________________ मुञ्च न कार्यमनेन जनेन जनस्येति वदन्ती मदीयभुजमध्यावहिर्मुखं निष्पतितुमारब्धा / ततो निवेशिता मया ललितकोमले दुर्वाविताने, निषण्णः स्वयमभ्यर्ण एव तदभिमुखः / ततोऽ भिहितं मया-सुन्दरि ! मुश्च लज्जां, परित्यज कोपं, न खल्वाज्ञाकारी किङ्करजनोऽयं कोपस्य गोचरो भवितुमर्हति / एवं च वदति मयि सा कनकमञ्जरी किश्चिद्वक्तुकामापि न वक्तुं शक्नुवती केवलं विलसद्दशनकिरणरन्जिताधरबिम्बा कपोलमूलस्फुरितसूचितान्तःस्मिता वामचरणागुष्ठेन भूतलं लिखन्ती स्थितेषदधोमुखी / मयाभिहितं-अलमत्र सुन्दरि ! विकल्पितेन / यतः--हृदयाजीवितादेहात्सकाशादतिवल्लभा / नाथोऽत्र त्वां विहायान्यो, नास्ति मे भुवनत्रये // 1 // अद्यप्रभृति निर्मिथ्यं, तव पद्मविलोचने ! / क्रीतः सद्भावमूल्येन, दासोऽहं पादधावकः // 2 // कठोरहृदयो नाहं, कठोरोऽत्र विधिः परम् / यो मे दर्शनविच्छेद, कुर्यात्ते वक्रपङ्कजे // 3 // एतच्च मामकं वाक्यमाकर्ण्य प्रीतमानसा / मया निरीक्षिता बाला, भजन्ती सा रसान्तरम् // 4 // कथम्-क्षणेनामृतसित्तेव, क्षिप्तेव सुखसागरे / प्राप्तराज्याभिषेकेव, तोषादन्येव सा स्थिता // 5 // - इतश्च मामन्विष्यमाणा नानास्थानेषु पर्यटन्ती प्राप्ता तमुद्देशं कपिञ्जला दृष्टस्तेतलिः। अभिहितमनया-स्वागतं वयस्य !, क पुन कुमार इति / तेतलिनाऽभिहितं अत्र तरुलतागहने प्रविष्टः, ततश्चलिते द्वे अपि ते अस्मदभिमुखं दृष्टमावयोमिथुनं संजातो हर्षातिरेकः / कपिजलयाऽभिहितंनमस्तस्मै भगवते देवाय येनेदं युगलमत्यन्तमनुरूपं संयोजितम् / तेतलिः आह-कपिजले / नूनं रतिमन्मथयोरिवानयोर्योगेनेदमुद्यानमद्यैव यथार्थ संपन्न, इतरथा व्यर्थकमेवास्य रतिमन्मथमित्यभिधानं पूर्वमासीत् , ततोऽस्मन्निकटदेशे प्राप्ते तेतलिकपिजले समुत्थिता ससंभ्रमेण कनकमजरी / कपिजलयाऽभिहितं--वत्से ! निषीदालं संभ्रमेण, ततोऽमृतपुजक इव तत्र दूर्वाविताने निषण्णानि स्नेहनिर्भरसहासविश्रम्भजल्पैः / स्थितानि वयं कियन्तमपि क्षणम् / . अत्रान्तरे समागतो योगन्धरो नाम कन्यान्तःपुरकञ्चकी, तेन च विधाय मम प्रणामं सत्वरमाहूता कनकमब्जरी / कपिजलयाऽभिहितं-भद्र ! किमितीदमाकारणं? योगन्धरः प्राह--श्रुतेयमपटुशरीरा रात्रौ देवेन, ततः प्रभाते स्वयमेव गवेषिता स्वस्थाने न चोपलब्धा, ततः पर्याकुलीभूतो देवः समादिष्टोऽहमनेन यथा यतः कुतश्चिद्वत्सां गृहीत्वा शीघ्रमागच्छेति, तदिदमाहानकारणम् / ततस्तदाकालकनीयवचनस्तात इति मन्यमाना मुहुर्मुहुर्मा वलिततारं विलोकयन्ती सालस्यं प्रस्थिता सह कपिजलया कनकमजरी क्रमेणातिक्रान्ता दृष्टिगोचरात् / तेतलिनाऽभिहित-देव ! किमिदानीमिह स्थितेन ? ततोऽहं 'तदेव कृतककोपं वदनं तदेव मुश्च मुश्च कठोरहृदय ! मुञ्चेति वचनं तच्च विलसद्दशनकिरणरञ्जितमधरबिम्बं तदेव च हर्षातिरेकसूचकममलकपोलविस्फुरितं तच्च सद्भावसमपर्क सलज्ज चरणाङ्गुष्ठेन भूमिलेखनं तदेव चाभिलाषातिरेकसन्दर्शकं तिरश्चीनेक्षणनिरीक्षणं तस्याः कनकमजाः सम्बन्धि तीव्रतरमदनदाहज्वरप्रवर्धकमपि प्रकृत्या महामोहवशेन तदुपशमार्थममृतबुद्धया स्वचेतसि पुनः पुनश्वारयन् प्राप्तः स्वभवनं, कृतं दिवसोचितं कर्तव्यम् / / ____ अपराह्ने समायाता कन्दलिका / तयाऽभिहितं-कुमार ! देवः समादिशति यथा निरूपितं मया सांवत्सरैर्विवाहदिनं अद्यैव गोधूल्यां शुध्यतीति / तदाकर्ण्य निमग्न इवाहं रतिसमुद्रे, दापितं कन्दलिकायै पारितोषिकं, स्तोकवेलायां समायाता गृहीतकनककलशा वारनार्यः, निर्बर्तितं मे स्नपनकं विहितानि कौतुकानि, ततो दापितानि महादानानि मोचितानि बन्धनानि, पूजिता नगरदेवताः, सन्मानिता योगन्धरकञ्जक्या- गोधूल्या लन