________________ 148 यस्त्वेष दक्षिणभागवतिनि बले नायकोऽभिमुखः कनकशेखरस्य, सोऽयं विभाकर एव / यावदेवं कथयति विकटः तावत्समालनमायोधनम् / तच कीदृशम्-शरजालतिरस्कृतदृष्टिपथ, पथरोधसमाकुलतीव्रभटम् / भटकोटिविपाटितकुम्भतटं, तटविभ्रमहस्तिशरीरचितम् // 1 // रचितप्रथितोरुसुहस्तिघटं, घटनागतभीरुकृतार्तरघम् / खपूरितभूधरदिग्विवरं वरहेतिनिवारणखिन्ननृपम्।२ नृपभिन्नमदोदुरवैरिगणं, गणसिद्धनभश्चरघुष्टजयम् / जयलम्पटयोधशतैश्चटुलं, चटुलाश्वसहस्त्रविमर्दकरम्।३ करसृष्टशरौघविदीर्णरथं, रथभङ्गविवर्द्धितबोलबलम् / बलशालिभटेरितसिंहनदं,नदभीषणरक्तनदीप्रवहम् / / ततश्चेदृशे प्रवृत्ते महारणे दत्तः परैः कृतभीषणनादैः समरभरः, भग्नमस्मद्भलं, समुल्लसितः परबले कलकलः, केवलं न चलिता वयं पदमपि पराङ्मुखं, त्रयोऽपि नायकाः समुत्कटतया निकटतरीभूताः परे / अत्रान्तरे पुनः संज्ञितोऽहं वैश्वानरेण भक्षितं मया क्रूरचित्ताभिधानं वटकं जातो मे भासुरतरः परिणामः ततः साक्षेपमाहूतो मया समरसेनो, चलितोऽसौ ममोपरि मुश्चन्नत्रवर्षे, केवलं सन्निहिततया पुण्योदयस्य न प्रभवन्ति स्म तानि मे शस्त्राणि / ततो विलोकितोऽहं हिंसया जातो मे दारुणतरो भावः ततः प्रहिता मया परविदारणचतुरा शक्तिः विदारितः समरसेनो, गतः पञ्चत्वं भग्नं तद्बलं चलितोऽहं द्रुमाभिमुखं, स च लग्न एव योद्धं कनकचूडेन / ततो मयाऽभिहितो-रे ! किमत्र भवति हन्तव्ये तातेनायासितेन ? न खलु गोमायुकेसरिणोरनुरूपमायोधनं ततस्त्वमारादागच्छेति / ततो वलितो ममाभिमुखं द्रुमनरेन्द्रः, निरीक्षितोऽहं हिंसया, ततो दरादेव निपातितमर्धचन्द्रेण मया तस्योत्तमाङ्गं, भग्नं, तदीयसैन्यं, विहितो मयि सिद्धविद्याधरादिभिर्जयजयशब्दः / इतश्च कनकशेखरेणापि सहापतितो योद्धं विभाकरः, शरवर्षच्छेदानन्तरं मुक्तानि तेन कनकशेखरस्योपरि आग्नेयपनगादीन्यस्त्राणि, निवारितानि वारुणगारुडादिभिः प्रतिशस्त्रैः कनकशेखरेण, ततोऽसिलतासहायः समवतीर्णः स्यन्दनाद्विभाकरः, कीदृशं रथस्थस्य भूमिस्थेन सह युद्धमिति मत्वा कनकशेखरोऽपि स्थितो भूतले। ततो दर्शितानेककरणविन्यासमभिवाञ्छितमर्मप्रहारं प्रतिप्रहारवश्वनासारं संजातंद्वयोरपि बृहतीं वेलां बलकरवालयुद्धं, ततः समाहत्य स्कन्धदेशे पातितः कनकशेखरेण विभाकरो भूतले गतो मूर्छा समुल्लसितः कनकशेखरबले हर्षकलकलः, ततो निवार्य तं वायुदानसलिलाभ्युक्षणादिभिराश्वासितो विभाकरः कनकशेखरेण / अभिहितश्च-साधु भो नरेन्द्रतनय ! साधु न मुक्तो भवता पुरुषकारः नाङ्गीकृतो दीनभावः समुज्ज्वालिता पूर्वपुरुषस्थितिः लेखितमात्मीयं शशधरे नामकं, तदुत्थाय पुनर्यो मर्हति राजमनुः। ततोऽहो अस्य महानुभावता, अहो गम्भीरता, अहो पुरुषातिरेकः, अहो वचनातिरेक इति चिन्तयता विभाकरेणाभिहितं-आर्य ! अलमिदानीं युद्धन, निर्जितोऽहं भवता न केवलं खङ्गेन, किं तर्हि ? चरितेनापि / ततः परमबन्धुवत् स्वयं निवेशितो विभाकरः स्वकीयस्यन्दने कनकशेखरेण समाहादितो मधुरवचनैः उपसंहृतमायोधनं, गतं पदातिभावं सर्वमपि परसैन्यं कनकशेखरस्य दृष्टे भयातिरेकप्रकम्पमानगात्रयष्टी विमलाननारत्नवत्यौ, समानन्दिते पेशलवाक्यैः, स्थापिते निजभर्तृस्यन्दनयोः कनकचूडेन / ततो लब्धजयतया हर्षपरिपूर्णां वयं कुशावर्तपुरे प्रवेष्टुमारब्धाः। कथम् ? पुरतः कुञ्जरारूढो, राजा देवेन्द्रसभिभः। दददानं यथाकामं, प्रविष्टो निजमन्दिरे // 1 // तत्र प्रमुदिताशेषलोकलोचनवीक्षितः। पुरं प्रविश्य स्वे गेहे, गतः कनकशेखरः // 2 // अवाप्तजययोनगरप्रवेश: