________________ 167 पन्नश्च स्थितोऽहमेतावन्तं कालं, अधुना भगवति दृष्टे संजातः शोकापनोदः, स सन्देहः पुनरद्यापि मे नापगच्छति, तमपनयतु भगवानिति / भगवताऽभिहितं-महाराज ! पश्यसि त्वमेनं पर्षदः प्रत्यासन्नं नियन्त्रितं पश्चाद्वाहुबन्धेन निबद्धवक्त्रविवरं तिरश्चीनं पुरुषं ? नृपतिनाऽभिहितं-मुष्ठु पश्यामि / भगवानाह-महाराज ! एतेन भस्मीकृतं नगरम् / नृपतिराह-भदन्त ! कोऽयं पुरुषः ? भगवानाह-महाराज ! स एवायं तव जामाता नन्दिवर्धनकुमारः। नृपतिराह-कथं पुनरनेनेदमीदृशं व्यवसितं ? किमिति वाऽयमेवंविधावस्थोऽधुना वर्तते ? ततः कथितो भगवता स्फुटवचनविरोधादिकश्चरटमनुष्यपरित्यागपर्यवसानः सर्वोऽपि नरपतये मदीयवृत्तान्तः। तमाकर्ण्य विस्मितो राजा परिषञ्च / नृपतिना चिन्तितं-किं छोटयाम्यस्य वदनं ? करोमि मुत्कलं बाहुयुगलं, अथवा नहि नहि, निवेदितमेवास्य चरितं भगवता, तदेष मुत्कलोऽस्माकमपि केनचिदकाण्ड्वड्वरसम्पादनेन धर्मकथाश्रवणविघ्नहेतुः स्यात्, तस्मात्तावदयं यथान्यासमेवास्तां, पश्चादुचितं करिष्यामः, अस्थानं चैष करुणायाः यस्येदृशं चरितं, तदधुना तावदपरं भगवन्तं सन्देहं प्रश्नयामः / ततोऽभिहितं नृपतिनाभदन्त ! नन्दिवर्धनकुमारोऽम्माभिरेवंगुणः समाकर्णितः / यदुत-वीरो दक्षः स्थिरः प्राज्ञो, महासत्त्वो दृढव्रतः। रूपवानयमार्गज्ञः, सर्वशास्त्रविशारदः॥१॥ गुणानां निकषस्थानं, प्रख्यातपरपौरुषः / अतोऽनेन महापापं, कथं चेष्टितमीदृशम् ? // 2 // सूरिणाऽभिहितं राजन्नास्य दोषस्तपस्विनः। तादृग्गुणगणोपेतः, स्वरूपेणैष वर्तते // 3 // राजाह ननु कस्यायं, दोषो ? नाथ ! निवेद्यताम् / यद्येवमात्मरूपेण, निर्दोषो नन्दिवर्धनः // 4 // ततो गुरुणाऽभिहितं यदेतदृश्यते दूरवर्ति कृष्णरूपं मानुषद्वयं, अस्यैव समस्तोऽपि दोषः, ततो नरपतिना विस्तारितं मदभिमुखमीक्षणयुगलं, निरूपितं बृहती वेलां तन्मानुषद्वयं, गदितं चानेन-भगवन्नेकोऽत्र मनुष्यो द्वितीया नारीति लक्ष्यते / भगवताऽभिहितं-सम्यगवधारितं महाराजेन / नृपतिराह-भदन्त ! कोऽयं मनुष्यः ? भगवताऽभिहित-एष महामोहस्य पौत्रको द्वेषगजेन्द्रस्य सू नुरविवेकितानन्दनो वैश्वानरोऽभिधीयते, अस्य हि जननीजनकाभ्यां प्रथम क्रोध इति नाम प्रतिष्ठितं, पश्चात्स्वगुणैरस्य परिजनसकाशादिदं द्वितीयं वैश्वानर इति प्रियनामकं संपन्नम् / नृपतिराह-तर्हि नारी केयं ? भगवताऽभिहितं-एषा द्वेषगजेन्द्रप्रतिबद्धस्य दुष्टाभिसन्धिनरेन्द्रस्य निष्करुणताया महादेव्या दुहिता हिंसोच्यते / नृपतिनाऽभिहितं--अनेन नन्दिवर्धनकुमारेण सहानयो कः सम्बन्धः ? भगवानाह--अस्यान्तरङ्ग एते मित्रभार्ये भवतः, अनयोश्च समर्पितहृदयोऽयं न गणयति स्वकमर्थानर्थ, नापेक्षते धर्माधर्म, न लक्षयति भक्ष्याभक्ष्यं, नाकलयति पेयापेयं, न जानीने वाच्यावाच्यं, नावगच्छति गम्यागम्यं, न बुध्यते हिताहितविभागम् / ततो विस्मरन्ति स्वभ्यस्ता अपि समास्ता गुणाः, क्षणमात्रेण परावर्तते निःशेषदोषपुञ्जतयाऽस्यात्मा। ततो महाराज ! नन्दिवर्धनेनानेन बालकाले कदर्थिता निरपराधा दारकाः, खलीकृतः कलोपाध्यायस्ताडितो हितोपदेशदायकोऽपि विदुरः / तथा तरुणेन सता घातिताः प्राणिसंघाताः, विहिता महासङ्ग्रामा, जनितो जगत्सन्तापः, परमोपकारिणौ बान्धवावपि मारयितुमारब्धौ, तिरस्कृतौ कनकचूडकनकशेखरौ, तदारात्पुनर्यदनेनाचरितं स्फुटवचनेन सहाकाण्डभण्डनं तन्मारणं च, तथा जननीजनकसहोदरभगिनीप्रियभार्यादिव्यापादानं नगरदहनं स्नेहनिर्भरमित्रभृत्यनिपातनं च तनिवेदितमेव युष्माकं, स एष महाराज ! समस्तोऽप्यनयोरेव पापयोहिंसावैिश्वानरयोरस्य भार्यावयस्ययोर्दोषसंघातो न पुनः स्वयमस्य तपस्विनो नन्दि श्वानरहि सादोषाः