________________ किमा वाचा नन्दिनाय गृहीतः शब्दार्थः ? सा प्राह—बादं गृहीतः। मयाऽभिहितं-यद्येवं ततः सिद्धमेव वत्सायाः कनकमजर्याः समीहितं स्पन्दते च मम वामलोचनं अतो नात्र सन्देहो विधेयः। मलयमजरी प्राहकोऽद्यापि सन्देहः ? सिध्यत्येवेदम् / अत्रान्तरे कनकमजर्या एव ज्येष्ठा भगिनी मणिमन्जरी नाम, सा समारुह्य हर्म्यतलं सहर्षा निषण्णाऽस्मत्समीपे / मयाऽभिहितं-वत्से ! मणिमञ्जरि ! निर्दुःखसुखतया कठोरा त्वमसि / सा प्राह-कथं ? मयोक्तं-या त्वमेवमस्मासु विषादवतीषु सहर्षा दृश्यसे / मणिमब्जर्याऽभिहितं-अथ किं क्रियतां ? न शक्यते गोपयितुं महन्मे हर्षकारगम् / मयोक्तं-आख्याहि वत्से ! कीदृशमिति / मणिमञ्जयॊक्तं-गताऽहमासं तातसमीपे निवेशिता तातेन निजोत्सङ्गे, तदा च तातस्य कनकशेखरः पार्श्ववर्ती वर्तते / ततस्तं प्रति तातेनाभिहितं पुत्र ! येनानेन नन्दिवर्धनेन महाबलावपि तौ समरसेनद्रुमौ लीलया विनिपातितौ, स नैप सामान्यः पुरुषः न चास्य सुकृतस्य वयं जीवितदानेनापि निष्क्रयं गच्छामः तदिदमत्र प्राप्तकालं जीवितादपि वल्लभतरे ममैते मणिमञ्जरीकनकमञ्जयौं, दत्ता चेयं पूर्वमेवास्यैव महत्तमसहोदराय शीलवर्धनाय, इयं तु कनकमञ्जरी साम्प्रतमस्मै नन्दिवर्द्धनाय दीयतामिति / कनकशेखरेणोक्तं-चार मन्त्रितं तातेन, तात एवोचितं जानीते, ततो दातव्यैवेति स्थापितस्ताभ्यां सिद्धान्तः, समुत्थिताऽहं तातोत्सङ्गात् प्रवृत्ता चेहागन्तुं चिन्तितं च मया अहो मे धन्या अहो मे अनुकूलता देवस्य, अहो सुपर्यालोचितकारिता तातस्य अहो विनयः कनकशेखरस्य, भविष्यत्येवं प्रियभगिन्या सह मम यावज्जीवमवियोगः ललिष्यावहे नानाविधम् / एवं च चिन्तयन्त्या ममाविभतः स्फटबहिलिडो हर्षः तदिदं मे हर्षकारणमिति / मलयमञ्जर्याभिहितं--कपिञ्जले ! पश्य कालहीनो निमित्तस्य संवादः / मयोक्तं किमाश्चर्य ?, यतो दैवीयमुत्पातुका भाषा भवति, केवलं वत्से ! कनकमञ्जरि ! मुश्चेदानीं विषादं, अवलम्बस्व धैर्य, सिद्धमधुना नः समीहितं, व्यपगतं भवत्या दाहज्वरकारणं प्रतिपादिताऽसि देवेन हृदयनन्दनाय नन्दिवर्धनाय / ततः संजाताश्वासाऽपि हृदये कुटिलशीलतया मदनस्य विधाय ममाभिमुखं विषमभृकुटि कनकमञ्जर्याऽभिहितं आः भवतु मातः ! किमेवमलीकवचनी प्रतारयसे शिरोऽपि ममाधुना स्फुटति भनमनेनासंबद्धप्रलापेन / मलयमञ्जर्याभिहितं-वत्से ! मा मैवं वोचः सत्यमेवेदं नान्यथा वत्सया संभावनीयं, ततः कुतो ममेयन्ति भाग्यानीति शनैर्वदन्ती स्थिताधोमुखी कनकमञ्जरी / ततस्तां निजपतिभक्तस्त्रीकथानिकाकथनव्याजेन विनोदयन्तीभिरस्माभिरतिवाहिता रजनी, न चाधाप्युपशाम्यति तस्याः परिदहनम् / मया चिन्तितं यावत्क्रमेण संपत्स्यते नन्दिवर्धनदर्शनं तावन्मरिष्यतीय राजदुहिता, अतः पश्यामि तावत्तेतलिं वल्लभोऽसौ कुमारस्य शक्नोति तं विज्ञापयितुं कदाचित्ततः संपद्यतेऽस्याः परित्राणमद्यैव कुमारदर्शनेनेतिविचिन्त्य समागताऽहं त्वत्समीपे, तदिदं निमित्तमासाद्य तस्यां प्रभवति मीनकेतन इत्येतदाकर्ण्य वयस्यः प्रमाणम् / मयाऽभिहितं यद्येवं ततो यद्यपि वश्येन्द्रियो देवो महासत्त्वतया च तृणमिव स्त्रैणमाकलयति तथाप्येवं विज्ञपयामि यथाऽभ्युद्धरति निजदर्शनेन राजदुहितरं, केवलं रतिमन्मथे कानने भवतीभिःस्थातव्यं ततो महाप्रसादोऽनुगृहीताऽस्मीति वदन्ती पतिता मच्चरणयोः कपिञ्जला गता स्वभवनं अहमपीहागतः / तदिदं देव ! मया भवद्गदभेषजमवाप्तम् / मयाऽभिहितं-साधु तेतले ! साधु त्वमेव वक्तुं जानीये, ततः समारोपितस्य वक्षःस्थले मयाऽऽत्मीयो हारः, परिहिता भुजयोः कटककेयूरादयः / तेतलिः प्राह-देवात्र तुच्छकिङ्करजने देवकीयोऽयमतिप्रसादोऽनुचित इवाभासते / मयाऽ