तितम्-अये ! विज्ञाततत्त्वोऽहं, श्रद्धाक्षालितमानसः। ततोऽस्ति मेऽधिकारोऽत्र, गुरूके कर्मणि ध्रुवम् ततो राजा समुदभूतवीर्योल्लासो यतीश्वरम् / प्रणम्य पादयोरेवं, स प्राह विहिताञ्जलिः // 46 // यदादिष्ट भदन्तेन, किल कर्मातिनिघृणम् / तदहं कर्तुमिच्छामि, नाथ ! युष्मदनुज्ञया // 47 // सरिणोक्तं-महावीर्य ! युक्तमेतद्भवादृशाम् / अनुज्ञातं मयाऽपीदं, ज्ञातं तत्त्वं त्वयाऽधुना // 48 // - ततः सरभसेन नरपतिना विलोकित पाश्चवर्तिनो विमलमतेर्मन्त्रिणो वदनं, आदिशतु देव इति ब्रुवाणोऽसौ स्थितः प्रहतया / नृपतिनाऽभिहितं-आर्य ! त्यजनीयो मया राज्यस्वजनदेहादिसङ्गः निहन्तव्या भगवदादेशेन रागादयः पोषणीयान्यहनिशं ज्ञानादीनि गृहीतव्या भागवती दीक्षा ततो यदस्य कालोचितं तत्तूर्ण कुरुष्वेति / विमलमतिराह-यदाज्ञापयति देवः, कितु न मयैव केवलेनास्य कालोचिंतं विधेयं, कि तर्हि ?, यान्येतान्यन्तःपुराणि ये चैते सामन्ता यश्चान्योऽपि राजलोको या चेयं समस्तापि परिषत् तैः सर्वैरेवास्य कालस्योचितं कर्तव्यम् / राज्ञा चिन्तितं-अये ! मयाऽयमादिष्टः किल मम दीक्षाग्रहणकाले यदुचितं जिनस्नपनपूजादानमहोत्सवादिकं तत् कुरुष्वेति तदयं किमेवमुल्लपति ? अहो गम्भीरः कश्चिदभिप्रायः / ततोऽभिहितमनेन–आर्य ! त्वमेवात्र सर्वाधिकारी, क्षमः सर्वेषामुचितकर्तव्यानां, तत्किमेतैरपरमुचितं कर्तव्यं ? विमलमतिराह--देव ! यद्देवपादैः कर्तुमारब्धं तदस्माकमेतेषां च सर्वेषामस्य कालस्योचितं कर्तव्यं, नापरं, यतः समान एवायं न्यायः सर्वेषां वर्तते, निवेदितान्येव हि भगवता सर्वेषामेव जीवानामेकैकस्य त्रीणी त्रीणि कुटुम्बकानि, तस्मादेषामप्यस्य कालस्येदमेवोचितं यदुत प्रथमकुटुम्बकं पोष्यते, द्वितीयं हन्यते, ततीयं परित्यज्यत इति / नृपतिनाऽभिहितं-आर्यातिसन्दरमिदं यद्यतेऽपि प्रतिपद्यन्ते / विमलमतिराह--देव ! पथ्यमिदमत्यन्तमेतेषां, किमत्र प्रतिपत्तव्यं ? ततस्तदाकर्ण्य तत्र परिषदि जीवा बलादेषोऽस्मान् प्रवाजयतीतिभावनया भयोत्कर्षेण कम्पिताः कातराः, प्रद्विष्टा गुरुकर्मकाः, प्रपलायिता नीचा, विहलीभूता विषयगृनवः, प्रस्विन्नाः कुटुम्बादिप्रतिबद्धबुद्धयः, प्रहादिता लघुकर्मका, अभ्युपगतवन्तस्तद्वचनं धीरचित्ता इति / ततस्तैलधुकर्मधोरचित्रभिहितं यदाज्ञापयति देवस्तदेव क्रियते, कः सकर्णकः सत्यां समग्रसामग्यामेवंविधसार्थाद्भश्यतीति ? तदाकर्ण्य हृष्टो राजा, गताः सर्वेऽपि अभ्यर्णवर्तिनि प्रमोदवर्धने चैत्यभवने, स्नापितानि भुवननाथस्य भगवतो बिम्बानि विरचिता मनोहारिणी पूजा प्रवर्तितानि महादानानि कारितं बन्धनमोचनादिकं समस्तमुचितकरणीयं समाहूतः श्रीधराभिधानो नगराग्निजतनयः, दत्तं तस्मै राज्यं नरपतिना, प्रवाजिताः प्रवचनोक्तेन विधिना सर्वेऽप्युपस्थितलोका भगवता, विहिता भवप्रपञ्चनिर्वेदजननी परमपदाभिलाषातिरेकसंवर्धनी धर्मदेशना, गता यथास्थानं देवादयः / मम पुनरगृहीतसङ्केते ! तदमृतकल्पमपि न परिणतं तदा भागवतं वचनं, निकटीभूतौ हिंसावैश्वानरौ, कृतः पुनस्ताभ्यां मम शरीरेऽनुप्रवेशः, मोचितश्चाहं बन्धनात् सर्वजन्तूनां बन्धनमोचनार्थनियुक्तै राजपुरुषैः / चिन्तितं च मया-विगोपितोऽहमनेन लोकमध्ये श्रमणेन, ततो धमधमायमानश्चेतसा किमत्र स्थितेनेति मन्यमानः प्रवृत्तो विजयपुराभिमुखो गन्तुं, लङ्क्तिः कियानपि मार्गः / इतश्च तत एव विजयपुराच्छिखरिनृपतेः सूनुमत्कल्प एव हिंसावैश्वानरदोषेण निर्वासितः स्वविषयाज्जनकेन दृष्टो मयाऽरण्ये प्रातिपथिको धराधरो नाम तरुणः, पृष्टो मया विजयपुरमार्ग,