________________ तदेनं तातसहितः, शिक्षयामि तथा कृते / हिंसावैश्वानरौ हित्वा, स्यादेष गुणभाजनम् // 5 // ततः कृतो गृहीतार्थः कनकशेखरेण राजा / अन्यदा प्रविष्टोऽहं राजास्थाने, विहितप्रतिपत्तिनिविष्टोऽहं नरेन्द्रसमीपे, ततः श्लाधितोऽहं कनकचूडराजेन / कनकशेखरेणाभिहितं-तात ! एवंविध एवायं नन्दिवर्धनः स्वरूपेण, केवलमिदमेकमस्य विरूपकं यदेष सतां गर्हिते कुसंसर्गे वर्तते / नृपतिराह--कीदृशोऽस्य कुसंसर्गः ? कनकशेखरेणाभिहितं-अस्त्यस्य स्वरूपोपतापहेतुः सर्वानर्थकारणं वैश्वानरो नाम बालवयस्यः, तथा विद्यतेऽस्य श्रूयमाणापि जगतस्त्रासकारिणी महापापहेतुर्हिसा नाम भार्या, ताभ्यां च युक्तस्यास्येक्षुकुसुमस्येव निष्फलेव शेषगुणधवलता। नृपतिराह-यद्येवं ततस्तयो पपियोस्त्याग एव श्रेयान् नाश्रयणम् / तथाहि-वयस्यः स विधातव्यो, नरेण हितमिच्छता / इहामुत्र च यः श्रेयान्, न लोकद्वयनाशकः // 1 // तथा-सा भार्या विदुषा कार्या, या लोकाहादकारिका / धर्मसाधनहेतुश्च, न पुनदुष्टचेष्टिता // 2 // एवं च वदतोस्तयोर्बचनेन सततं ज्वलमानोऽपि वहिरिव सर्पिषा गाढतरं प्रज्वलितोऽहं, ततो मया व्याधुनितमुत्तमाझं आस्फोटितं करतलेन भूमिपृष्ठं विमुक्तः प्रलयनिर्घाताकारो हुङ्कारः आलोकितमुग्रचलत्तारिकया दृष्टया तयोरभिमुखं, अभिहितश्च राजा-अरे मृतक ! मदीयजीवितं वैश्वानरं हिंसां च पापतया कल्पयसि, न लक्षयसि कस्य प्रसादात्त्वयेदं राज्यं समासादितं, किं तर्हि ? मदीयवैश्वानरमन्तरेण भवतः पित्राऽपि ससमरसेनो द्रुमोवा निहन्तुं शक्येत ? कनकशेखरः पुनरेवमभिहित:अरे वृषल ! कि मत्तोऽपि पण्डिततरस्त्वमसि ? येनैवं मां शिक्षयसि, ततस्तदवलोक्याकर्ण्य च मदीयवचनं विस्मितोऽसौ राजा, कृतं कनकशेखरेण स्मेरं मुखम् / मया चिन्तितं--अये ! नैतौ मां गणयतः, ततः समाकृष्टा चमत्कुर्वाणा क्षुरिका / अभिहितं च--अरे गेहेनर्दिनौ ! दर्शयामि भवतोः स्वकीयवैश्वानरवीर्य, प्रहरणहस्तौ भवतः ततः समुत्खातक्षुरिकं ललमानजिवं यममिव मामवलोक्य दूरीभूतं राजकं न चलितौ राजकनकशेखरौ / ततः सन्निहिततया पुण्योदयस्य महाप्रतापतया राजकनकशेखरयोर्भवितव्यतावशेन चादत्त्वैव प्रहारं निर्गतोऽहमास्थानाद् गतः स्वभवनं, ततःप्रभृत्यपकर्णितोऽहं कनकचूडकनकशेखराभ्यां, मयाऽपि दृष्टौ तौ शत्रुरूपौ, विच्छिन्नः परस्परं लोकव्यवहारोऽपीति / __ अन्यदा समागतो जयस्थलादारुको नाम दृतः, प्रत्यभिज्ञातो मया, निवेदितमनेन यथा-- कुमार ! महत्तमैः प्रहितोऽहम् / मया चिन्तितं--अये ! किमिति महत्तमैः प्रहितोऽयं, न पुनस्तातेन? ततो जाताशङ्केन पृष्टोऽसौ मया--अपि कुशलं तातस्य ?, दारुकः प्राह--कुशलं, केवलमस्ति वङ्गाधिपतिर्यवनो नाम राजा, तेन चागत्य महावलतया समन्तानिरुद्धं नगरं, स्वीकृतो बहिर्विषयः, दापितानि स्थानकानि, भनः पर्याहारः, न चास्ति कश्चित्तनिराकरणोपायः। ततः क्षीरसागरगम्भीरहृदयोऽपि मनागाकुलीभूतो देवः विषण्णा मन्त्रिणः उन्मनीभूता महत्तमाः त्रस्ता नागरका किं बहुना ? न जाने किमत्र भविष्यतीति वितर्केण संजातं सर्वमपि देवशरणं तनगरं, ततो मन्त्रिमहत्तमैः कृतपर्यालोचः स्थापितः सिद्धान्तो यदुत नन्दिवर्धनकुमार एव यदि परमेनं यवनहतकमुत्सादयति, नापरः पुरुष इति / ततो मतिधनेनाभिहितं--ज्ञाप्यतामिदमेवंस्थितमेव देवाय / बुद्धिविशालेनाभिहितं--नैवेदं देवाय ज्ञापनीयम् / मतिधनः प्राह--कोऽत्र दोषः ?, बुद्धिविशालेनाभिहितं--मुतवत्सलतया देवस्य कदाचिदेवंविधसङ्कटे नन्दिवर्धनागमनं न प्रतिभासते,