________________ कनकमा प्रणय: ततो रत्नवतीयुक्तः, स्यन्दनस्थः शनः शनैः। यावद्गच्छामि तमहं, निजावासकसम्मुखम् // 3 // ताषदेते समुल्लापाः, प्रवृत्ताः पुरयोषिताम् / जयश्रिया परीता, मयि सस्पृहचेतसाम् // 4 // जगत्यप्रतिमल्लोऽपि, येनासौ विनिपातितः। द्रुमः समरसेनश्च, स सोऽयं नन्दिवर्धनः // 5 // अहो धैर्यमहो वीर्यमहो दाक्ष्यमहो गुणाः / अस्य नूनं न मोऽयं, देवोऽयं नन्दिवर्धनः // 6 // इयं रत्नवती धन्या, याऽस्य भार्या महात्मनः / धन्या वयमपि ह्येष, यासां दृष्टिपथं गतः // 7 // अथवा सर्वमेवेदमहो धन्यतमं पुरम् / अचिन्त्यसाहसाढयेन, यदनेन विभूषितम् // 8 // ततस्तास्तादृशीर्वाचः, शृण्वतो मम मानसे / महामोहात्समुत्पन्नो, वितर्कोऽयमभूद् भृशम् // 9 // ममायमीदृशो लोके, प्रवादोऽत्यन्तदुर्लभः / यः संजातो महानन्दहेतुरुन्नतिकारकः // 10 // तस्या(त्रा)स्य कारणं तावद्वयस्यो हितकारकः / एष वैश्वानरोऽस्त्येव, नात्र सन्देहगोचरः // 11 // तथापि प्रियया नूनं, ममेदं हन्त हिंसया / सर्व संपादितं मन्ये, कृतमालोकनं यया // 12 // अहो प्रभावो हिंसाया, अहो मय्यनुरक्तता। अहो कल्याणकारित्वमहो सर्वगुणाढयता // 13 // यादृशी वर्णिता पूर्व, वरमित्रेण में प्रिया / एषा वैश्वानरेणोच्चैस्तादृश्येव न संशयः // 14 // तस्यागृहीतसङ्केते !, वृत्तान्तस्यात्र कारणम् / स मे पुण्योदयो नाम, वयस्यः परमार्थतः // 15 // केवलम्-तदा न लक्षयाम्येवमहं पापहतात्मकः / यथा पुण्योदयाज्जातं, ममेदं सर्वमञ्जसा // 16 // ततश्च-एवंविधविकल्पेनाहं वैश्वानरहिंसयोः / अत्यन्तमनुरक्तात्मा, न जानामि स्म किश्चन // 17 // इतश्च हट्टमार्गेण, मामकीनरथस्तदा / प्राप्तो राजकुलाभ्यर्णे, कृतलोकचमत्कृतिः // 18 // अथास्ति सु(ब)मनाथस्य, दुहिता जयवर्मणः / प्रिया कनकचूडस्य, देवी मलयमञ्जरी // 19 // तस्याश्च भुवनाभोगसर्वसौन्दर्यमन्दिरम् / अस्ति मन्मथमञ्जूषा, कन्या कनकमब्जरी // 20 // सा' स्यन्दनस्थं गच्छन्तं, वातायनसुसंस्थिता / मां दृष्ट्वा पञ्चबाणस्य, शरगोचरमागता // 21 // कुतूहलवशेनाथ, वीक्षमाणेन सर्वतः / गवाक्षे लीलया दृष्टिर्मया तत्र निपातिता // 22 // ततः कनकमजर्या, लोललोचनमीलिता / क्षणं सा मामिका दृष्टिश्चलति स्म न कीलिता // 23 // सापि तां मामिकां दृष्टिं, पिबन्ती स्तिमितेक्षणा / स्वेदकम्पनरोमाञ्चैर्व्यक्तकामा क्षणं स्थिता // 24 // मम तस्याश्च सानन्दं, दृष्टिसंयोगदीपितम् / मदीयसारथिर्भावं, तेतलिस्तमलक्षयत् // 25 // ततश्चिन्तितं तेतलिना-अये ! रतिमकरकेतनयोरिवातिसुन्दरोऽयमनयोरनुरागविशेषः, केवलं महाजनसमक्षमेवमनिमेषाक्षतया निरीक्षमाणस्यैनां हीनसत्त्वतया लाघवमस्य संपत्स्यते रत्नवत्याश्च कदाचिदीर्ध्या संपत ततो न मे युक्तमुपेक्षितुमिति ततः काकलीं कृत्वा चोदितस्तेतलिना स्यन्दनः / ततोऽहं लावण्यामृतपङ्कममामिव, कपोलपुलककण्टकलग्नामिव, मदनशरशलाकाकीलितामिव तदीयसौभाग्यगुणस्यूतामिव कनकमञ्जरीवदनकमलावलोकनात् कथश्चिदृष्टिमाकृष्य तस्यामेव निक्षिप्तहृदयः प्राप्तः क्रमेण निजमन्दिरम् / ___तत्र च शून्यमनस्को विधाय दिवसोचितं कर्तव्यमारूढोऽहमुपरितनभूमिकायाम् / ततः प्रस्थाप्य समस्तं परिजनमेकाकी निषण्णः शय्यायां, तस्यां चापरापरैः कनकमब्जरीगोचरवितर्ककल्लोलैविधुरितचेतोवृत्तिर्न जानामि स्माहं यदुत किमागतोऽस्मि ? किं गतोऽस्मि ? किं तत्रैव स्थितोऽस्मि ? किमेककोऽस्मि ? किं परिजनवृतोऽस्मि ? किं सुप्तोऽस्मि ? किं वा जागर्मि ? किं रोदिमि ? कि वा न रोदिमि ? कि दुःखमिदं ? किं वा सुखमिदं ? किमुत्कण्ठकोऽयं ? किं वा व्याधिरयं ? मन्दिवर्धनस्थविरहावस्था