________________ तस्माद्देवस्याज्ञापनमेव श्रेयः / प्रज्ञाकरः प्राह--साधु साधूपपद्यमानं मन्त्रितं बुद्धिशिालेन, मतिधन ! किमत्रान्येन विकल्पेन ?, प्रेष्यतां कुमाराहानाय प्रच्छन्न एव दूतः येन सर्वत्र शान्तिः संपद्यते / मतिधनेनाभिहितं-एवं भवतु / ततः सर्वरोचकेन प्रहितोऽहमिति / तदिदं दूतवचनमाकण्र्योल्छसितो वैश्वानरः, भविष्यति मम चारुतरोऽवसर इति प्रहसिता हिंसा / मयाऽभिहितं--अरे ! ताडयत प्रस्थानभेरि सज्जीकुरुत चतुरङ्गसेनां तथा कृतं नियुक्तैः। ततः सर्वबलेन चलितोऽहं, नाख्यातं कनकचूडकनकशेखरयोः, केवलं कनकमञ्जरीवत्सलतया प्रवृत्ता मणिमञ्जरी, ततोऽनवरतप्रयाणकैः प्राप्ता वयं जयस्थलासन्ने / अभिहितो मया वैश्वानरो यदुत वयस्य ! सततप्रवृत्ता ममाधुना तेजस्विता नापेक्षते वटकोपयोगं तकिमत्र कारणमिति ?, वैश्वानरेणाभिहितं-कुमार ! निष्कृत्रिमभक्तिग्राह्या वयं, अतुला च ममोपरि कुमारस्य भक्तिः, मवीर्यप्रभवाणि चैतानि क्रूरचित्तानि वटकानि भक्तिमतामेव पुंसां शरीरे प्रचरन्ति, तेन प्रचारितानि कुमारस्य शरीरे, गतानि तन्मयतां किंबहुना ?, मद्रूप एवाधुना वीर्येण कुमारो वर्तते / अन्यच्च-कुमार ! मदीयवचनानुभावादेवेयमपि हिसाऽधुना कुमारस्य प्रतिपन्ना सात्मीभावं, नात्र सन्देहो विधेयः। मयाऽभिहितं अद्यापि सन्देहः ? यवनराज- ततो यावदेतावानावयोजल्पः संपद्यते स्म तावदर्शनवीथिमवतीर्ण परबलं दृष्टमनेनास्मदनीक, स्य पराजयो ततस्तत्संनद्धमागतमभिमुखं, ततः संलग्नमायोधनम् / तच्च कीदृशम् ?मृतिश्च __ रथौघघर्घरारावं गजेन्द्रगजिंदारुणम् / महाश्वहेषितोडुरं, पदातिशब्दभीषणम् / / 1 // .. क्षणेन च तत्किंभूतं संपन्नम् ?-विदीर्णचक्रकूबरं, विभिन्नमत्तकुञ्जरम् / विनाथवाजिराजितं पतत्पदातिमस्तकम् / 2 / प्रजातसैन्यतानवं प्रनष्टदेवदानवम् / असिग्रहप्रवर्धक, प्रवृत्तसत्कबन्धकम् // 3 // ततोऽभिभूता यवनराजसेनयाऽस्मत्पताकिनी, समुल्लसितस्तद्धले कलकलः / ततो वलितो -ऽहमेककस्तदभिमुखं, समापतितो मया सह यो स्वयमेव यवनराजः रणरभसेन चातीव मिलितौ स्यन्दनौ / ततः स्थित्वाऽहं कूबराग्रे चरणं दत्त्वा पतितस्तत्स्यन्दने, त्रोटितं स्वहस्तेन यवनराजस्य मस्तकम् / ततः प्रादुर्भवत्तोषलसज्जयजयारवम् / अस्मब्दलं परावृत्य , समायातं मदन्तिकम् // 1 // अन्यच्च तदा-देवनदावगन्धर्वा, वर्णयन्तः पराक्रमम् / मम गन्धोदकं पुष्पैमिश्रं मुश्चन्ति मस्तके // 2 // ततश्च तत्परानीकं, क्षणेन हतनायकम् / जातं मे किङ्करं सर्वमाज्ञानिर्देशकारकम् // 3 // निर्गत्य नगरात्तातो, हर्षेण सह बन्धुभिः। समागतः समीपं मे, नगरं च सबालकम् // 4 // ततो रथादवतीर्य पतितोऽहं तातपादयोः, गृहीत्वांऽसदेशयोरुवीकृत्यानन्दोदकवर्षेण स्नपयता समालिङ्गितोऽहं तातेन चुम्बितो मुहुर्मुहुमूर्धदेशे / ततो दृष्टा मयाऽम्बा, कृतं तस्याः पादपतनं, म्बमेलोह समालिङ्गितोऽहमम्बया, चुम्बितो मस्तके, अभिहितश्चानन्दाश्रुपरिपूर्णलोचनया गद्दया गिरा यथा पंश्च नागराणां पुत्र ! वज्रशिलासम्पुटघटितमेतत्ते जनन्याः सम्बन्धि हतहृदयं यत्तवापि विरहे न शतधा विदीर्ण निःसारितानि च वयममुष्मागर्भवासादिव नगररोधकाद्भवता, अतो ममापि जीवितेन चिरं जीवेति / ततो लज्जितोऽहं स्थितो मनागधोमुखं, समारूढानि सर्वाण्यपि रथवरे / ततश्च-हृष्टा वैरिविमर्दैन, तुष्टा मत्सङ्गमेन च / ते राजलोकाः सर्वेऽपि, तदा किं किं न कुर्वते // 1 // प्रवेशः कुटुः समालिङ्गितोऽहं तातेन च