________________ गरात्रि4मः सर्वेऽप्येककालं निवारणार्थ, ततः कृतान्त इव समदर्शितया समस्तानपि निर्दलयनहं गतः कियन्तमपि भूभागं, ततो भूरितया लोकस्य वनकरीव श्रमे पातयित्वा गृहीतः कथञ्चिदहं, उद्दालितं मण्डलायं, बद्धः पश्चाद्वाहुबन्धेन, ततो रटनसभ्यवचनानि प्रक्षिप्तोऽपवरके, दत्ते कपाटे, तत्र च प्रज्वलन्ननुनयवचनैः प्रलपन्नश्राव्यभाषया ददानः कपाटयोर्मस्तकास्फोटान् क्षामो बुभुक्षया, पीडितः पिपासया, दन्दह्यमानश्चित्तसन्तापेनालभमानो निद्रां महाघोरनारक इव तथाबद्ध एव स्थितो मासमानं कालं, अवधीरितः परिजनेन / __अन्यदाऽत्यन्तक्षीणतया समागता ममार्धरात्रे क्षणमात्रं निद्रा, ततः प्रसुप्तस्य छिम्नं मे मूषकैबन्धनं, जातोऽहं मुत्कलः, उद्घाटिते कपाटे, निर्गतो बहिर्देशे, निरूपितं राजकुलं यावन्न कश्चिच्चेतयते / ततो.मया चिन्तितं-सर्वमेवेदं राजकुलं नगरं च मम वैरिभूतं वर्तते येनाहमेवं परिक्लेशितः पापेन / ततो विजृम्भितो ममान्तवर्ती वैश्वानरः, सहर्षया हुङ्कारितं हिंसया, दृष्टं मया प्रज्वलिताग्निकुण्डं, चिन्तितं हृदये-अयमत्र वैरिनिर्यातनोपायः यदुत गृहीत्वा शरावं भृत्वाऽङ्गाराणां ततो राजकुलस्य नगरस्य च अपरापरेषु इन्धनबहुलेषु स्थानेषु स्तोकस्तोकांस्तान्प्रक्षिपामि, ततः स्वयमेव भस्मीभविष्यतीदं द्वयमपि दुरात्मकमिति / ततः कृतं सर्व तथैव तन्मया, लग्नं समन्तात्प्रदीपनकं, निर्गतोऽहमपि दंदह्यमानः कथंचिद्भवितव्यताविशेषेण, प्रवृत्तो जनाक्रन्दरवः, धावन्ति स्म लात लातेति ब्रुवाणाः परबलशङ्कया सुभटाः। ततः क्षीणतया शरीरस्य परस्परानुविद्धतया शरीरमनसोविगलितं धैर्य, समुत्पन्नं मे भयं, पलायितोऽटवीसंमुखं, पतितो महारण्ये, विद्धः कण्टकैः स्फोटितः कीलकैः परिभ्रष्टो मार्गात् , प्रस्खलितो विषमोकात् , निपतितोऽधोमुखो निम्नदेशे, चूर्णितान्यङ्गोपाङ्गानि न शक्नोम्युत्थातुम् / अत्रान्तरे समागताश्चौराः, दृष्टस्तैस्तथावस्थितोऽहं, अभिहितममीभिः परस्परं-अरे ! महाकायोऽयं पुरुषो, लप्स्यते परकूले बहुमूल्यं, तद् गृहीत्वा नयामः स्वस्वामिमूलमेनम् / तदाकर्ण्य समुल्लसितो ममान्तर्निमग्नो वैश्वानरः, स्थितोऽहमुपविष्टः / ततस्तेषामेकेनाभिहितं-अरे ! विरूपकोऽस्याभिप्रायः ततः शीघ्रं बध्नीत यूयमेनं अन्यथा दुर्ग्रहो भविष्यति, ततो गाढं हत्वा धनु शाखाभिनियन्त्रितोऽहं पश्चान्मुखीकृत्य बाहू, ददतो गालीबंद्धं मे वक्त्रकुहरं, ततः समुत्थापितोऽहं, परिहितं जरचीवरखण्डं, खेटितो ददद्भिर्गाढप्रहारान् नीतः कनकपुरप्रत्यासनां भीमनिकेतनाभिधानां भिल्लपल्ली, दशितो रणवीरस्य पल्लीपतेः, अभिहितमनेन-अरे! पोषयत तावदेनं येन पुष्टो विक्रतुं नीयते / ततो यदाज्ञापयति देव इति वदता नीतोऽहमेकेन चौरेण स्वभवने, छोटितं वदनं, कृतो मुत्कलो, लग्नोऽहं चकारादिभिः, कुपितश्चौरो, हतोऽहं दण्डादिभिर्नवरं समर्पितोऽयं मम स्वामिनेति मत्वा न मारितोऽहमनेन, केवलं दापितं कदशनं, ततो बुभुक्षाक्षामकुक्षितया संजातं मे दैन्यं तदेव कदनं भक्षयितुमारब्धः, न पूरितमुदरं, संजातश्चित्तोद्वेगः, गतानि कतिचिदिनानि, पृष्टोऽसौ रणवीरेण चौरः, कीदृशोऽसौ पुरुषो वर्तत इति / स प्राह-देव ! न कथश्चित्तस्य बलमारोहतीति. ततः क्षपितोऽहमेवं तेन भूयांसं कालम् / _अन्यदा समायातः कनकपुराञ्चौराणामुपरि दण्डः, नष्टास्तस्कराः, लूषिता सा पल्ली, गृहीता बन्यो, नीताः कनकपुरं, गतोऽहमपि तन्मध्ये, दर्शिता बन्यो विभाकरनृपतेः / ततो मामवलोक्य चिन्तितमनेन-अये ! किमिदमाश्चर्य ? यदेष पुरुषोऽस्थिचर्मशेषतया दवदग्धस्थाणुकल्पोऽपि मटव्यां .. राधीनः कनकपुरे दीतया