________________ नन्दिवर्धनाय विमलेनाख्यान रतिमन्मथे संबन्धः भिहितं-आर्य ! प्राणप्रदेऽपि सद्वैद्य किं किश्चिदनुचितमस्ति ? तन कर्तव्योऽत्र भवता संक्षोमा, त्वं ममेदानीं जीवितादव्यतिरिक्तो वर्तसे / अत्रान्तरे समागतो द्वारि विमलो नाम महाराजमहत्तमो निवेदितो मे प्रतिहार्या, स्थितः पृथगासने तेतलिः, प्रविष्टो महत्तमः, कृतोचिता प्रतिपत्तिः। अभिहितमनेन-कुमार ! देवेन प्रहितो युष्मत्समीपेऽनेनार्थेन यथा अस्ति मम जीवितादपीष्टतमा कनकमञ्जरी नाम दुहिता, सा ममोपरोधात् कुमारेण स्वयं पाणिग्रहणेनाहादनीया / ततो निरीक्षितं मया तेतलिवदनम् / तेनाभिहितं-देवानुवर्तनीयो महाराजो देवस्य, अतो मान्यतामियं तस्य प्रथमप्रणयप्रार्थना / मयाऽ. भिहितं-तेतले ! त्वमत्र प्रमाणम् / विमलः प्राह-कुमार ! महाप्रसादः, ततो निर्गतो विमलः / तेतलिनाऽभिहितं-देव ! गम्यतामिदानीं तत्र रतिमन्मथे कानने, मा उन्मनीभूत्सा राजदुहिता अलं कालहरणेन, मयाभिहितमेवं भवतु / ततस्तेतलिसहाय एव गतोऽहं तत्रोद्याने, दृष्ट तदपहसितनन्दनवनं काननं, ततश्चम्पकवीथिकासु कदलीगुपिलेषु, अतिमुक्तकलतावितानेषु केतकीपण्डेषु मृद्विकामंडपेषु अशोकवनेषु, लवलीगहनेषु, नागवल्ल्यारामेषु, नलिनसरोवरोपान्तेषु विचरितमितश्चेतय भूयो भूयः कनकमजरीदर्शनलोलुपतया न च दृष्टा सा कुरङ्गलोचना / ततो मया चिन्तितं ? हन्त ! प्रतारितोऽहमनेन तेतलिना, विमलव्यतिकरोऽपि नूनं तेतलेरेव मायाप्रपश्चः, कुतस्तदर्शनसम्पादकानि भाग्यानि मादृशां ? अत्रान्तरे श्रुतो मया तरुलतागहनमध्ये कलनूपुरध्वनिः / ततोऽपसृत्य तेतलिसमीपानिरूपितं तद्गहनं मया, दृष्टा च तमालतरोरधस्ताद्वर्तमाना स्वर्गात्परिभ्रष्टेवा. मराङ्गना स्वभवनानिष्कासितेव नागकन्यका रतिरिव मदनविरहकातरा सशोका कनकमञ्चरी. विलो. कितमनया तरलतारया दृष्टया दिक्चक्रवालं, न दृष्टः कोऽपि सत्त्वः / ततोऽभिहितं तया, हे भगवत्यो वनदेवताः ! प्रतीतमेवेदं भवतीनां यत्किल प्रतिपनं तेतलिना तस्य जनस्यानयनं दत्तोऽ रतिमन्मथे कानने सङ्केत इत्युपप्रलोभ्याहमिहानीता तया जरन्मार्जार्या / अधना किलासौ जनो दृश्यत इति तं गवेषयामीत्यभिधाय मामेकाकिनी विमुच्य सा न जाने कुत्रचिद्गता ? तदें प्रता रिताऽहमिन्द्रजालरचनाचतुरया कपिञ्जलया, तदलं मे जीवितेन प्रियविरहानलदग्धाया आप्तजनेनारि वञ्चिताया मन्दभाग्यायाः, केवलं प्रसादाद्भगवतीनां जन्मान्तरेऽपि स एव जनो भर्ता भूयादिति वदन्त्या वल्मीकमारुह्य निबद्धस्तमालतरुशाखायां पाशकः, निर्मिता तत्र शिरोधरा प्रवृत्ता मोक्र शरीरम् / अत्रान्तरे सुन्दरि ! मा साहसं मा साहसमितिब्रुवाणः प्राप्तोऽहं वेगेन, धृतं वामभुजेना श्लिष्य मध्यदेशे निपतच्छरीरकं, छिनो दक्षिणकरेणासिपुत्रिकया पाशकः .आश्वासिता पवनदानेन अभिहिता च-देवि ! किमिदमसमञ्जसमारब्धं ? ननु स्वाधीनोऽयं जनस्ते वर्तते, तन्मुश्च विषा ततः सा तथैव स्थिता घूर्णमानविलोलविलोचना मां निरीक्षमाणा, तत्क्षणमने करससंभारगर्भनिर्भ सुपरिस्फुटं मदनचिहं योगिनामपि वाग्गोचरातीतं स्वरूपं धारयन्ती मया विलोकिता / कथं / एकाकिनीतिभीता, स एवायमिति सहर्षा, कुत इति साशङ्का, स्वरूपोऽयमिति ससाध्वसा, स्वयमाग तेतिसलज्जा, विजने प्राप्तेति दिक्षु निक्षिप्ततरलतारिका, दत्तसङ्केतेति विश्वस्ता, दृष्टमिदमनेन मदी यमाचरणमिति सवैलक्ष्या, लक्ष्मीरिख क्षीरोदमन्थनोत्थितगात्रा विशदस्वेदजलप्लावितदेहतया, कद म्बकुसुममालिकेव परिस्फुटपुलकोद्भेदसुन्दरतया, पवनप्रेरिततरुमञ्जरीव प्रकम्पमानसर्वाङ्गतया, आन न्दसागरमवगाहमाना स्तिमितनिष्पन्दमन्दलोचनतया ततः साऽनभिव्यक्तैरक्षरैर्मुश्च मुश्च कठोरहृदर