________________ 170 नन्दिवर्धनस्य बो धाभावः कुटुम्बत्रय यतः--हिंसाक्रोधादिपापेषु, जन्तोरासक्तचेतसः / सद्धर्मोऽयं जिनेन्द्रोक्तो, दुरादूरेण गच्छति // 15 // सद्धर्मरहितश्चासौ, पापपूरितमानसः / न मोक्षमार्गलेशेन, कथश्चिदपि युज्यते // 16 // ततो जाननपि बलात्पुनीमे भवोदधौ / निर्वालं याति मोहान्धो, यथाऽयं नन्दिवर्धनः // 17 // / __ नृपतिनाऽभिहितं-भगवंस्तस्य नन्दिवर्धनस्य किमियताऽपि प्रपञ्वेन कथ्यमाने स्वसंवेदनसंसिद्धेऽपि निजचरिते संजातः प्रबोध ? भगवताऽभिहितं-महाराज ! न केवलमस्य प्रतिबोधाभावः, किं तर्हि ? मयि कथयति प्रत्युतास्य महानुद्वेगो वर्तते / नृपतिराह-किमभव्योऽयं ? भगवतोक्तंनाभव्यः, किं तर्हि ? भव्य एव, केवलमधमस्यैव वैश्वानरस्य दोषो यन्मदीयवचनं न प्रतिपद्यते, यतोऽयमनन्तोऽनुबन्धोऽस्येतिकृत्वा अनन्तानुबन्धीतितृतीयनाम्ना मुनिभिर्गीयते, ततोऽत्र विद्यमाने न सुखायते मदीयवचनं, उत्पादयत्यरति, जनयति कलमलकं, ततः कुतोऽस्य तपस्विनः प्रबोधः ? पर्यटितव्यमद्याप्यनेन नन्दिवर्धनेनास्य वैश्वानरस्य प्रसादादपरापरस्थानेषु दुःखमनुभवताऽनन्तं कालं, प्राप्तव्या च वैरपरम्परा / नृपतिराह-भदन्त ! महारिपुरेषोऽस्य वैश्वानरः। भगवतोक्तं-पर्याप्तमियत्या महारिपुतया / नृपतिराह-किमस्यैवायं वयस्यः ? किं वाऽन्येषामपि जन्तूनां ? भगवानाह-यदि महाराज ! स्फुटं प्रश्नयसि ततस्तथा ते कथयामि यथा पुनः प्रष्टव्यमिदं न भवति / नृपतिराह-अनुग्रहो मे / भगवताऽभिहित--इह सर्वेषां जीवानां प्रत्येकं त्रीणि त्रीणि कुटुम्बकानि, . तद्यथा--क्षान्तिमार्दवार्जवमुक्तिज्ञानदर्शनवीर्यसुखसत्यशौचतपःसन्तोषादीनि यत्र गृहमानुपाणि तदिदमेकं कुटुम्बकम् / तथा क्रोधमानमायालोभरागद्वेषमोहाज्ञानशोकभयाविरतिप्रभृतयो यत्र बान्धवाः तदिदं द्वितीयं कुटुम्बकम् / तथा शरीरं तदुत्पादकौ स्त्रीपुरुषावन्ये च तथाविधा लोका यंत्र सम्बन्धिनः तदिदं तृतीयं कुटुम्बकम् / कुटुम्बत्रितयद्वारेण चासंख्याताः स्वजनवर्गा भवन्ति, तत्र यदिदमाधे कुटुम्बकमेतज्जीवानां स्वाभाविकमनाद्यपर्यवसितं हितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते मोक्षप्रापकं च, यतः प्रकृत्यैवेदं जीवमुपरिष्टानयति / यत्पुनरिदं द्वितीय कुटुम्बकमेतज्जीवानामस्वाभाविकं, तथाऽप्यविज्ञातपरमार्जन्तुभिगृहीतं तद्गाढतरं स्वाभाविकमिति / तदनाद्यपर्यवसितमभव्यानां अनादि सपर्यवसितं केषाश्चिद्भव्यानां, एकान्तेनाहितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते संसारकारणं च, यतः प्रकृत्यैवेदं जीवमधस्तात्पातयति / यत्पुनरिदं तृतीयं कुटुम्बकमेतज्जीवानामस्वाभाविकमेव, तथा सादि सपर्यवसितमनियतसद्भावं च, यथाभव्यतया हिताहितकरणशीलमुत्पत्तिविनाशधर्मकं बहिरङ्गं च वर्तते, तथाभव्यतया संसारकारणं मोक्षकारणं वा भवति, यतो बाहुल्येन द्वितीयकुटुम्बकस्यावष्टम्भकारकमिदं अतः संसारकारणं, यदि पुनः कथञ्चिदाद्यं कुटुम्बकमनुवर्तते ततो जीवस्येदमप्याद्यकुटुम्बकपोषणे सहायं स्यात्, ततश्च मोक्षकारणतां प्रतिपद्यते / तदेवं स्थिते महाराज ! यदिदं द्वितीयं कुटुम्बकमस्य मध्ये सर्वेषां संसारिजीवानामेप वैश्वानरो वयस्यस्तथेयमपि हिंसा भार्या विद्यत एव, नात्र सन्देहो विधेयः / नृपतिराह-भदन्त ! यदीदमाद्यं कुटुम्बकं स्वाभाविकं हितकरणशीलं मोक्षकारणं च तत्किमितीमे जीवा गाढं नेदमाद्रियन्ते ? यदि चेदं द्वितीयकुटुम्बकमस्वाभाविकमेकान्तेनाहितकरणशीलं संसारकारणं च तत्किमितीमे जीवा गाढतरमिदं पोषयन्ति ? भगवानाह-महाराजाकर्णयात्र कारण-एतदाद्यं कुटुम्बकमनेन द्वितीयकुटुम्बकेनानादौ संसारे सकलकालमभिभूतमास्ते, ततो भपात्तिरोभावं गतस्य तस्य न संपन्नं कदाचिदभिव्यक्तं