SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ वर्धनकुमारस्य दोषगन्धोऽप्यस्ति, तथाहि---अयं स्वरूपेण स्थानमनन्तज्ञानस्य, भाजनमन न्तदर्शनस्य, पात्रमनन्तवीर्यस्य , निलयनमनन्तसुखस्य, कुलभवनमपरिमितगुणानां, न चेदृशमात्मस्वरूपमद्याप्येष वराको लक्षयति, तेनानयोः पापभार्यावयस्ययोः स्वरूपविपर्यासकारिणोर्वशे वर्तते / तथा च वर्तमानोऽयमेवंविधामनन्तदुःखहेतुभूतामनर्थपरम्परामासादयति / नृपतिनाऽभिहितं--भदन्त! स्फुटवचनाव्यतिकरात् पूर्वमस्माभिः श्रुतमासील्लोकवार्त्तया यदुतानेन नन्दिवर्धनकुमारेणोत्पद्यमानेना नन्दितं पद्मराजकुलं, वर्धितं कोशदण्डसमृद्धया, तोषितं नगर, वर्षमानेन पुमराहादिताः प्रकृतयो, विस्तारितो गुणप्राग्भारः, प्रतापेन वशीकृतं भूमण्डलं, निर्जिताः शत्रवः, गृहीता जयपताका, समुल्लसितो यशःपटहः, सिंहायितं भूतले, अवगाहितः सुखामृतसागरः, तत् किं तदाऽस्य नास्तामेतौ पापभार्यावयस्यौ ? यदिमौ दुःखपरम्पराकारगभूताविति ?, भगवताऽभिहितं--महाराज ! तदाप्यास्ता. मेतौ, किंतु तदाऽन्यदेव कल्याणपरम्पराकारगमसीत् / नृपतिराह-किं तत् ?, भगवतोक्तं--पुण्योदयो नाम सहचरः, स हि विद्यमानः स्वकीयप्रभावेण सर्वेषामेषामनन्तरोक्तानां पद्मरामकुलानन्दजननादीनां प्रयोजनविशेषाणां संपन्नः कारणं, केवलं महामोहवशान लक्षितोऽनेन नन्दिवर्धनेन तदीयः प्रभावः, पुण्योदयमाहात्म्यजातमपि कल्याणकदम्बकं हिंसावैश्वानरप्रतापजनितं ममैतदित्येवमेष मन्यते स्म, ततोऽयमविशेषज्ञ इति मत्वा विरक्तोऽसौ पुण्योदयः, नष्टो गृहीत्वैकां दिशं स्फुटवचनव्यतिकरावसरे, ततस्तद्विकलस्यास्य नन्दिवर्धनकुमारस्येदमनर्थकदम्बकमाभ्यां हिंसावैश्वानराभ्यां संपादितमिति / नृपतिराह--भदन्त ! कियान्पुनः कालोऽस्य हिंसावैश्वानराभ्यां सह सम्बन्धस्य ? * भगवताऽभिहितं -अनादिपरिचितावस्येमौ हिसावैश्वानरौ, केवलमत्र पद्मराजगृहे निबसतोऽस्याविभूताविमौ, पूर्व तिरोहितौ स्थितौ / नृपतिराह--किमनादिरूपोऽयं नन्दिवर्धनकुमारः ? भगवानाह--बाढम् / नृपतिराह---तत्किमित्ययं पद्ममराजपुत्रतया प्रसिद्धः 1, भगवानाह-मिथ्याभिमानोऽयमस्य यदुत पद्मराजपुत्रोऽहं, अतो नात्रास्था विधेया / नृपतिनोक्तं-भदन्त ! तत्परमार्थतः कुतस्त्योऽयमवधायतां ? भगवताऽभिहित-असंव्यवहारनगरवास्तव्यः कुटुम्बिकोऽयं संसारिजीवनामा कर्मपरिणाममहाराजादेशेन लोकस्थितिनियोगमुररीकृत्य स्वभार्यया भवितव्यतया ततो नगरानिःसारितोऽपरापरस्थानेषु पर्यटन् धार्यत इत्यवधारणीयम् / नृपतिराह-भदन्त ! कथमेतदिति सप्रपञ्चामस्य वक्तव्यतां श्रोतुमिच्छामि / भगवानाहमहाराजा आकर्णय / ततः कथितो भगवता समस्तोऽपि विस्तरेण मदीयव्यतिकरः ततः क्षुण्णतया भगवदर्शनेऽरिदमनस्य, विमलतया बोधस्य, प्रत्यायकतया भगवद्वचनस्य, लघुकर्मतया जीवस्य, प्रत्यासन्नतया महाकल्याणस्य परिस्फुरितमस्य हृदये-अये ! भगवता विमलकेवलालोकेनोपलभ्यास्य नन्दिवर्धनकुमारस्य सम्बन्धी भवप्रपश्चोऽयमनेन व्याजेन प्रतिपादितः। ततोऽभिहितमनेन-भदन्त ! यथैव मयाऽवधारितं तथैवेदमुतान्यथेति / भगवानाह-महाराज ! तथैव, मार्गानुसारिणी हिभवतो बुद्धिः, तत्कुतस्तत्रान्यथाभावः 1, नृपतिनाऽभिहितं---भदन्त ! तत्किमस्यैव नन्दिवर्धनकुमारस्यायं वृत्तान्तः ? किंवाऽन्येषामपि प्राणिनामिति ?, भगवानाह--महाराज ! सर्वेषां संसारोदरविवरवर्तिनामसुमतामेष व्यतिकरः प्रायेण समानो वर्तते, तथाहि---स्थिताः सर्वेऽप्येतेऽनादिकं कालं प्रायोऽसांव्यवहारिकजीवराशिमध्ये, तत्र च निवसतामेतेषामेत एव क्रोधमानमायालोभास्त्रवद्वारादयो ऽन्तरङ्गः परिजनः, यावन्तश्चागमप्रतिपादितानुष्ठानबलेन जीवाः 'सिध्यन्ति तावन्त एवासांव्यवहारिकजीवराशिमध्यादागच्छन्तीति केवलिवचनं, ततो निर्गताश्चैतेऽपि सर्वे जीवाः, विडम्बिता सर्वसंसारिमूलादि
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy