________________ तथाहि-केचिद्ददति दानानि, केचिद्गायन्ति भाविताः। उद्दामतूर्यनिर्घोषैः, केचिन्नृत्यन्ति निर्भरम् / 2 / केचित्कलकलायन्ते, केचिदुत्कृष्टनादिनः / काश्मीरचन्दनक्षोदैः, केचित्केलिपरायणाः // 3 // केचिद्रत्नानि वर्षन्ति, तथाऽन्ये हासपूर्वकम् / हरन्ति पूर्णपात्राणि, वल्गमानाः परस्परम् // 4 // तुष्टो नागरको लोको, वल्गन्ते कुब्जवामनाः / कृतो बाहवो नृत्ताः, सर्वेऽन्तःपुरपालकाः // 5 // एवं महाप्रमोदेन, प्रविश्य नगरं ततः। स्थित्वा राजकुले किश्चिद्वतोऽहं निजमन्दिरे // 6 // दिवसोचितकर्तव्यं, तत्र संपाद्य सर्वथा / अनेकाद्भुतविस्तारदर्शनप्रीतमानसः // 7 // समं कनकमञ्जर्या, रजन्यां शयने स्थितः / अथैवं चिन्तयामि स्म, महामोहवशंगतः // 8 // अहो वैश्वानरस्योच्चैः, प्रभावोऽयं महात्मनः। ममेयमीदृशी जाता, यतः कल्याणमालिका // 9 // आगतोऽहं तदुत्साहाजाता तेजस्विता परा / तोषितौ जनकौ लोके, लब्धा जयपताकिका // 10 // अहो प्रभावो हिंसाया, या विलोकनलीलया। करोत्येषा विशालाक्षी, मक्षु वैरिविमर्दनम् // 11 // नातः परतरं मन्ये, प्रभावे वृद्धिकारकम् / यथेयं मम हिंसेति, प्रत्यक्षफलदायिनी // 12 // ततो गाढतरं रक्तोऽहं वैश्वानरहिंसयोः। सिद्धान्तं हृदयेनैवं, स्थापयामि विशेषतः // 13 // एते मे परमौ बन्धू, एते परमदेवताः। एते एव हिते मन्ये, सर्वमत्र प्रतिष्ठितम् // 14 // एते यः श्लाघयेद्धन्यः, स मे बन्धुः स मे सुहृत् / एते यो द्वेष्टि मूढात्मा, स मे शत्रुन संशयः॥१५॥ न पुनस्तद्विजानामि, महामोहपरायणः / यथा पुण्योदयाज्जातं, ममेदं सर्वमञ्जसा // 16 // हिंसागैश्वानरासक्तः, पुण्योदयपराङ्मुखः। ततोऽहं धर्ममार्गस्य, दूराद् दुरतरं गतः // 17 // ततश्च-रात्रिशेषे समुत्थाय,, पापद्धौं बद्धमानसः / ताताम्बादीनदृष्द्वैव, गतोऽटव्यामहं ततः॥१८॥ अनेकसत्त्वसम्भारं, मारयित्वा गते दिने / सन्ध्यायां पुनरायातः, प्रविष्टो भवने निजे // 19 // अथासौ विदुरः प्रोक्तस्तातेनाकुलचेतसा / मत्समीपे कुमारोऽद्य, किं नायातो निरूपय ? // 20 // विदुरेणोक्तं प्रभातेऽहं स्मृत्वा मैत्री चिरन्तनीम् / दर्शनार्थ कुमारस्य, गतस्तस्यैव मन्दिरे // 21 // ततः परिजनेनोक्तं, यथाऽऽखेटककाम्यया / रात्रावेव गतोऽटव्यां, कुमारो नास्ति भो ! गृहे // 22 // ____ ततो मयाऽभिहितं-किमयैव कुमारो गतः पापर्दिबुद्धया किं वा प्रतिदिनं गच्छतीति ? परिजनः प्राह-भद्र ! यतःप्रभृतीयं हिंसा . परिणीता कुमारेण तत आरभ्य प्रतिदिनं गच्छति, नान्यथा धृतिं लभते, किं बहुना ? जीवितादपि वल्लभोऽयमधुना आखेटकः कुमारस्येति / मया चिन्तितं-अहो हता दैवेन वयं मन्दभाग्याः / तदिदमाभाणकमायातं यदुत यत्करभस्य पृष्ठे न माति तत्कण्ठे निबध्यत इति / तथाहि-वैश्वानरपापमित्रयोगेनैव कुमारस्य गाढमुद्वेजिता वयं यावतेयमपरा कृत्येवास्य भार्या संपन्नेति, तत्किं पुनरत्र विधेयमिति चिन्तयतो मे गतं दिनं, तदिदं कुमारस्य युष्मत्समीपेऽनागमनकारणमिति / तातेनाभिहित-विदुर ! महापापहेतुरिदं मृगयाव्यसनं, न च सेवितमस्मद्वंशजैनरपतिभिः, अतो यद्यस्य निमित्तभूतेयं भार्या कुमारस्यापसार्यते ततः सुन्दरं भवति / विदुरः प्राह-देव ! वैश्वानरवनिरुपक्रमेयं लक्ष्यते / अथवा श्रूयते पुनरप्यायातोऽत्र नगरे स जिनमतज्ञो नैमित्तिकः, ततः स एवाहूय प्रष्टुं युक्तो यदत्र कर्तव्यमिति / तातेनाभिहितं-आकारय तर्हि तं नैमित्तिकम् / विदुरेणोक्तं-यदाज्ञापयति देवः / जिनमतक्ष ततो निर्गतो विदुरः, समागतः स्तोकवेलायां गृहीत्वा जिनमतज्ञ, ततो विधाय तस्य प्रति __ पत्तिमाख्यातं तातेन प्रयोजनं, ततो निरुपितं बुद्धिनाडीसञ्चारतो नैमित्तिकेन / अभिहितं च यथा स्यागमः