________________ रम्भः हट्टमार्गे, प्रविष्टेषु गता स्वामिनी भवनं, आरूढा चोपरितनभूमिकायां, तत्र च वातायने वर्तमाना राजमार्गाभिमुखनिःसारितवदनकमलानिष्पन्दमन्दस्तिमितशून्यदृष्टिका चित्रविन्यस्तेव शैलघटितेव निष्पन्नयोगेव परमयोगिनी व्युपरताशेषाङ्गप्रत्यङ्गचलनचेष्टा दृष्टा मया कनकमञ्जरी / ततो हा किमेतदितिविचिन्त्य ससम्भ्रमं पुत्रि ! कनकमञ्जरीति पुनः पुनस्तामहमाहूतवती न च दत्तं मे मन्दभाग्यायास्तया प्रत्युत्तरम् / इतश्च तस्मिन्नवसरे तत्रासीत्कन्दलिका नाम दासदारिका, ततस्तां प्रति मयाऽभिहितभद्रे कन्दलिके ! केन पुन हेतुना वत्सायाः कनकमञ्जर्या इयमेवंविधाऽवस्था संजातेति ? कन्दलिकयाऽ भिहितं--अम्ब ! न सम्यग् लक्षयामि, केवलं यतः प्रभृति राजमार्गेऽवती! नन्दिवर्धनकुमारः, पतितो दृष्टिगोचरे भर्तृदारिकायाः, तत आरभ्येयं प्रमुदितेव लब्धरत्नेव, अमृतसिक्तेव, महाभ्युदयप्राप्तेव अनाख्येयं किमपि रसान्तरमनुभवन्ती मया दृष्टाऽसीत् / यदा त्वतीतोऽसौ दृष्टिगोचरात् तदेयमीदृशीमवस्थां प्राप्तेति / ततस्तदाकर्ण्य मरिष्यतीयमकृतप्रतीकारेति संचिन्त्य शोकविहलतया विहितो मया हाहारवः। कनकमञ्जर्या तदाकर्णनेन समागता मलयमञ्जरी, ततः सापि किमेतत्कपिञ्जले ! किमेतदिति * वदन्ती उपचारा- निरीक्ष्य कनकमञ्जरी विलपितुमारब्धा / ततो बृहत्तमतया दोहलस्य, जननीवल्लभतया हृदयस्य, स्वभ्यस्ततया विनयस्य मनाक संजातचेतना संपन्ना कनकमञ्जरी मोटितमनया शरीरकं प्रवृत्ता जृम्भितुं, ततस्तां स्वकीयोत्सङ्गे निधाय मलयमञ्जर्याऽभिहितं--वत्से ! कनकमञ्जरि ! किं ते शरीरके बाधते ?, कनकमञ्जर्याऽभिहित-अम्ब ! नाहमन्यत्किञ्चिल्लक्षयामि केवलं दाहज्वरो मे शरीरं बाधते, ततो यावदाकुला वयं कुर्मस्तस्याः शरीरस्य मलयजरसेन सेचन प्रेरयामः कर्पूरजलबिन्दुवर्षाणि तालवृन्तानि प्रयच्छामोऽङ्गे हिमसेकशीतला जलार्द्राः( काषायीः )समर्पयामो मुहुर्मुहुः कर्पूरपूरितानि नागवल्लीदलवीटकानि समाचरामोऽन्यामप्यनेकाकारां शीतक्रियां तावद्गतोऽस्तं वासरेश्वरः समुद्गतो निशीथिनीनाथः परिप्लावितं विमलचन्द्रिकया नभस्तलम् / ततो मयाऽभिहिता मलयमञ्जरी -स्वामिनि ! सघर्ममिदं स्थानं अतः प्रकाशे निःसार्यतां राजदुहिता। तयाऽभिहितं--एवं क्रियतां, ततो हिमगिरिविशालशिलाविभ्रमे सुधाधवलप्रकाशहर्म्यतले कथश्चिद्धार्यमाणा नीता कनकमअरी, विरचितं तत्रातिशीतलनलिनीदलपल्लवशयनीय, तत्र तां निवेश्य विहितानि भुजयुगले मृणालनालवलयानि स्थापितो वक्षस्स्थले सिन्दुवारहारः, समुपनीताः स्पर्शनार्थ प्रक्षेपमात्रेण महासरोवरस्यापि स्त्यानभवसम्पादकाः शीतवीर्या महामणयः, लगति च तत्र प्रदेशे स्वत एव बलिनामपि रोमहर्षदन्तवीणासञ्जननो गन्धवाहनः / ततो मलयमञ्जर्याऽभिहितं--वत्से ! कनकमजरि ! किमपगताऽधुना भवत्या दाहज्वरबाधा / कनकमञ्जरी प्राह-नहि नहि अम्ब ! प्रत्युताधुना मम मतिः यदुत अनन्तगुणा सा वर्तते, यतः प्रज्वलितखादिराङ्गारपुजायते मां प्रत्येष शशधरहतकः, ज्वालाकलापायते चन्द्रिका, विस्फुलिङ्गायते तारकानिकरः, दहति मामेष नलिनीदलस्रस्तरः, प्लोषयन्ति सिन्दुवारहारादयः, किं बहुना ? हतशरीरकमपि मेऽधुना पापाया दाहात्मकतया वह्निपिण्डायते / ततो दीर्घ निःश्वस्य मलयमजर्याभिहितं-भद्रे कपिजले ! जानासि वत्सायाः किं पुनरीदृशदाहज्वरकारणं ? मया तु कर्णे स्थित्वा निवेदितं तस्यास्तत्कन्दलिकावचनम् / मलयमब्जर्याभिहितं यद्येवं ततः किं पुनरत्र प्राप्तकालं ? अत्रान्तरे समुत्थितो राजमार्गे शब्दो यदुत सिद्धमेवेदं प्रयोजनं, केवलं वेलाऽत्र विलम्बते / ततः सहर्षया मयाऽभिहितं-स्वामिनि !