________________ 162 कुटुम्बसं हार: मतिधनः प्राह-देव ! महापुरुषोऽरिदमनः, युक्त एव देवस्य तेन साध सम्बन्धः, ततोऽनुमन्यतामिद तस्य वचनं, कोऽत्र विरोधः ? तातेनाभिहितं-एवं भवतु / अत्रान्तरे मयाऽभिहितं-अहो कियद् दूरे तत्तावकीनं शार्दूलपुरमितः स्थानात् / स्फुटवचनः प्राह-सार्धयोजनशते / मयाऽभिहितं-मैवं वोचः / स्फुटवचनः प्राह-तर्हि यावद् दूरे तत्कथयतु स्वयमेव कुमारः / मयाऽभिहितं-गव्यूतेनोने सार्धयोजनशते / स्फुटवचनः प्राहः-किमेतत् ?, मयाऽभिहितं-श्रुतमस्माभिर्बालकाले / स्फुटवचनः प्राह-न सम्यगवधारितं कुमारेण, मयोक्तं-त्वया कथमवधारितम् ? स्फुटवचनः प्राहः--गणितं मया पदं पदेन / मयाऽभिहित-सुनिर्णीतमिदमस्माभिरप्याप्तप्रवादात् / स्फुटवचनेनोक्तं--कुमार ! विप्रतारितः केनापि, न चलतीदं मदीयं प्रमाणं तिलतुषत्रिभागमात्रेणापि / ___ ततो मामेष दुरात्मा लोकमध्येऽलीकं करोतीति चिन्तयतो मे जृम्भितं, वैश्वानरेण प्रहसितं, हिंसया प्रयुक्ता योगशक्तिः कृतो द्वाभ्यामपि मदीयशरीरेऽनुप्रवेशः / ततः संजातोऽहं साक्षादिव प्रलयज्वलनः समाकृष्टं दिनकरकरनिकरकरालं करवालम् / अत्रान्तरे चिन्तितं पुण्योदयेन यदुत पूर्णो ममाधुनावधिः पालितो भवितव्यतानिदेशः न योग्योऽयमिदानी नन्दिवर्धनकुमारो मत्सम्बन्धस्य, तस्मादपक्रमणमेव मेऽधुना श्रेय इत्यालोच्य नष्टः पुण्योदयः / मया कुर्बतो हाहारवं तावतो जनसमुदायस्याग्रत एव अविचार्य कार्याकार्यमेकप्रहारेण कृतो द्विदलः स्फुटवचनः / ततो हा पुत्र ! किमिदमकार्यमनुष्ठितमितिब्रुवाणः समुत्थितः सिंहासनात् तातः, चलितो मदभिमुखं, वेगेन / मया चिन्तितं-अयमप्येतद्रूप एव, यो दुरात्मा मयापि कृतमिदमकार्यमित्यारटति, ततः समुदीर्णखड्गो चलितोऽहं ताताभिमुखं, कृतो लोकेन कोलाहलः, ततो मया न स्मृतं जनकत्वं, न लक्षिता स्नेहनिर्भरता, न गणितं परमोपकारित्वं, नालोचितो महापापागमः / सर्वथा वैश्वानरहिंसावशीभूतचित्तेनावलम्ब्य कर्मचाण्डालतां तथैव रटतस्तातस्य त्रोटितमुत्तमाङ्गं, ततो हा जात ! हा जात ! मा साहस, मा साहसं, त्रायध्वं लोकास्त्रायवमिति विमुक्तकरुणाक्रन्दरवा आगत्य लग्ना ममाम्बा करे करवालोदालनार्थम् / मया चिन्तितं, इयमपि पापा मम वैरिणीव वर्तते, यैवं शत्रूच्छेदपरेऽपि मयि लकशकायते, ततः कृता साऽपि द्वेधा करवालेन / ततो हा भ्राताँ कुमार ! हा आर्यपुत्र ! किमिदमारब्धमिति पूत्कुर्वाणानि शीलवर्धनो, मणिमञ्जरी, रत्नवती च लग्नानि त्रीण्यपि मम भुजयोरेककालमेव निवारणार्थम् / मया चिन्तितं-एतत् कालोचितं नूनममीषां सर्वेषामपि दुरात्मानां, ततो गाढतरं परिज्वलितोऽहं नीतानि त्रीण्यप्येकैकप्रहारेणान्तकसदनम् / अत्रान्तरेऽमुं व्यतिकरमाकर्थ हा आर्यपुत्र ! किमिदं किमिदमिति प्रलपन्ती प्राप्ता कनकमञ्जरी / मया चिन्तितं-अये ! एषाऽपि पापा मद्वैरिणामेव मिलिता यैवं विक्रोशति, अहो हृदयमपि मे वैरिभूतं वर्तते, तत्किमनेन ? अपनयाम्यस्या अपि बन्धुवत्सलत्वं, ततो विगलिते प्रेमाबन्धे विस्मृता तद्विरहकातरता, न स्फुरितानि हृदये विश्रम्भजल्पितानि, अपहस्तिता रतिसुखसन्दोहाः न पर्यालोचितस्तस्याः सम्बन्धी निरुपमः स्नेहानुबन्धः, सर्वथा वैश्वानरान्धबुद्धिना हिंसाक्रोडीकृतहृदयेन मया विदलिता करवालेन वराकी कनकमञ्जरी / अत्रान्तरे संरम्भेण गलितं मे कटीतटात्परिधान, विलुलितं भूमौ, निपतितमुत्तरीयं क्षितितले जातोऽहं यथाजातः मुत्कलीभूताः केशाः संपन्नः साक्षादिव वेतालः, ततस्तथाभूतं मामवलोक्य दूरवर्तिभिः प्रेक्षकडिम्भरूपैर्हसद्भिरट्टहासेन कृता किलिकिलिका, ततः सुतरां प्रज्वलितोऽहं चलितस्तन्मारणार्थ वेगेन. तो मे भ्रातरो, भगिन्यः स्वजना सामन्ताश्च लग्नाः