________________ 160 दयातत्कुटु म्बवर्णन महाराज ! एक एवात्र परमुपायो विद्यते स यदि संपद्येत ततः स्वयमेव प्रलीयेत कुमारस्येयमनर्थकारिणी हिंसाभिधाना भार्या / तातेनाभिहितं-कीदृशः सः ? इति कथयत्वार्यः / जिनमतज्ञेनाभिहितं यत्तदा वर्णितं समक्षमेव भवतां यथा अस्ति रहितं सर्वोपद्रवैनिवासस्थानं समस्तगुणानां कारणं कल्याणपरम्परायाः दुर्लभं मन्दभागधेयैश्चित्तसौन्दर्य नगरं, तत्र च यो वर्णितः यथा अस्ति हितकारी लोकानां कृतोद्योगो दुष्टनिग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्णः कोशदण्डसमुदयेन शुभपरिणामो नाम राजा / तस्य राज्ञो यथासौ क्षान्तेर्जनयित्री निष्पकम्पता नाम महादेवी तदा वर्णिता तथैव तस्यान्यापि द्वितीयाऽस्ति हितकारिणी लोकानां निकाभूमिः सर्वशास्त्रार्थानां प्रवर्तिका सदनुष्ठानानां दूरवर्तिनी पापानां चारुता नाम राज्ञी / तथाहि-तावदुःखानि संसारे, लभन्ते सर्वजन्तवः / स्वर्गापवर्गमार्ग च, न लभन्ते कदाचन // 1 // यावत्सा चारुता देवी, तैर्न सम्यग् निषेव्यते / यदा पुननिषेवन्ते, तां देवीं ते विधानतः // 2 // लब्ध्वा कल्याणसन्दोहं, तदा यान्ति शिवं नराः। अतः सा चारुता देवी, लोकानां हितकारिणी / 3 / युर संसारसागरोत्तारकारणानि महात्मनाम् / लोके लोकोत्तरे वापि, यानि शास्त्राणि कानिचित् // 4 // तेषु सर्वेषु शास्त्रेषु, वर्णिता परमार्थतः / उपादेयतया देवी, सा प्राज्ञैस्तत्त्वचिन्तकैः // 5 // युग्मम् तेन सा निकषस्थानं, शास्त्राणामिह गीयते / तां विना सर्वशास्त्रार्थोऽसद्बुद्धिप्रकरायते // 6 // दान शीलं तपो ध्यानं, गुरुपूजा शमो दमः / एवमादीनि लोकेऽत्र, चारुकर्माणि भावतः॥७॥ प्रवर्तयति सा देवी, स्वबलेन महात्मनाम् / तेन सा सदनुष्ठानजनकेति२७ निरुच्यते // 8 // युग्मम् / कामक्रोधभयद्रोहमोहमात्सयविभ्रमाः। शाठ्यपेंशुन्यरागाद्या, ये लोक पापहेतवः // 9 // तेषां तया सहावस्था, नास्त्येव भुवनत्रये। अतः सा चारुता देवी, पापानां दूरव तिनी // 10 // तस्याश्च शुभपरिणामसम्बन्धिन्याश्चारुताया महादेव्या आहादहेतुर्जगतः सुन्दरा रूपेण वल्लभा बन्धूनां कारणमानन्दपरम्परायाः सततं मुनीनामपि हृदयवासिनी विद्यते दया नाम दुहिता / तथाहि-सर्वे चराचरा जीवा, भुवनोदरचारिणः। दुःखं वा मरणं वाऽपि, नाभिकाङ्क्षन्ति सर्वदा / 1 / ततश्च-सा दया द्वयमप्येतद्वारयत्येव देहिनाम् / तेन सा भुवनाहादकारणं परिकीर्तिता // 2 // मुखं शशधराकारं, माभीर्दानाख्यमुत्तमम् / सद्दानदुःखत्राणाख्यौ, दयायाः पीवरौ स्तनौ // 3 // विस्तीर्ण जगदानन्दं, शमाख्यं जघनस्थलम् / यद्वा नास्त्येव तदेहे, किञ्चिदङ्गमसुन्दम् // 4 // रूपेण सन्दरा प्रोक्ता, तेन सा मुनिपङवेः / यथेा बन्धवर्गस्य, तथेदानीं निगद्यते // 5 // शान्तिः शुभपरिणामश्च, चारुता निष्प्रकम्पता / शौचसन्तोषधैर्याद्या, दयाया बान्धवा मताः // 6 // तेषां तु सतताहादकारिणी हृदयस्थिता / तेनातिवल्लभा प्रोक्ता, बन्धुवर्गस्य सा दया // 7 // सुरेषु मर्त्यलोके च, मोक्षे च सुखपद्धतिः / दयापरीतचित्तानां, वर्तते करवर्तिनी // 8 // आनन्दपद्धतेर्हेतुस्तेन सा कन्यका मता / अत एव सुसाधूनां, हृदये सा प्रतिष्ठिता // 9 // अथवा-दया हितकरी लोके, दया सर्वगुणावहा / दया हि धर्मसर्वस्वं, दया दोषनिषूदनी // 10 // दयैव चित्तसन्तापविध्यापनपरायणा / दयावतां न जायन्ते, नूनं वैरपरम्पराः // 11 // किं चात्र बहुनोक्तेन ?, गुणसम्भारगौरवम् / वहन्ती पद्मपत्राक्षी, सा दया केन वर्ण्यताम् // 12 // तदत्र परमार्थोऽयं, महाराजाय कथ्यते / हिंसायाः प्रलयोपायो, नापरोऽत्र निरीक्ष्यते // 13 // यदेष तां दयां धीरः, कुमारः परिणेष्यति / तदाऽस्य स्वयमे वैषा, दुष्टा भार्या विनश्यति // 14 // 57 जनयतादिति जनका 'आशिष्यकन्' इत्यकनि निस्वान्नेकारः. दयातत्कुटु म्बवर्णन