SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ नन्दिवर्धनेन हिंसाया विवाहा 146 स्थिता सन्निहिता, जातोऽस्या मम जन्मदिने वैश्वानरो, वृद्धिं गतः क्रमेण, कथितस्तया तस्मै सर्वोऽप्यात्मीयः स्वजनवर्गः / ततस्तस्य वैश्वानरस्य तत्र मार्गे मया सह गच्छतः समुत्पनैवम्भूता बुद्धिः यदुत नयाम्येनं नन्दिवर्धनकमारं रौद्रचित्तपरे दापयाम्यस्मै दशभिसन्धिना तां हिंसाकन्यकां, ततस्तया परिणीतया ममैष सर्वप्रयोजनेषु गाढतरं निर्व्यभिचारो भविष्यति / ततो विचिन्त्य तेनैवमभिहितोऽहं तत्र गमनार्थम् / मयोक्तं-कनकशेखरादयोऽपि गच्छन्तु / वैश्वानरः प्राह--कुमार ! नामीषां तत्र गमनप्रसरो, यतोऽन्तरङ्ग तद्रौद्रचित्तं नगरं, ततो विना परिजनेन मत्सहाय एव कुमारस्तत्र गन्तुमर्हति, ततस्तदाकाहमलङ्घनीयतया तद्वचनस्य, गुरुतया तत्र स्नेहभावस्य, अज्ञानोपहततया चित्तस्यानाकलय्य तस्य परमशत्रुतां, अपर्यालोच्यात्महिताहितं, अदृष्ट्वाऽप्यागामिनीमनर्थपरम्परां गतो वैश्वानरेण सह रौद्रचित्तपुरे दृष्टो दुष्टाभिसन्धिः दापिता वैश्वानरेण मह्यं तेन हिंसा परिणीता क्रमेण कृतमुचितकरणीयं ततः प्रहितो दुष्टाभिसन्धिना सहितो हिंसावैश्वानराभ्यां, मिलितोऽहं कनकशेखरादिवले, गच्छतां मार्गे प्रारब्धः सहर्षेण वैश्वानरेण सह जल्पो यदुत कुमार ! कृतकृत्योऽहमिदानीम् / मयोक्तं--कथम् ? स प्राह—यदेषा परिणीता कुमारेण हिंसा, केवलमेतावदधुनाऽहं प्रार्थये योषा कुमारस्य सततमनुरक्ता भवति / मयाऽभिहित-कः पुनरेवंभवनेऽस्या उपायो भविष्यति ? वैश्वानरः प्राह–सापराधं निरपराधं वा प्राणिनं मारयता कुमारेण न मनागपि धना(घृणा)यितव्यं, अयमस्याः खल्वनुरक्तीभवनोपायः / मयाऽभिहितं-किमनयाऽत्यन्तमनुरक्तया भविष्यति ? वैश्वानरः प्राहकुमार ! मत्तोऽपि महाप्रभावेयं, यतो तयाऽधिष्ठितः पुरुषोऽतितेजस्वितया परेषां केवलं त्रासमात्र जनयति, अनया पुनर्हिसयाऽत्यन्तमनुरक्तयाऽऽलिङ्गितमूर्तिर्महाप्रभावतया दर्शनमात्रादेव जीवितमपि नाशयति, तस्मादभिमुखीकर्तव्येयं कुमारेण / मयाऽभिहितमेवं करोमि / वैश्वानरेणोक्तं-महाप्रसाद इति / ततो मार्गे गच्छन्नहं शशसूकरशरभशबरसारङ्गादीनामाटव्यजीवानां शतसहस्राणि मारयामि स्म / ततः प्रहृष्टा हिंसा, संपन्ना मय्यनुकूला। ततः कम्पन्ते मदर्शनेन जीवाः मुञ्चन्ति प्राणानपि केचित् / ततः संजातो मे वैश्वानरकथितहिंसाप्रभावे प्रत्ययः, प्राप्ता वयं कनकचूडविषयाभ्यणे / तत्रास्ति विषमकूटो नाम पर्वतः, तस्मिंश्च कनकचूडमण्डलोपद्रवकारिणोऽम्बरीषनामानश्चरटाः प्रतिवसन्ति; ते च कथिताः पूर्व बहुशः कनकचूडेन, ततः कनकशेखरमागच्छन्तमवगम्य निरुद्धस्तैर्मार्गः, प्रत्यासनीभूतमस्मद्दलं, ततः कलकलं कुर्वन्तः समुत्थिताश्चरटाः समालग्नमायोधनं, ततश्च निपतितशरजालभिन्नेभकुम्भस्थलाभोगनिर्गच्छदच्छाच्छमुक्ताफलस्तोमसंपूरिताशेषभूपीठदेशं क्षणात् तथाविदलितभटमस्तकासंख्यराजीववृन्दानुकारेण रक्तौघनीरेण दण्डास्त्रसच्छत्रसंघातहंसेन तुल्यं तडागेन संजातमुच्चैर्महायुद्धमस्माकमिति / ततः समुदीर्णतया चरटवर्गस्य संजाताः परिभग्नप्रायाः कनकशेखरादयः / अत्रान्तरे प्रवरसेनाभिधानेन चरटनायकेन साध समापतितं ममायोधनमिति / ततः संज्ञितोऽहं वैश्वानरेण भक्षितं मया तत्क्रूरचित्ताभिधानं वटकं ततः प्रवृद्धो मेऽन्तस्तापः संजातो भृकुटितरङ्गभङ्गुरो ललाटपट्टः समाचितं स्वेदबिन्दुनिकरण शरीरं, स च प्रवरसेनोऽत्यन्तकुशलो धनुर्वेदे नियूंढसाहसः करवालेऽतिनिपुणः सर्वास्त्रप्रयोगेषु गर्वोद्धरो विद्याबलेन प्रबलवीर्यों देवतानुग्रहेण, तथापि सनिहितपुण्योदयमाहात्म्यान्मे न लगन्ति स्म तदीयशिलीमुखाः, न प्रभवन्ति स्म तदीयशस्त्राणि, न वहन्ति स्म तस्य विद्याः अकिश्चित्करीभृता देवता, मम तु चेतसि प्रवरसेनेन
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy