________________ महत्तमान् प्रत्याह--पश्यताहो परमानन्दकारणमपीदमस्माकं नन्दनराजदुहित्रोरागमनं कुमारविरहानलस र्पिष्प्रक्षेपकल्पतया क्षते क्षारनिषेकतुल्यं प्रतिभासते, तद्गच्छत शीघ्रं यूयं जयस्थले निश्चितमेतत्तत्रैवास्ते कुमारः निवेदयत पद्मराजनृपतये मदीयावस्थां कन्यागमनं च कारणद्वयमवगम्य प्रहेष्यत्येव कुमार पद्मराजः / अन्यच्च नन्दिवर्धनकुमारोऽपि पद्मराजमनुज्ञाप्य युष्माभिरानेयः, यतः स एवोचितो वरो रत्नवत्याः। ततोऽस्माभिरभिहितं--यदाज्ञापयति देवः, ततश्चेतामुना प्रयोजनेन समागतो वयमिति। तदिदं सर्वमस्मभ्यमेतैराख्यातं, तदेवं स्थिते यद्यपि युद्विरहकातरहृदयतया नेदमस्माभिरभिधातु शक्यं तथाऽपि महाप्रयोजनमित्याकलय्याभिधीयते यदुत मा कुरुताधुना कालविलम्मं गच्छतातित्वरया कशावर्त जनयतं द्वावपि युवां कनकचूडराजचित्तानन्दमिति / ततः शोभनमाज्ञापितं तातेन, भविष्य त्येव कनकशेखरेण सह ममावियोग इति चिन्तयता मया कनकशेखरेण चाभिहितं--यदाज्ञापयति तातः। कनकशेख- ___ ततस्तोषनिर्भरेण तातेन तस्मिन्नेव क्षणे सज्जीकारितं प्रस्थानोचितं चतुरङ्गं बलं, नियुक्त रनन्दिवर्ध- महत्तमाः कारिताशेषमाङ्गलिककर्तव्यौ प्रस्थापितावावामिति / प्रवृत्तोऽन्तरङ्गपरिजनमध्ये मया सहाभिनयोः प्रयाण व्यक्तरूपो वैश्वानरः, पुण्योदयोऽपि प्रवृत्त एव केवलं प्रच्छन्नरूपतया, ततो दत्तं प्रयाणकं, ललितः किरौद्रचित्तपुरे यानपि मार्गः। इतश्च--निवासस्थानं दुष्टलोकानां, उत्पत्तिभूमिरनर्थवेतालानां, द्वारभूतं नरकस्य, दुष्टाभिसधिनिष्कर- कारणं भुवनसन्तापस्य तस्करपल्लिप्रायमस्ति रौद्रचित्तं नाम नगरम् / णापुत्री तथाहि--उत्कर्तनशिरश्छेदयन्त्रपीडनमारणैः। ये भावाः सत्त्वसङ्घस्य, घोराःसन्तापकारिणः॥१॥ हिंसा ते लोकास्तत्र वास्तव्या, रौद्रचित्तपुरे सदा / तस्मात्तदुष्टलोकानां, निवासस्थानमुच्यते // 2 // कलहः प्रीतिविच्छेदस्तथा वैरपरम्परा / पितृमातृसुतादीनां, मारणे निरपेक्षता॥३॥ ये चान्येऽनर्थवेताला, लोके सम्भावनाऽतिगाः / ते रौद्रचित्ते सर्वेऽपि, संपद्यन्ते न संशयः॥४॥ उत्पत्तिभूमिस्तत्तेषां पत्तनं तेन गीयते। यथा च नरकद्वारं, तथेदानीं निगद्यते॥५॥ ये सत्त्वा नरकं यान्ति, स्वपापभरपूरिताः / ते तत्र प्रथमं तावत्प्रविशन्ति पुराधमे // 6 // अतः प्रवेशमार्गत्वात्तस्य निर्मलमानसैः / गीतं तन्नरकद्वारं, रौद्रचित्तपुरं जनैः // 7 // ये जीवाः क्लिष्टकर्माणो, वास्तव्यास्तत्र पत्तने / ते स्वयं सततं तीव्रदुःखग्रस्तशरीरकाः // 8 // तथा परेषां जन्तूनां, दुःखसङ्घातकारिणः / अतो भुवनसन्तापकारणं तदुदाहृतम् // 9 // किंचात्र बहुनोक्तेन ? नास्ति प्रायेण तादृशम् / रौद्रचित्तपुरं यादृग्भुवनेऽपि पुराधमम् // 10 // रौद्रचित्त- तत्र रौद्रचित्तनगरे सङ्ग्रहपरश्चौराणां, परमशत्रुः शिष्टलोकानां, विषमशीलः प्रकृत्या, विलोपक पुरे दुष्टा नीतिमार्गस्य, चरटप्रायो दुष्टाभिसन्धिर्नाम राजा / भिसन्धिनिष्करुणा- तथाहि-मानोग्रकोपाहङ्कारशाठयकामादितस्कराः / दुष्टाभिसन्धि सर्वेऽपि, नरेन्द्रं पर्युपासते // 1 // पुत्री अतोऽन्तरङ्गचौराणां, तेषां पोषणतत्परः / स राजा गीयते लोकश्चौरसग्रहणे रतः // 2 // हिंसा सत्यशौचतपोज्ञानसंयमप्रशमादयः। ये चापरे सदाचाराः, शिष्टलोका यशस्विनः // 3 // दुष्टामिसन्धिः सर्वेषां तेषामुन्मूलने रतः / अतोऽसौ परमः शत्रुः, शिष्टानामिति गीयते // 4 // बहीभिर्वर्षकोटीभिर्धर्मध्यानं यदर्जितम् / लोकेन तद्दहत्येष, क्षणमात्रेण दारुणः // 5 // न चास्य तोषणोपायो, मुग्धलोकैविभाव्यते / अतो विषमशीलोऽसौ, प्रकृत्या प्रतिपाद्यते // 6 // सर्वाः सन्नीतयस्तावत्प्रवर्तन्ते जगत्त्रये / दुष्टाभिसन्धिों यावत्तासां विघटको भवेत् // 7 // प्रादुर्भावे पुनस्तस्य, क धर्मः क च नीतयः / तेनासौ नीतिमार्गस्य धीरैर्गीतो विलोपकः // 8 //