________________ 161 यतः:-इयं दाहात्मिका पापा, सा पुनहिमशीतला / ततोऽनयोर्विरोधोऽस्ति, यथाऽग्निजलयोः सदा // 15 // ततस्तातेनाभिहितं-आर्य ! कदा पुनरेष नन्दिवर्धनकुमारस्तां दयाकन्यकां परिणेष्यति ? जिनमतज्ञेनाभिहितं यदा शुभपरिणामो दास्यति / तातः प्राह-स एव तर्हि कदा दास्यति ? जिनमतज्ञेनाभिहितं यदा कुमारं प्रति प्रगुणो भविष्यति / तातेनाभिहितं-कस्तर्हि तस्य प्रगुणीभवनोपायः ? जिनमतज्ञः प्राह-कथितं पूर्वमेवेदं मया भवतां यथा तं शुभपरिणामनरेश्वरं यदि परं कर्मपरिणाममहाराजः प्रगुणयितुं समर्थों, नापरः, यतस्तदायत्तोऽसौ वर्तते, तस्मात्किमत्र बहुना ?, यदा स कर्मपरिणाममहानरेन्द्रः कुमारं प्रति सप्रसादो भविष्यति तदा स्वयमेव शुभपरिणामेनास्मै कुमाराय दयादारिकां दापयिष्यति, किं चिन्तया ?, अन्यच्च-लक्षयाम्यवाहं निमित्तबलेन कुमारस्य भव्यतामपेक्ष्य युक्तिबलेन च यदुत नियमेन कचित्काले सप्रसादो भविष्यत्येनं कुमारं प्रति कर्मपरिणामो, नात्र सन्देहः, ततश्च तस्मिन् काले आपृच्छय महत्तमभगिनीं लोकस्थितिं पर्यालोच्य सह कालपरिणत्या निजभार्यया कथयित्वाऽऽत्मीयमहत्तमाय स्वभावाय संभाल्य च स्वरमधुरवचनरस्यैव नन्दिवर्धनकुमारस्य सम्बन्धिनी समस्तभवान्तरानुयायिनी प्रच्छन्नरूपामन्तरङ्गभाया भवितव्यतां दापयित्वा नियतियदृच्छादीनां कुमारवीर्य स्थापयित्वा दयादारिकादानस्य योग्योऽयमिति सर्वसमक्ष सिद्धान्तपक्षं ततो दापयिष्यत्येव स कर्मपरिणाममहाराजो दयादारिकां कुमाराय, निःसन्दिग्धमेतद्, अतो मुश्चत यूयमाकुलताम् / तातः प्राह-तत्किमधुनाऽस्माकं प्राप्तकालं ? जिनमतज्ञेनोक्तं-मौनमवधीरणा च / तातेनाभिहित-आर्य ! किमात्मपुत्रोऽस्माभिरवधीरयितुं शक्यते ? जिनमतज्ञः प्राहतत्किमत्र क्रियतां ? यदि हि बहिरङ्गोऽयमुपद्रवः कुमारस्य स्यात् ततो न युज्येत कर्तुं तत्र * भवतामवधीरणां, अयं पुनरन्तरङ्ग उपद्रवो वर्तते, ततस्तमवधीरयन्तोऽपि भवन्तो नोपालम्भमर्हन्ति / ततो यदादिशत्यार्य इति वदता तातेन परिपूज्य प्रहितो नैमित्तिकः / गतानि कतिचिदिनानि / समुत्पनेयं तातस्य बुद्धिः यथा स्थापयामि यौवराज्ये नन्दिवर्धनकुमारं ज्ञापित महत्तमानां प्रतिपन्नमेतैः गणितं प्रशस्तदिनं, कृताऽभिषेकसामग्री, समाहूतोऽहं, विरचितं भद्रासनं, मीलिताः सामन्ताः, समागता नागरकाः, संविधापितानि माङ्गलिकानि, प्रकटितानि रत्नानि, प्रत्यासन्नीभूतान्यन्तःपुराणि / अत्रान्तरे प्रविष्टा प्रतीहारी कृतं तया पादपतनं, विरचितं करपुटकुड्मलं निवेशितं ललाटपट्टे / गदितमनया-देव ! अरिदमननृपतेः सम्बन्धी स्फुटवचनो नाम महत्तमः प्रतीहारभूमौ तिष्ठति, एतदाकर्ण्य देवः प्रमाणम् / तातेनाभिहितं-शीघ्रं प्रवेशय, प्रवेशितः प्रतीहार्या विहिता प्रतिपत्तिः / अभिहितं स्फुटवचनेन महाराज ! श्रुतो मया बहिरेव कुमारस्य यौवराज्याभिषेकव्यतिकरः तेनाहं शुभमुहूर्तोऽयमितिकृत्वा स्वप्रयोजनसिद्धये त्वरिततरः प्रविष्टः / तातेनाभिहितं-सुन्दरमनुष्ठितं, निवेदयतु स्वप्रयोजनमार्यः / स्फुटवचनः प्राह-अस्ति तावद्विदित एव भवादृशां शार्दूलपुराधिपतिः सुगृहीतनामधेयो देवोऽरिदमनः / तस्यास्ति विनिर्जितरतिरूपा रतिचूला नाम महादेवी / तस्याश्वाचिन्त्यगुणरत्नमञ्जूषा मदनमञ्जूषा नाम दुहिता, तया च लोकप्रवादेनाकर्णितं नन्दिवर्धनकुमारचरितं, ततो जातस्तस्याः कुमारेऽनुरागातिरेकः, निवेदितः स्वाभिप्रायो रतिचूलायै, तयाऽपि कथितो देवाय, ततस्ता मदनमञ्जूषां कुमाराय प्रदातुं युष्मत्सन मीपे प्रहितोऽहं देवेन, अधुना महाराजः प्रमाणम् / ततो निरीक्षितं तातेन मतिधनवदनम् /