________________ तस्य च दुष्टाभिसन्धिनरेन्द्रस्यानभिज्ञा परवेदनाना, कुशला पापमार्गे, वत्सला चरटवृन्दस्यानुरक्तचित्ता निजे भर्तरि पूतनाकारा निष्करुणता नाम महादेवी / तथाहि-दुष्टाभिसन्धिना तेन, नानाकारैः कदर्थनैः। चिरं कथितं दीनं, लोकमालोक्य सस्मिता // 1 // सा निष्करुणता देवी, दुःखं गाढतरं ततः / जनयेत्तस्य नो वेत्ति, तेन सा परवेदनाम् // 2 // नेत्रोत्पाटशिरश्छेदनासिकाकर्णकर्तनम् / उत्कर्त्तनं त्वचोऽङ्गस्य, खदिरस्येव कुट्टनम् // 3 // ये चान्ये जन्तुपीडायाः, प्रकारास्तेषु कौशलात् / सा निष्करुणता देवी, पापमार्गे विचक्षणा // 4 // ये ये भुवनसन्तापकारिणो दुष्टवष्टकाः। रौद्रचित्तपुरे लोकाः, सन्ति द्रोहादयः खलाः // 5 // ते तेऽतिवल्लभास्तस्यास्ते ते सर्वस्वनायकाः। अतश्चरटवृन्दस्य, देवी साऽत्यन्तवल्लभा // 6 // युग्मम् / दुष्टाभिसन्धिराजेन्द्र, तं भर्तारं दिवानिशम् / मन्यते परमात्मानं, सा शुश्रूषापरायणा // 7 // न मुश्चति च तद्देह, संवाहयति तलम् / अनुरक्ता निजे पत्यौ, सा देवी तेन वर्ण्यते // 8 // तस्याश्च निष्करुणताया महादेव्या अभिवृद्धिहेतुस्तस्य रौद्रचित्तपुरस्य वल्लभा तन्निवासिजनानां, विनीता जननीजनकयोरतिभीषणा स्वरूपेण, साक्षात्कालकूटसम्पुटघटितेव हिंसा नाम दुहिता / तथाहि-यतः प्रभृति सा जाता, कन्यका राजमन्दिरे / तत आरभ्य तत्सर्व, पुरं समभिवर्धते // 1 // राजा पुष्टतरीभूतो, देवी स्थूलत्वमागता / अतोऽभिवृद्धिहेतुः सा, पत्तनस्य सुकन्यका // 2 // ईर्ष्याप्रद्वेषमात्सर्यचण्डत्वाप्रशमादयः / प्रधाना ये जनास्तत्र, पुरे विख्यातकीर्तयः // 3 // तेषामानन्दजननी, सा हिंसा प्रविलोकिता / स्थिता परापरोत्सङ्गे, संचरन्ती कराकरे // 4 // चुम्ब्यमाना जनेनोचैर्वम्म्रमीति निजेच्छया / सा तन्निवासिलोकस्य, तेनोक्ताऽत्यन्तवल्लभा // 5 // दुष्टाभिसन्धिनृपतेर्वचनं नातिवर्तते / सानिष्करुणतादेव्या, वचनेन प्रवर्त्तते // 6 // शुश्रूषातत्परा नित्यं, तयोहिंसा सुपुत्रिका / जननीजनकयोस्तेन, सा विनीतेति गीयते // 7 // भीषणा सा स्वरूपेण, यच्चाभिहितमजसा / तदिदानी मया सम्यकथ्यमानं निबोधत // 8 // अपि सा नाममात्रेण, त्रासकम्पविधायिका। सर्वेषामेव जन्तूनां, किं पुनः प्रविलोकिता ? // 9 // साऽधोमुखेन शिरसा, नरकं नयति देहिनः / सा संसारमहावर्तगर्तसंपातकारिका // 10 // सा मूलं सर्वपापानां, सा धर्मध्वंसकारिणी / सा हेतुश्चित्ततापानां, सा शास्त्रेषु विगर्हिता // 11 // किंचेह बहुनोक्तेन ?, नास्त्येव ननु तादृशी / लोकेऽपि दारुणाकारा, सा हिंसा हन्त यादृशी // 12 // ___ इतश्चास्ति तामसचितं नाम नगरं, तत्र महामोहतनयो द्वेषगजेन्द्रो नाम नरेन्द्रः प्रतिवसति / इतश्च या प्रागाख्याता वैश्वानरस्य जननी मम धात्री अविवेकिता नाम ब्राह्मणी, सा तस्य द्वेषगजेन्द्रस्य भार्या भवति, सा च केनचित्प्रयोजनेन ततस्तामसचित्तानगराद्गर्भस्थिते सति वैश्वानरे तत्र रौद्रचित्तपुरे समागताऽऽसीत् , यादृक् तत्तामसचित्तं नगरं, यादृशोऽसौ द्वेषगजेन्द्रो राजा, यादृशी साऽविवेकिता, यच्च तस्यास्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्यामः / केवलं भद्रेऽगृहीतसङ्केते ! न तदाऽस्य व्यतिकरस्याहं गन्धमपि ज्ञातवान्, इदानीमेवास्य भगवतः सदागमस्य प्रसादादिदं समस्तं मम प्रत्यक्षीभूतं, तेन तुभ्यं कथयामि, ततः साऽविवेकिता तत्र रौद्रचित्तपुरे स्थिता कियन्तमपि कालं, जातो दुष्टाभिसन्धिना सह परिचयः, यतो द्वेषगजेन्द्रप्रतिबद्ध एवासौ दुष्टाभिसन्धिश्वरटनरेन्द्रः, ततोऽविवेकितायाः किङ्करभूतो वर्तते, ततः साऽविवेकिता मां मनुजगतौ समागतमवगम्य ममोपरि स्नेहवशेनागत्य ततो रौद्रचित्तपुरात तामसचित्ते वेषगजेन्द्रमार्याऽवि.