________________ अरिदमननृपागमः धर्म दौलभ्ये देशना अथारिदमनो राजा, मुनि विज्ञाय लोकतः / सपुरो निर्गतस्तस्य, मुनेर्बन्दनकाम्यया // 1 // तथा मदनमञ्जूषा, या दत्ता मम कन्यका / सापि तत्र समायाता, सहिता रतिचूलया // 2 // विहाय पञ्च चिह्नानि, भक्तिनिर्भरमानसः / राजा कृतोत्तरासङ्गः, प्रविष्टः सूर्यवग्रहे // 3 // पञ्चाङ्गप्रणिपातेन, पादयोन्यस्तमस्तकः / प्रणम्य सूरि नौति स्म, ललाटे कृतकुङ्मलः // 4 // कथम् ?-अज्ञानतिमिरोच्छेदकर नाथ दिवाकर ! / नमस्ते रागसन्तापनाशकारिनिशाकर ! // 5 // स्वपाददर्शनेनाद्य, नाथ ! कारुण्यसागर ! / भवता भवनिर्णाश ! पूतपापाः कृता वयम् // 6 // अद्यैव ननु जातोऽस्मि, राज्येऽद्यैव प्रतिष्ठितः / अद्यैव पटुकर्णोऽस्मि, पश्याम्यद्यैव चक्षुषा // 7 // यदद्याखिलसन्तापपापाजीर्णविरेचनम् / भाग्यसंसूचकं मन्ये, संपन्नं तव दर्शनम् // 8 // एवं संस्तुत्य राजेन्द्रः, सूरि सूदितकल्मषम् / प्रणम्य शेषसाधूंश्च, निषण्णः शुद्धभूतले // 9 // स्वर्गापवर्गपण्यस्य, सत्यंकार इवाखिलैः / गुरुभिर्मुनिभिश्वोच्चैधर्मलाभः कृतो नृपे // 10 // ततः कृतप्रणामेषु, शेषलोकेषु भावतः / प्रयुक्तलोकयात्रेण, गुरुणाऽऽरम्भि देशना // 11 // कथम् ?-भो भव्या ! भवकान्तारे, पर्यटगिरनारतम् / अत्यन्तदुर्लभो ह्येष, धर्मः सर्वज्ञभाषितः॥१२॥ यतः-अनादिरेष संसारः, कालोऽनादिःप्रवाहतः। जीवाश्चानादिकाः सर्वे, दृश्यन्ते ज्ञानचक्षुषा // 13 // . न चैते प्राप्नुवन्तोऽमुं, धर्म सर्वज्ञभाषितम् / कदाचिदपि पूर्व तु, तेनैते भवभाजनम् // 14 // अथावाप्तो भवेज्जैनो, धर्मोऽमीभिः कदाचन / ततः कुतो भवोऽमीषां? क ताण वहिमीलके // 15 // तस्मात्सुनिश्चितं राजनेतनास्त्यत्र संशयः / नैवावाप्तः पुरा धर्मों, जन्तुभिर्जिनदेशितः // 16 // एवं च स्थिते-यदाऽनादौ भवेऽमीषां, मत्स्यानामिव सागरे / सदा दोलायमानानां, जीवानां दुःखसङ्कुले // 17 // स्वकर्मपरिणामेन, भव्यत्वपरिपाकतः। मनुष्यत्वादिसामग्र्या, तथा कालादियोगतः // 18 // धन्यः सकलकल्याणजनकोऽचिन्त्यशक्तिकः / यत्र कचिद्भवेज्जीवेऽनुग्रहः पारमेश्वरः // 19 // स तदा लभते जीवो, दुर्भेदग्रन्थिभेदतः / अशेषक्लेशनिर्णाशि, जैनेन्द्रं तत्त्वदर्शनम् // 20 // चतुर्भिः कलापकम् / ततोऽसौ गृहिधर्म वा, प्राप्नुयाज्जिनभाषितम् / लभते साधुसद्धर्म, सर्वदुःखविमोचकम् // 21 // सा चेयती भवेत्कस्य, सामग्रीय मुदुर्लभा / राधावेधोपमानेन, धर्मप्राप्तिः प्रकीर्तिता // 22 // तदत्र लब्धे सद्धर्मे, कुरुध्वं यत्नमुत्तमम् / अलब्धस्य तु लाभार्थ, घटध्वमिह हे जनाः! // 23 // अत्रान्तरे चिन्तितं नरेन्द्रेण-केवलज्ञानदिवाकरो भगवानयं, नास्त्यस्य किश्चिदज्ञेयं, अतः पृच्छामि भगवन्तमात्मीयं संशय, अथवा पश्यत्येव भगवान्मदीयं सन्देहं जिज्ञासां वा, अतः कथयतु ममानुग्रहेण / ततो भगवता सूरिणा भव्यजनबोधनार्थमभिहितो नरेन्द्रः-महाराज ! वाचा पृच्छ / नृपतिनाऽभिहित-भदन्त ! येयं मदीयदुहिता मदनमञ्जूषा, अस्याः पद्मनृपतिसुतनन्दिवर्धनकुमाराय दानार्थ प्रहितो मया जयस्थले स्फुटवचनो नाम महत्तमः, गतः कियानपि कालो, न निवृत्तोऽसौ, ततः प्रहिता मया तद्वात्ततॊपलम्भार्थ पुरुषाः, तैश्चागत्य निवेदितं यथा-देव ! तज्जयस्थलं सर्व भस्मीभूतं दवदग्धस्थलमात्रमधुना वर्तते, छिन्नमण्डलं च तत्, तेन न विद्यन्ते प्रत्यासन्नान्यन्यग्रामनगराणि, अरण्यप्रायः सोऽधुना देशो वर्तते, तथा वार्तामात्रमपि नास्माभिरुपलब्धं कथं तत्तथाभूतं संजातमिति / ततो मया चिन्तितं--हा कष्टमहो कष्ट, किं पुनरत्र कारणं किमकाण्ड एव तत्रोत्पाताङ्गारवृष्टिनिपतिता ? किं वा पूर्वविरुद्धदेवेन भस्मीकृतं नगरं ? उत मुनिना केनचित्कोपाग्निना दग्धं ? आहोस्वित् क्षेम(त्र)वहिना चौरादिभिर्वा ? ततश्चाविज्ञातपरमार्थः ससन्देहः शोका जयस्थली यप्रश्नः