________________ वैश्वानरहिसयोरनुमो गुरवः, विधापिता हट्टशोभाः, शोधिता राजमार्गाः, पूरितः प्रणयिवर्गः, गीतमम्बाजनैः, नृत्तमन्तःपुरैः विलसित राजवल्लभैः / ततो महता विमर्दैन प्राप्तोऽहं राजभवनं, प्रयुक्ता मुसलताडनादयः कुलाचारा प्रविष्टोऽहं वधूगृहके / तत्र चामरवधूरप्युपहसन्ती रूपातिशयेन, रतिमपि विशेषयन्ती मदनहरविलासैः, ईपल्लम्बाधरा चक्रवाकमिथुनविभ्रमेण स्तनकलशयुगलेन सुनिविष्टनासिकावंशा रक्ताशोककिसलयाकाराभ्यां कराभ्यां कोकनदपत्रनेत्रा करिकराकारघरेणोरुदण्डद्वयेन विस्तीर्णनितम्वबिम्बा त्रिवलीतरङ्गभङ्गुरेण मध्यभागेन कृष्णस्निग्धकुटिलकेशा स्थलकमलयुगलानुकारिणा चरणद्वयेन कुण्डमिव मदनरसस्य राशिखि सुखानां निधानमिव रतेः आकरो रूपानन्दरत्नानां मुनीनामपि मनोहारिणीमवस्थामनुभवन्ती महामोहतिरोहितविवेकलोचनेन मया दृष्टा कनकमञ्जरी हृष्टचेतसा पुलकितशरीरेण, कृतं प्रधानसांवत्सरवचनेन पाणिग्रहणं, भ्रान्तानि मण्डलानि, प्रयुक्ता आचाराः, विहिता लोकोपचाराः, वृत्तो महता विमर्देन विवाहयज्ञः / प्रविष्ठोऽहमपहसितसुरभवने कनकमञ्जरीसनाचे वासभवने / अवगाहितः सुरतामृतसागरः / एवं च प्रवर्धमानानुरागयोरावयोर्गतानि कतिचिदिनानि / इतश्च विभाकरस्य कृतं व्रणकर्म, प्रगुणीभूतः शरीरेण, जातो मया सहास्य स्नेहभावः, समुत्पनो विश्रम्भः / अन्यदा विधाय बहुमानं प्रहितः सपरिकरोऽसौ स्वस्थाने कनकचूडराजेन, येऽपि तेऽम्बरीपनामानश्चरटा वीरसेनप्रभृतयो हते प्रवरसेने प्रतिपन्नभृत्यभावा मया सह पूर्वमागताः तेऽपि कृतसन्माना मया विसर्जिता गताः स्वस्थाने / ततोऽहं विगतचिन्तासन्तापस्ताभ्यां रत्नवतीकनकमञ्जरीभ्यामानन्दमहोदधिमवगाहमानः स्थितस्तत्रैव कियन्तमपि कालं, अस्यापि च व्यतिकरस्य परमार्थतः स एव पुण्योदयः कारणं, मम तु महामोहवशेन तदा प्रतिष्ठितं हृदये यदुत अहो हिंसावैश्वानरयोः प्रभावातिशयः / अनयोहि माहात्म्येन मयेयं निरुपमानन्दामृतरसकूपिका कनकमजरी लब्धेति, यतः कथितं तेतलेः कपिजलया कनकचूडराजादाकर्णितं मणिमब्जरीवचनं यथा-यतोऽनेन नन्दिवर्धनकुमारेण महाबलावपि द्रुमसमरसेनौ लीलया विनिपातितौ तस्मादस्मै युक्तेयं दातुं कनकमजरीति / तौ च द्रुमसमरसेनौ मया हिंसावैश्वानरप्रभावादेव विनिपातितौ, तस्मात्परमार्थतो हिंसावैश्वानराभ्यामेव ममेयं कनकमञ्जरी संपादितेति / ततो जातं मे गाढतरं हिंसावैश्वानरस्नेहप्रतिबद्धमन्तःकरणं, ततो वैश्वानरवचनेन तैः क्रूरचित्ताभिधानैर्बटकैः प्रतिदिनमुपयुज्यमानैर्जनितं चण्डत्वं, संपादितमसहनत्वं, विहिता रौद्रता, निर्वतितो भासुररौद्रभावः, गताऽङ्गाङ्गीभावं क्रूरता, जातोऽहं स्वरूपं तिरोधाय साक्षादिव वैश्वानरः ततो नापेक्षे वटकोपयोगं, किं तर्हि ? सततप्रज्वलितोऽहमाक्रोशामि हितभाषिणं, ताडयामि निष्कारणमेव परिजनम् / हिंसया तु पुनः पुनराश्लिष्यमाणस्य मे संजातमाखेटकव्यसनं, ततः प्रतिदिनं निपातयामि स्माहमनेकजन्तुसंघातं, दृष्टं तन्मदीयचेष्टितं कनकशेखरेण / चिन्तितमनेन--अहो किमिदमी. दृशमस्यासमञ्जसं चरितम् ? तथाहि-रूपवान् कुलजः शूरः, कृतविद्यो महारथः / तथाप्ययं ममाभाति, न किञ्चिन्नन्दिवर्धनः // 1 // यतोऽसौ हिंसयाऽऽश्लिष्टो, युक्तो वैश्वानरेण च / परोपतापनिरतो धर्माद्दूरेण वर्तते // 2 // अतो नोपेक्षितुं युक्तो, ममायं हितकारिणः / वचने यदि वर्तेत, स्यादस्मै हितमुत्तमम् // 3 // केवलस्य च मे वाक्यं, कदाचिन्न करोत्ययम् / ताताभ्यर्णे पुनः प्रोक्तः, कुर्यात्तत्तातलज्जया // 4 // कनकरा जाधुपक्रमः