SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 150 तेतलिसमागमः किमुत्सवोऽयं ? किं वा व्यसनमिदं ? किं दिनमिदं ? किं वा रजनीयं ? कि मृतोऽस्मि ? कि वा जीवामीति / क्वचिदीपल्लब्धचेतनः पुनश्चिन्तयामि-अये ! क गच्छामि ? किं करोमि ? किं श्रृणोमि ? किं पश्यामि ? किमालपामि ? कस्य कथयामि ? कोऽस्य प्रतीकारो भविष्यतीति / एवं च पर्याकुलचेतसो निषिद्धाशेषपरिजनस्यापरापरपार्श्वेण शरीरं परावर्तयतो महानारकस्येव तीव्रदुःखेनालब्धनिद्रस्यैव लविता सा रजनी, समुद्गतोऽशुमाली गतस्तथैव तिष्ठतो मेऽर्धप्रहरः / / अत्रान्तरे समागतस्तेतलिः अतिवल्लभतया मे न वारितः केनापि प्राप्तो मत्समीपं कृतमनेन पादपतनं निषण्णो भूतले, विरचितकरमुकुलेन चाभिहितमनेन-देव ! नीचजनसुलभेन चापलेन किश्चिदेवं विज्ञापयिष्यामि तच्चाईचारु वा सोदुमर्हति देवः / मयाऽभिहितं-भद्र तेतले ! विश्रब्धं वद किमियत्या कूर्चशोभया ? तेतलिनाऽभिहितं यद्येवं ततो मया देव ! परिजनादाकर्णितं यथा रथादवतीर्य देवो न ज्ञायते किमत्र कारणं सोद्वेग इव निषिद्धाशेषपरिजनः सचिन्तः शयनीये विवर्तमानस्तिष्ठति ? इतश्च स्यन्दनाश्वानां तृप्ति कारयतो लवितोऽतीतदिनशेषः, ततो रात्रौ समुत्पन्ना मे चिन्ता यदुत किं पुनर्देवस्योद्वेगकारणं भविष्यति ? ततस्तदलक्षयतश्चिन्ताविधुरस्य जाग्रत एव मे विभाता रजनी, ततो यावदुत्थाय किलेहागच्छामि तावबृहत्तमं प्रयोजनान्तरमापतितं तेनातिवाद्येयती वेलामहमागत इत्यतो निवेदयतु देवःप्रसादेन शरीरकुशलवार्तामात्रायत्तजीविताय किङ्करापसदायास्मै जनाय यदस्य व्यतिकरस्य कारणमितिब्रुवाणः पतितो मचरणयोस्तेतलिः / ततो मया चिन्तितंअहो अस्य मयि भक्तिप्रकर्षः / अहो वचनकौशलं, युज्यत एवास्मै सद्भावः कथयितुं, तथापि वामशीलतया मदनविकारस्य मयाऽभिहितं-भद्र तेतले ! न जाने किमत्र कारणं ? केवलं यतः प्रभृति हट्टमार्गमतिक्रम्य समानीतस्त्वया रथो राजकुलाभ्यणे धारितस्तत्र कियन्तमपि क्षणं तदारात्सर्वाणि मे विलीयन्तेऽङ्गानि, प्रवर्धतेऽन्तस्तापः, ज्वलतीव भुवनं, न सुखायन्ते जनोल्लापाः, आविर्भवति रणरणकः, समुद्भूतालीकचिन्ता, शून्यमिव हृदयम् / ततोऽहमस्य दुःखस्यालब्धपरित्राणोपायः खल्वेवं स्थित इति / ततः सहर्षेण तेतलिनाभिहितं-देव ! यद्येवं ततो विज्ञातं मयाऽस्य दुःखस्य निदानमौषधं च, न विषादः कर्तव्यो देवेन / मयाऽभिहितं--कथं ? तेतलिः प्राह--समाकर्णय, निदानं तावदस्य दुःखस्य चक्षुर्दोषः / मयोक्तं--कस्य सम्बन्धी ? तेतलिः प्राह--न जाने किमसौ लक्षिता न वा देवेन ? मया पुनर्वृहती वेलां निरूपिता तत्र राजकुलपर्यन्तवर्तिनि प्रासादे वर्तमाना काचिद् बृहदारिका देवमर्धतिरश्चीने नेक्षणयुगलेन साभिनिवेशमङ्गप्रत्यङ्गतो निरूपयन्ती, तनिश्चितमेतत्तस्या एव सम्बन्धी चक्षुर्दोषोऽयं, यतो देव ! अतिविषमा विषमशीलानां दृष्टिर्भवति / ततो मया चिन्तितं-वष्टः खल्वेष तेतलिः बुद्धोऽनेन मदीयभावः विलोकिता सा चिरमनेन अतः पुण्यवानय, यतश्च वदत्येष यथा लब्धं मया तवास्य दुःखस्य भेषजमिति ततः संपादयिष्यति नूनं तां मदनज्वरहरणमूलिकां कन्यकामेष मे, तस्मात्प्राणनाथो ममायं वर्तत इति विचिन्त्य समारोपितो बलात्पर्यके तेतलिः / अभिहितश्च-साधु भोः साधु, सुष्टु विज्ञातं भवता मदीयरोगनिदानं, इदानीमौषधमस्य निवेदयतु भद्रः / तेतलिनाऽभिहितं-देव ! इदमत्र चक्षुर्दोषे भेषजं यदुत निपुणवृद्धनारीभिः कार्यतां सम्यग् लवणावतारणकं विधीयतां मन्त्रकुशलैरपमार्जनं लिख्यन्तां रक्षाः निबध्यन्तां कटकानि अनुशील्यन्तां भूतिकर्माणि / अन्यच्च-शाकिन्यपि किल प्रत्युच्चारिता न प्रभवतीति कृत्वा गत्वा निष्ठुरवचनैर्गादं निर्भर्त्यतां सा दारिका यदुत हे वामलोचने ! निरीक्षितस्त्वया विषमदृष्टया
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy