________________ कथया / कनकशेखरः प्राह-किं मह्यमपि न कथ्यते ? मयोक्तं--नेति / कनकशेखरेणोक्तं-कुमारावश्यतया कथनीयमितरथा न भवति मे चित्ते निर्वाणं, ततो मया(दा)ऽऽदिष्टमयमुल्लङ्घयतीति चिन्तयतो मेऽन्तर्गतौ प्रज्वलितौ हिंसावैश्वानरौ, समाकृष्टा कनकशेखरकटीतटात्कृतान्तजिह्वाभासुराऽसिपुत्रिका, समुद्गीर्णः कनकशेखरमारणाय प्रहारः।। ततः किमेतदिति प्राप्ता वेगेन कनकचूडादयः, प्रादुर्भूतः कोलाहलः, स्तम्भितोहं कनकशेखरगुणावर्जितया यथासंनिहितया देवतया, समुत्क्षिप्तः पश्मतामेव तेषां गगनमार्गेण, नीतस्तद्विषयसन्धिदेशे, क्षिप्तस्तेषामम्बरीषाभिधानां वीरसेनादीनां चरटानां मध्ये, दृष्टस्तैस्तथैवोद्गीर्णप्रहारो गृहीतक्षुरिकः, प्रत्यभिज्ञातोऽमीभिः, पतिताः पादयोरभिहितं च तैः-देव ! कोऽयं वृत्तान्तः ? न शकितं मया जल्पितुं, विस्मिताश्चरटाः, आनीतमासनं न शकितं मयोपवेष्टुं ततो गता दैन्यमेते, तत्करुणयोत्तम्भितोऽहं देवतया, चालितान्यङ्गानि, हृष्टास्ते वराकाः, निवेशितोऽहमासने, पुनरपि पृष्टः प्रस्तुतव्यतिकरः / मया चिन्तितं-अहो यत्र यत्र बजानस्तत्र तत्र वयमेतैः परततिपरायणैरलीकवत्सलैलोकैरासितुं न लभामहे, ते त्वलब्धप्रतिवचनाः पुनः पुनर्मी पृच्छन्ति स्म, ततो विस्फुरितौ में हिंसावैश्वानरौ, निपातिताः कतिचिच्चरटाः, जातः कलकलः, ततो बहुत्वात्तेषां गृहीता मम हस्तादसिपुत्रिका, बद्धोऽहमात्मभयेन / ___अत्रान्तरे गतोऽस्तं दिनकरः, विजृम्भित तिमिरं, समालोचितं चरटैः यथा पूर्ववैरिक एवायमस्माकं नन्दिवर्धनो येन हतः प्रवरसेनोऽधुनापि घातिता एतेनैते प्रधानपुरुषाः तथापि प्रतिपन्नोऽस्माभिरेष स्वामिभावेन प्रख्यापितो लोके विज्ञातमेतद्दशान्तरेषु ततोऽस्य मारणे महानयशस्कारः संपद्यते, नैष वह्निवत्पुट्टलके कथश्चिद्धारयितुं शक्यः, तस्माद् दूरदेशं नीत्वा त्याग एवास्य श्रेयानिति स्थापितः सिद्धान्तः / ततो नियन्त्रितोऽहं गन्न्यामारटंश्च निबद्धो वस्त्रेण वदनदेशे, युक्तौ मनःपवनगमनौ वृषभौ, प्रस्थापिताः कतिचित्पुरुषाः, खेटिता गन्त्री, गता रजन्यैव द्वादश योजनानि, ततः प्रापितोऽहम्नवरतप्रयाणकैः शार्दुलपुरं, त्यक्तो मलविलयाभिधाने बहिष्कानने, गताः स्वस्थानं सगन्त्रीकास्ते मनुष्याः / स्तोकवेलायां अकाण्ड एव विजृम्भितः सुरभिपवनः, विमुक्तः सहजोऽपि वैरानुबन्धः पशुगणैः, भुवनश्रियेव तत्समाध्यासितं काननं, समवतीर्णाः समकमेव सर्व ऋतवः, प्रमुदिता विहङ्गमगणाः, मनोहरमनुत्तालतालं रुण्टितंमधुकरावलीभिः विगततापं विशेषतस्तमुशमुद्देशमुद्योतयितुमारब्धो दिनकरः तथा ममापि मनाग्गलित इव चित्तसन्तापः। तदनन्तरं च देहभूषणप्रभाप्रवाहेण द्योतयन्तो दिक्चक्रवालं सपागतास्तत्र देवाः, शोधितं तैर्भूतलं, वृष्टमतिसुरभिगन्धोदकं, विमुक्तः पश्चवर्णमनोहारिकुसुमप्रकरः, विरचितं विशालमतिरमणीयं मणिकुट्टिम, विहितं तस्योपरि कनककमलं, विस्तारितमुपरिष्टादेवदृष्यवितानं, अवलम्बितास्तत्र मौक्तिकावचूलाः / ततः समुत्सुकैस्तैर्देवैरवलोकितमार्गः कल्पद्रुम इव यथेष्टफलदायितया, कनकगिरिवि स्थिरतया, क्षीरनीरधिरिव गुणरत्राकरतया, शशधर इव शीतले श्यतया, दिनकर इव सप्रतापतया, चिन्तामणिरिव दुर्लभतया, स्फटिक इव निर्मलतया, भूभाग इव सर्वसहिष्णुतया, गगनतलमिव निरालम्बनतया, गन्धकरटीव वरकरिभिः परिकरितः स्वप्रतिबिम्बकैरिव बहुविधविनेयैः समागतः केवलज्ञानदिवाकरो विवेको नामाचार्यः / समुपविष्टः कनककमले, प्रणिपत्य विहितकरमुकुला निषण्णा परिषत् , प्रारब्धं व्याख्यानम् / अत्रान्तरे भगवतः प्रतापं सोढुमशक्नुवन्तौ मदीयशरीरानिर्गतौ हिंसावैश्वानरौ, दूरदेशे स्थितौ मां प्रतीक्षमाणौ।