________________ देवः ततस्त्वं ज्ञाता बुद्धा तिष्ठसि यदि च देवस्य शरीरे मनागपि स्खलितं भविष्यति ततो नास्ति मे(ते) जीवितमिति / एवं ! क्रियमाणे देव ! नियमादुपशाम्यत्येष चक्षुर्दोषः, तदिदमस्य भेषजं विज्ञातमिति / ततो विहस्य मयाऽभिहितं-भद्र तेतले ! पर्याप्त परिहासेन, निवेद्यतां यद्यवधारितः कश्चिद्भवता निश्चित(तो) मद्दुःखविगमोपायः ? तेतलिः प्राह-देव ! किमलब्धदेवदुःखप्रतीकारा एव देवपादोपजीविनः कदाचिदपि देवस्य पुरतः सोद्वेगे सति देवे सहर्ष जल्पितुमुत्सहन्ते ? तस्मान्मा कुरुत विषादं सिद्धमेव देवसमीहितं, मया हि देवोद्वेगनिरासार्थमेवैष परिहासो विहितः / मयाऽभिहितं-वर्णय तर्हि कथं सिद्धमस्मत्समीहितम् ? तेतलिः प्राह-देव ! विज्ञापितमिदमादावेव मया यथा मम प्रत्युषस्येव देवसमीपमागच्छतो बृहत्तमं प्रयोजनान्तरमापतितं तेन लवितो ममायं दिनार्धप्रहर इति / तद्देवसमीहितसिद्धयर्थमेव प्रयोजनान्तरं, कथमन्यथा बृहत्तमत्वमस्योपपद्येत ? यतोऽस्ति मम परिचिता मलयमञ्जरीसम्बन्धिनी कपिञ्जला नाम वृद्धगणिका, सा मम शयनादुत्तिष्ठतः पुरतः प्रविश्य मद्भवने वयस्य ! त्रायध्वं त्रायध्वमिति महता शब्देन पूत्कृतवती / ततोऽनुपलब्धभयकारणेन मयाऽभिहित-भद्रे कपिजले ! कुतस्ते भयं ? तयाऽभिहितं--मीनकेतनादिति / मयाऽभिहितं-कपिजले ! अश्रद्धेयमिदं, यतोऽहमेवं तर्कयामि यदुत कुङ्कमरागपिङ्गलपलितचिताज्वालावलीभासुरं कटकटायमानास्थिपञ्जरशिवाशब्दभैरवं संकुचितवलीतिलकजालपिच्छलतातिभीषणं उल्लम्बितशवाकारलम्बमानातिस्थूलस्तनभयानक अतिरौद्रमहाश्मशानविभ्रमं त्वदीयशरीरमिदमुपलभ्य नूनं कामः कातरनर इवाराटीदत्त्वा दूरतः प्रपलायते ततः कुतस्ते भयमिति ? कपिजलयाऽभिहितं- अये ! अलीकदुर्विदग्ध ! न लक्षितस्त्वया मदीयोऽभिप्रायः तेनैवं ब्रवीषि, अतः समाकर्णय यथा मे मदनाद्भयमिति / मयाऽभिहितं-तर्हि निवेदयतु भवती / साप्राह-अस्ति तावद्विदितैव भवतो मलयमञ्जरी नाम मम स्वामिनी / तस्याश्चास्ति कनकमजरी नाम दुहिता / अत्रान्तरे तेतलिना कनकमजरीनामग्रहणादेव स्पन्दितं मे दक्षिणलोचनेन स्कुरितमपरग, उच्छ्वसितं हृदयेन, रोमाश्चितमझेन, गतमिवोद्वेगेन) ततो मया चिन्तितं-नूनं सैषा मम हृदयदयिता कनमञ्जरीत्युच्यते / सहर्षेण चाभिहितंततस्ततः, ततो लक्षितमदीयभावेन अहो प्रियानामोच्चारणमन्त्रसामर्थ्य मिति विचिन्त्य तेतलिनाऽनुसन्दधानेन कपिञ्जलावचनमिदमभिहितं--सा च मदीयस्तन्यपानेन संवर्धिता तेन मम सर्वस्वमिव, शरीरमिव, हृदयमिव, जीवितमिव सा कनकमञ्जरी स्वरूपादव्यतिरेकिणी वर्तते अधुना पीड यते सा वराकी मकरध्वजेन ततो यत्तस्या मीनकेतनाद्भयं तत्परमार्थतो ममैव भयमिति / तदिदमाकर्ण्य धा(वा )रयतस्तेतलेराकृष्य करवालमरेरे मन्मथहतक ! मुश्च मुश्च मे प्रियां कनकमञ्जरी पुरुषो वा भव दुरात्मन् ! नास्त्यधुना ते जीवितमिति ब्रुवाणोऽहमुत्थितः शयनीयतलाद्वेगेन / तेतलिनाऽभिहितं-देव ! अलमनेनावेगेन, न खलु सदये देवे कनकमञ्जर्या मदनहतकादन्यस्माद्वा सकाशाद्भयगन्धोऽपि, कथानकं चेदमतस्तच्छेषमप्याकर्णयतु देवः। ततस्तद्वचनेनाहं पुनः प्रत्यागतचेतना मनाग विलक्षीभूतो निषण्णः शय्यातले / तेतलिः प्राह--ततो मयाऽभिहितं--भद्रे कपिञ्जले ! किं पुनर्निमित्तमासाद्य तस्यां कनकमञ्जयां प्रभवति मदनहतकः। कपिञ्जलयाऽभिहितं--आकर्णय, अस्ति तावदतीते दिने संपन्नं वहरणविड्वरं संजातो देवस्य कनकचूडस्य परैः महासंग्रामः। ततो लब्धपताकेषु नगरं प्रविशत्सु कनकचूडकनकशेखरनन्दिवर्धनेषु कुतूहलवशेनाहं गेहानिर्गत्य स्थिता