________________ 164 नन्दिवर्धनकुमाराकारं धारयति, ततो निरूपितोऽहं नखाग्रेभ्यो वालाग्राणि यावत् / ततः स्थितं तस्य हृदये-नन्दिवर्धनकुमार एवायं, केवलं कथं तस्येह संभवः ? अथवा विचित्राणि विधेविलसितानि, तद्वशगानां हि प्राणिनां किं वा न संभवति ? तथाहि- य एकदा नताशेषभूपमौल्यार्चितक्रमः। वचने वचने लोकैर्जय देवेति भण्यते // 1 // स एव विधिना राजा, तस्मिभेव भवेऽन्यदा / रोराकारं विधायोच्चै नाकारं विडम्ब्यते // 2 // तस्मात्स एवायं, नास्त्यत्र सन्देहः, ततः मृतमित्रभावेन गलदानन्दोदकप्रवाहक्षालितकपोलेन सिंहासनादुत्थाय समालिङ्गितोऽहं विभाकरेण / ततः किमेतदिति विस्मितं राजमण्डलं, ततो निवे. श्यात्मीया(सनेऽभिहितोऽहमनेन-वयस्य ! कोऽयं वृत्तान्तः ?, ततः कथितं विभाकराय मयाऽऽत्मचरितम् / विभाकरः प्राह-हा कष्टं, न सुन्दरमनुष्ठितं भवता, यदिदमतिनिघणं जननीजनकादिमारणमाचरितम् / ततः अयमपीह जन्मन्येव क्लेशो भवतस्तस्यैव फलविपाकः, तच्छुत्वा विस्फुरितौ ममान्तर्गतौ हिंसावैश्वानरौ / चिन्तितं मया यथा अयमपि मे वैरिरूप एव, यो मत्कर्तव्यमप्यसुन्दरं मन्यते ततो जातो मे तन्मारणाभिप्रायः, तथापि दुर्वलतया देहस्य महाप्रतापतया विभाकरस्य संनिहिततया बहुराजवृन्दस्य अतिनिकटवर्तितया प्रहरणस्य न दत्तो मया प्रहारः, केवलं कृतं कालं मुखं, लक्षितो विभाकरेण मदीयाभिप्रायः यथा न सुखायतेऽस्य मदीयोऽयं जल्पः, तत् किमनेन संतापितेन ? ततो विहितः प्रस्तुतकथाविक्षेपः ज्ञापितं सामन्तमहत्तमादीनां यथा एष नन्दिवर्धनकुमारो मम शरीरं जीवितं सर्वस्वं बन्धुर्घाता, पूज्यो(पुण्यो)ऽद्य जातोऽहमस्य दर्शनेन, अतः कुरुत प्रियसमागममहोत्सवमिति / तैरभिहितं यदाज्ञापयति देवः, ततः प्रवर्तितो महानन्दः, स्नपितोऽहं विधिना, परिधापितो दिव्यवस्त्राणि, भोजितः परमानैः, विलेपितः सुरभिविलेपनेन, भूषितो महालङ्कारः, दत्तं स्वयमेव विभाकरेण मनोहारि ताम्बूलं, मया त्वहममेनेदमभिहितो यथा न सुन्दरमनुष्ठितं भवतेति, ततो मारयिष्याम्येनं वैरिणमिति रौद्रवितर्कपरम्परादोद्यमानचेतसा न किचिच्चेतितं, उत्थाय भोजनमण्डपादुपविष्टा वयमास्थानशालायां, मतिशेखरेण मन्त्रिणाभिहितं-किं विदितं कुमारेण ? यथा देवभूयं गतः सुगृहीतनाधेयो देवः प्रभाकरः, ततो धूनिता मया कन्धरा, कतं विभाकरेण साश्रलोचनयुगलं, अभिहितं च-वयस्य ! ताते परोक्षेऽधुना युष्माभिस्तातकार्यमनुष्ठेय, तदिदं राज्यमेते वयमेताश्च तातपादप्रसादलालिताः प्रकृतयः प्रतिपन्नाः किङ्करभावं वयस्यस्य यथेष्टं नियोज्यन्ताम् / ततो वैश्वानरवैगुण्यादवस्थितोहं मौनेन, लवितो दिवसो, प्रदत्तं प्रादोषिकमास्थानं, तदन्ते विसर्जितराजमण्डलो निवार्य प्रियतमाप्रवेशं मया सहातिस्नेहनिर्भरतया महार्हायामेकस्यामेव शप्यायां प्रसुप्तो वासभवने विभाकरनरेन्द्रः / - ततो भद्रेऽगृहीतसङ्कते ! तदा मया वैश्वानरहिंसाभ्यां विधुरितहृदयेन स तथाविधोऽऽतिस्निग्धमुग्धविश्रब्धो विभाकरः समुत्थाय विनिपातितः पापेन, निर्गतश्चाहं परिधानद्वितीयः स्वकर्मत्रासेन, पलायितो वेगेन, निपतितोऽटव्यां, सोढानि नानाविधदुःखानि, प्राप्तो महता क्लेशेन कुशावर्ते, विश्रान्तो बहिः कानने, दृष्टः कनकशेखरपरिकरण, निवेदितः कनकचूडकनकशेखरयोः, चिन्तितमाभ्यां-भवितव्यमत्र कारणेन यदेकाकी नन्दिवर्धन इति / ततः समागतौ कतिचिदाप्तपुरुषपरिवारौ मत्समीपं, विहितमुचितं, स्थितो मया सहोत्तारके कनकशेखरः, पृष्टमेकाकिताकारणम् / मया चिन्तितं-अस्यापि न प्रतिभासिष्यते मदीयचरितं, तत्किं कथितमेतेन ? ततो मयाऽभिहितं-अलमनया कुशावतें भागमन