________________ दर्शनं, ततो न लक्षयन्त्येते वराका जीवास्तत्सम्बन्धिनं गुणकलापं, तेन न तस्योपरि गाढमादरं विद्यमानमपि तदविद्यमानं मन्यन्ते, तस्य गुणानपि वर्णयन्तमस्मदादिकं न गणयन्ति, एतत्पुनर्द्वितीयं कुटुम्बकमनादौ संसारे शत्रूभूतस्याऽऽद्यकुटुम्बकस्य निराकरणादवाप्तजयपताकं लब्धप्रसरतया वल्गमानं प्रायेण सकलकालमाविर्भूतमेवास्ते, ततः संपद्यते तेन सहामीषां जीवानामहर्निशं दर्शनं ततो वर्धते प्रेमाबन्धः समुत्पद्यते चित्तरतिः संजायते विश्रम्भः प्रादुर्भवत्यनेन सह प्रणयः / ततोऽस्य द्वितीयकुटुम्बकस्य सततमनुरक्तमानसाः खल्वेते जीवा न पश्यन्ति दोषसंघातं समारोपयन्त्यस्यासन्तमपि गुणसन्दोहं, तेनेदं गाढतरमेते पोषयन्ति / इदमेवैकं परमबन्धुभूतमस्माकमिति मन्यन्ते, अस्य च दोपप्रकाशकमस्मदादिकं शत्रुबुद्धया गृह्णन्ति / नृपतिराह-भदन्त ! सुन्दरं भवति यद्येते तपस्विनी जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुः / भगवानाह-किमतःपरं सुन्दरतरं ? एतावन्मात्रमेव हि निःशेषकल्याणानि वाग्छता परमार्थतः पुरुषेण कर्तव्यं यदुत अनयोः प्रथमद्वितीययोः कुटुम्बकयोगुणदोषविशेषपरिज्ञानमिति / तथाऽस्माभिरपि जीवानां धर्मकथाभिरेतावन्मात्रमेव संपादनीयं, केवलमेते जीवाः स्वयोग्यतामन्तरेण नानयोविशेष कथञ्चिदपि ज्ञापयितुं शक्यन्ते, तेनायोग्येषु वयमपि गनिमीलिकां कुर्मः / यदि पुनः सर्वेऽपि जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुस्तदाऽऽदित एव संसारोच्छेदः स्यात् , ततो निराकृत्येदं द्वितीयं कुटुम्बकं सर्वेऽपि जीवा मोक्षं गच्छेयुरिति / नृपतिराह-यद्येवमशक्यानुष्ठानं सर्वेषां जीवानामनयोर्गुणदोषविशेषज्ञापनं तत्किमनया चिन्तया ? अस्माभिर्विज्ञातस्तावद्भगवत्पादप्रसादेनानयोः कुटुम्बकयोर्गुणदोषविशेषः,ततः सिद्धं नःसमीहितम् यतः-परोपकारः कर्तव्यः, सत्यां शक्तौ मनीषिणा / परोपकारासामर्थ्य, कुर्यात्स्वार्थे महादरम् // 1 // भगवानाह-न परिज्ञानमात्रं त्राणम् / नृपतिराह-यदन्यदपि विधेयं तदादिशन्तु भगवन्तः। भगवतोक्तंअन्यदत्र विधेयं-श्रद्धानमनुष्ठानं च, तच्चास्त्येव भवतः श्रद्धानं अनुष्ठानं च पुनर्यदि शक्नोषिततः सिध्यत्येव समीहितं, नात्र सन्देहः, केवलं तत्रातिनिघृणं कर्म समाचरणीयम् / नृपतिराह-भदन्त ! कीदृशं तत्कर्म ? भगवानाह-यदेते साधवः सततमनुशीलयन्ति / नृपतिराह-यदनुशीलयन्त्येते तच्छ्रोतुमिच्छामि / भगवतोक्तं-आकर्णय अनादिस्नेहसंबद्धं, द्वितीयं यत्कुटुम्बकम् / योधयन्ति घोरचित्तातदायेन, दिवानिशम् // 1 // तथाहि—निघृणा यत एवेदमाविर्भूतं कुटुम्बकम् / तं घातयन्ति ज्ञानेन, महामोहपितामहम् // 2 // यस्तन्त्रकः समस्तस्य, कुटुम्बस्य महाबलः / रागं वैराग्ययन्त्रेण, तमेते चूर्णयन्त्यलम् // 3 // अन्यच्च निरनुक्रोशा, रागस्यैव सहोदरम् / द्वेषं मैत्रीशरेणोच्चैरेते निन्नन्ति साधवः // 4 // क्षमाक्रकचपाटेन, पाटयन्ति सुदारुणाः। एते भोः ! साधवः क्रोधं, रटन्तं स्निग्धवान्धवम् // 5 // क्रोधस्य भ्रातरं मानं, तथैते द्वेषनन्दनम् / हत्वा मार्दवखङ्गेन, क्षालयन्त्यपि नो करौ // 6 // मायामार्जवदण्डेन, दलयन्ति तपस्विनीम् / लोभं मुक्तिकुठारेण, रौद्राश्छिन्दन्ति खण्डशः // 7 // तथैते मुनयो भूप!, स्नेहाबन्धपरायणम् / कामं निष्पीडय हस्तेन, मर्दयन्तीव मत्कुणम् // 8 // दहन्ति शोकसम्बन्धं, तीवेण ध्यानवनिना / भयं भिन्दन्ति निर्भीका, धैर्यबाणेन वत्सलम् // 9 // हास्यं रतिर्जुगुप्सा च, तथाऽरतिः पितृष्वसा। विवेकशक्या राजेन्द्र ! साधुभिर्दारिता पुरा // 10 // अन्यच्च भ्रातृभाण्डानि, पञ्चाक्षाणि सुनिघणाः / सन्तोषमुद्गरेणोच्चैदलयन्ति सुसाधवः // 11 // एवं ये ये भवन्त्यत्र, कुटुम्बे स्निग्धवान्धवाः / तांस्तान्निपातयन्त्येते, जाताजातान् सुनिर्दयाः॥१२॥