________________ परिस्फुरितं-अहो प्रियमित्रवटकस्य प्रभावातिशयो यदस्य तेजसा ममायं रिपुदृष्टिमपिधारयितुं न पारयति।ततो मया (तथा) वैश्वानरवटकप्रभावाधिष्ठितेन स प्रवरसेनश्चरटनायको विच्छिन्नकार्मुकः प्रतिहतशेषान्यशस्त्रः सन् गृहीतचमत्कुर्वद्भास्वरकरवालः स्यन्दनादवतीर्य स्थितो भूतले प्रस्थितो मदभिमुखम् / अत्रान्तरे पाश्चवर्तिन्या विलोकितोऽहं हिंसया जातो गाढतरं रौद्रपरिणामः मुक्तो मया कर्णान्तमाकृष्य निशितोऽर्धचन्द्रः, छिन्नं तेन तस्यागच्छतो मस्तकं, समुल्लसितोऽस्मद्भले कलकलः, निपातिता ममोपरि देवैः कुसुमवृष्टिः, वृष्टं सुगन्धोदकं, समाहता दुन्दुभयः, समुद्घोषितो जयजयशब्दः / ततो हतनायकत्वाद्विषण्णं चरटबलं अवलम्बितप्रहरणं गतं मे शरणं, प्रतिपन्नं मया, निवृत्तमायोधनं, संजातः सन्धिः प्रतिपन्नः सर्वचरटर्मम भृत्यभावः। मया चिन्तितं-अहो हिंसाया माहात्म्यप्रकर्षः यदनया विलोकितस्यापि ममतावानुन्नतिविशेषः संपन्न इति / सन्मानितास्तेऽपि कनकशेखरादिभिः। दत्तं प्रयाणकं, संप्राप्ता वयं कुशावर्तपुरे, समानन्दितः कनकशेखरकुमारागमनेन कनकचूडराजा, तुष्टो मदर्शनेन / ततो विधापितस्तेन महोत्सवः, पूजितः प्रणयिवर्गः। ततो गणितं विमलाननारत्नवत्योविवाहदिनं समागतं पर्यायेण कृतमुचितकरणीयम् / ततो दीयमानैर्महादानविधीयमानैर्जनसन्मानैबहुविधकुलाचारैः संपाद्यमानैरभ्यहितजनोपचारैर्गानवादनपानखादनविमर्दैन निर्भरीभूते समस्ते कुशावर्त पुरे परिणीता कनकशेखरेण विमलानना मया रत्नवतीति / ततो विहितेषूचितकर्तव्येषु निवृत्ते विवाहमहानन्दे गते दिनत्रयेऽदृष्टपूर्वतया कुशावत्तस्यातिरमणीयतया तत्प्रदेशानां, कुतूहलपरतया यौवनस्य, समुत्पन्नतयाऽस्मासु विश्रम्भभावस्य गृहीत्वाऽस्मदनुज्ञां नगरावलोकनाय निर्गते भ्रमणिकया सपरिकरे विमलाननारत्नवत्यौ / .. ततोऽनेकाश्चर्यदर्शनेनानन्दपूरितहृदये संप्राप्ते ते चूतचूचुकं नामोद्यानं, प्रवृत्ते क्रीडितुं, वयं तु कनकचूडराजास्थाने तदा तिष्ठामः, यावदकाण्ड एव प्रवृत्तः कोलाहलः, पूत्कृतं दासचेटीभिः, किमेतदितिसंभ्रान्त उत्थितमास्थानं, हृते विमलाननारत्नवत्त्यौ केनचिदिति प्रादुर्भूतःप्रवादः, ततः सम्बद्धमस्मद्भलं, लग्नं तदनुमार्गेण, ततो मार्गखिन्नतया परसैन्यस्य सोत्साहतयाऽस्मदनीकस्य स्तोकभूभाग एव समवष्टब्धा परचमूरस्मत्पताकिन्या, श्रुतमस्माभिर्विभाकरनाम बन्दिभिरुद्धष्यमाणम् / ततः सर्वैरेव चिन्तितमस्माभिः-अये ! स एष कनकपुरनिवासी प्रभाकरबन्धुसुन्दर्योस्तनयो विभाकरो यस्मै प्रभावत्या दत्ता विमलानना पूर्वमासीदिति निवेदितं दृतेन / ततश्चैषोऽस्मान् परिभूय हरत्येते वध्वौ दुष्टात्मेति भावयतो मे विहिता वैश्वानरेण संज्ञा ततो भक्षितं मया क्रूरचित्ताभिधानं वटकं संजातो भासुरः परिणामः / ततो मयाऽमिहितं--अरेरे पुरुषाधम विभाकर ! परदारहरणतस्कर ! क यासि ? पुरुषो भव पुरुषो भवेति / ततस्तदाकर्ण्य गङ्गाप्रवाह इव त्रिभिः स्रोतोमुखैवलितमभिमुखं परवलं आविर्भूतास्तदधिष्ठायकास्त्रय एव नायकाः / ततो मया कनकचूडराजेन कनकशेखरेण च त्रिभिरपि योऽकामैर्यथासंमुखं वृत्तास्ते / इतश्च योऽसौ कन्यागमनसूचनार्थ कनकचूडराजसमीपे समागतः पूर्वमासीनन्दराजदूतः स तत्रावसरे मत्सकाशे वर्तते / ततोऽभिहितोऽसौ मया-अरे विकट ! जानीषे त्वं कतमाः खल्वेते त्रयो नायकाः ? विकटः प्राह-देव ! सुष्टु जानामि, य एष वामपार्थेऽनीकस्य सम्मुखो भवतः एष कलिङ्गाधिपतिः समरसेनो नाम राजा एतद्भूलेनैव हि प्रारब्धमिदमनेन विभाकरेण, यतो महाबलतया विभाकरपितुः प्रभाकरस्यायं स्वामिभूतो वर्तते / यः पुनरेष मध्यमसैन्ये वर्ततेऽभिमुखः कनकचूडनरपतेः अयं विभाकरस्यैव मातुलो वङ्गाधिपतिर्द्वमो नाम राजा /