________________ त्रीन्द्रि भूयांसं कालमेकेन्द्रियेषु, विनाटिता विकलेन्द्रियेषु, विगोपिताः पञ्चेन्द्रियतिर्यग्योनिजेषु, कदर्थिता नानाविधानन्तदुःखैः, कारिता बहुविधरूपाणि सततमपरापरभवप्रायोग्यकर्मजालविपाकोदयद्वारेण भवितव्यतया, भ्रमिताश्चारघट्टघटीयन्त्रन्यायेन सूक्ष्मवादरपर्याप्तकप्रथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रि चतुरिन्द्रियसंज्यसंज्ञिपञ्चेन्द्रियतिर्यग्योनिजखचरजलचरस्थलचरादिभेदविवर्तेन सर्वस्थानेषु प्रत्येकमनन्तवाराः। ततः कैश्चि जीवैः कथश्चिन्महासागरपतितैरिवरत्नद्वीपं महारोगभराक्रान्तैरिव महाभेषजं विषमूछितैरिव महामन्त्री दारिद्याभिभूतैरिव चिन्तामणिः प्राप्यतेऽतिदुर्लभोऽयं मनुष्यभवः, तत्रापि महानिधिग्रहण इव वेताला भृशमाविर्भवन्त्येते हिंसाक्रोधादयो दोषाः, यैरभिभूतास्तिष्ठन्तु तावदेते प्रबलमहामोहनिद्राघूर्णितमानसा नन्दिवर्धनमङ्गुला (प्रमुखा) वराकसत्त्वाः, कि तर्हि, ? येऽपि जिनवचनप्रदीपेन जानन्त्यनन्तमपि भवप्रपञ्चं, लक्षयन्ति मनुष्यभवदुर्लभतां, बुध्यन्ते संसारसागरतारकं धर्म, वेदयन्ते स्वसंवेदनेन भगवद्वचनाथै, निश्चिन्वन्ति निरुपमानन्दरूपं परमपदं तेऽपि बालिशा इव प्रवर्तन्ते परोपतापेषु, भवन्ति गर्वाध्माताः, कुर्वन्ति परवचनानि, रज्यन्ते द्रविणोपार्जनेषु, व्यापादयन्ति सत्त्वसंघातं, भाषन्तेऽलीकवचनानि, आददते परधनं, गृध्यन्ति विषयोपभोगेषु, आचरन्ति महापरिग्रह, भजन्ते रजनीभोजनानि / तथा मुह्यन्ति शब्देषु, मूर्छन्ति रूपेषु, लुभ्यन्ति रसेषु, तृष्यन्ति गन्धेषु, आश्लिष्यन्ति स्पर्शेषु, द्विषन्ति चानिष्टशब्दादीन् , भ्रमयन्ति पापस्थानेषु, सततमन्तःकरणं न नियन्त्रयन्ति, भारती उच्छृङ्खलयन्ति, कायं भज्यन्ते दूरेण तपश्चरणात् / ततोऽयं मनुष्यभवो मोक्षाक्षेपकारणभूतोऽपि तेषामधन्यतया न केवलं न किश्चिद गुणलवलेशमात्रमपि साधयति, किं तर्हि ?, यथाऽस्य नन्दिवर्धनस्य तथैव प्रत्युतानन्तदुःखपरम्पराकुलसंसारकारणतां प्रतिपद्यते, तथाहि--प्राप्तोऽयं मनुष्यभवोऽनादौ संसारे पूर्वमनन्तवारान् , न च सद्धर्मानुष्ठानविकलेनानेन किश्चित्साधितं, अत एवास्माभिः पूर्व भगवद्धर्मस्यात्यन्तदुर्लभता प्रतिपादिता / तथाहि--पद्मरागेन्द्रनीलादिरत्नसङ्घातपूरितम् / लभ्यते भवनं राजन्न तु जैनेन्द्रशासनम् // 1 // समृद्धं कोषदण्डाभ्यामेकच्छत्रमकण्टकम् / सुप्रापमीदृशं राज्यं, न तु धर्मों जिनोदितः // 2 // संपूर्णभोगसम्प्राप्तिप्रीणितेन्द्रियमानसम् / सुलभं नृप ! देवत्वं, न मतं पारमेश्वरम् // 3 // संसारे परमैश्वर्यकारणं भूप ! लभ्यते / इन्द्रत्वमपि जीवेन, न धर्मो जिनदेशितः // 4 // एते हि भावा राजेन्द्र , संसारसुखकारणम् / सद्धर्मस्तु मुनीन्द्रोक्तो, निर्वाणमुखकारणम् // 5 // निर्वाणमुखसंसारसुखयोश्च परस्परम् / चिन्तारत्नस्य काचेन, यावत्तावद्गुणान्तरम् // 6 // एवं च ज्ञातमाहात्म्यैः, संसारे ब्रूहि तत्त्वतः / ईदृक्षधर्मसम्प्राप्तिर्भूप ! केनोपमीयताम् ? // 7 // एवं स्थिते-पनं संसारविस्तारं. विलाय कथमप्यदः। मानुष्यं प्राप्य दप्प्रापं, राधावेधोपमं जनः॥८॥ यो जैनमपि संप्राप्य, शासनं कर्मनाशनम् / हिंसाक्रोधादिपापेषु, रज्यते मूढमानसः // 9 // स हारयति काचेन, चिन्तामणिमनुत्तमम् / करोत्यङ्गारवाणिज्य, दग्ध्वा गोशीर्षचन्दनम् // 10 // युग्मम् / भिनत्ति नावं मूढात्मा, लोहार्थ स महादधौ / सूत्रार्थ दारयत्युच्चैर्वैडूर्य रत्नमुत्तमम् // 11 // प्रदीपयति कीलार्थ, देव ! द्रोणी महत्तमाम् / रत्नस्थोल्यां पचत्याम्लखलकं मोहदोषतः // 12 // सौवर्णलाङ्गलाण, लिखित्वा वसुधां तथा / अर्कबीजं वपत्येष, चूतार्थ, मूढमानसः // 13 // छित्वा कर्पूरखण्डानि, कोद्रवाणां समन्ततः। वृति विधत्ते मूढोऽयमहंसश्रुतिकः किल // 14 //