________________ 143 राजश्चेतना, पृष्टश्चतुरः, क पुनर्गतः कुमार इति / चतुरेणाभिहितं- न मे किश्चिदाख्यातं कुमारेणापक्रमणकारणमिति, चतुरतया मया लक्षितं केवलमेतावद्वितर्कयामि यदुत जयस्थले पितृष्वसुः समीपे गतो भविष्यति, वल्लभा हि नन्दा कुमारस्य, वत्सलः पद्मराजः, कुमारपरिचयादेवावगतमिदं मया, इतो निर्गतस्य तत्रैव चित्तनिर्वाणं नान्यत्रेति / ततः साधु चतुर ! विज्ञातं साध्वितिवदता दापितं चतुराय पारितोषिकं महादानं राज्ञा, अयमस्यानर्थव्यतिकरस्य हेतुरितिकृत्वा निर्वासितः स्वविषयात्सगोत्रो दुर्मुखः, प्रतिज्ञातं च देवीनृपाभ्यां यथा 'यावत् कुमारवदनं साक्षान्नावलोकितं तावनैवावाभ्यामाहारशरीरसंस्कारादिकं करणीय मिति / इतश्च तत्रैव दिने प्रविष्टो दृतः, तेन च विहितोचितप्रतिपत्तिना निवेदितं कनकचूडाय, यथा देव ! अस्ति विशाला नाम नगरी / तस्यां नन्दनो नाम राजा / तस्य च द्वे भार्ये प्रभावती पद्मावती च / तयोश्च यथाक्रमं द्वे दुहितरौ विमलानना रनवती च / इतश्च कनकपुरे प्रभावत्याः सहोदरोऽस्ति प्रभाकरो नाम राजा तस्य बन्धमन्दरी नाम भार्या. तस्याश्च विभाकराभिधानस्तनयः, तयोश्च प्रभाकरप्रभावत्यो: पूर्वमजातयोरेव विभाकरविमलाननयोः परस्परमभूज्जल्पः यदुत आवयोर्यस्य कस्यचिदुहिता जायेत तेनेतरसम्बन्धिने सुताय सा देयेति / अतः पूर्वप्रतिपन्ना सा विमलानना विभाकरस्य / अन्यदा गुणसंभारगर्भनिर्भरं बन्दिभिरुद्धष्यमाणं श्रुतं तया कनकशेखरकुमारनामकं ततस्तदाकर्ण्य सा विमलानना कुमारे विजृम्भितानुरागातिरेका निजयूथपरिभ्रष्टेव हरिणीका, सहचरवियुक्तेव चक्रवाकिका, नाकनिर्वासितेव देवाङ्गनिका, मानससरःसमुत्कण्ठितेव कलहंसिका, ग्लहविरहितेव द्यूतकरी शून्यहृदयतया न वादयति वीणां, न विलसति कन्दुकलीलया, न विधत्ते पत्रच्छेद्यादिकं, नाभ्यस्यति चित्रादिकलाः, न कुरुते शरीरस्थिति, न ददाति कस्यचिदुल्लापं, न लक्षयति रात्रिन्दिनं, केवलं निष्पन्दमन्दनिश्चललोचना परमयोगिनीव निरालम्बनं किमपि ध्यायन्ती तिष्ठति / ततः पर्याकुलीभूतः परिकरो न जानीते तादृशविकारस्य कारणं, ततोऽतिवल्लभत्वेन सदा सन्निहिततया लक्षितोऽसौ रत्नवत्या विकारहेतुः। यतश्चिन्तितं तया--अये ! कनकशेखरकुमारनामग्रहणादनन्तरमिदमवस्थान्तरमस्याः संपन्नं, अतो निश्चितमेतत्-तेनैव प्रियभगिन्या मनश्चोरितं, तदिदमत्र प्राप्तकालं, निवेदयाम्येवंस्थितमेव ताताय, येन तात एव तस्य प्रियभगिनीचित्तचौरस्य निग्रहं करोतीति विचिन्त्य निवेदितं तया सर्व नन्दननरपतये / चिन्तितमनेन-दत्तैवेयं जनन्या विभाकराय, तथापि नान्यथाऽधुनाऽस्या जीवितमितिकृत्वा प्रेषयामि तस्यैव कनकशेखरस्य स्वयंवरामेनां यतो नेदृशावस्थायामस्यां युक्तः कालविलम्बः, पश्चादेव विभाकरं संभालयिष्यामः। ततो वत्से ! धीरा भव, मुश्च विषादं, गच्छ कुशावर्ते कनकशेखरायेति मधुरवचनैरालप्य देवेन सह महापरिजनेन प्रस्थापिता तत्र विमलानना / रत्नवत्यापि विज्ञापितो देवः यथा तात ! नाहमनया रहिता क्षणमपि जीवितुमुत्सहे, ततो मयाऽपि यातव्यमित्यनुजानीत यूयं, केवलं न मम कनकशेखरो भर्ता, यतः सापत्न्यं नारीणां महदेव स्नेहत्रोटकारणं ततो मया तदिष्टस्य वयस्यस्य कस्यचिद्भार्यया भाव्यमिति / देवेनाभिहितं--वत्से ! यत्ते रोचते तदेव समाचर न खलु वत्सा स्वयमेवानुचितमाचरिष्यति / ततो महाप्रसाद इति वदन्ती प्रवृत्ता रत्नवती, ततोऽनवरतप्रयाणकैः प्राप्ते ते विमलाननारत्नवत्यौ अद्यास्मिन्नगरे, स्थिते बहिरुद्याने, प्रहितोऽहममुमर्थ विज्ञापयितुं देवपादमूलं, एतदाकर्ण्य देवः प्रमाणमिति / ततस्ततवचनामाकर्ण्य कनकचूडराजा हर्षविषादपूरितहृदयः कन्यावासकदानार्थ व्यापार्य शूरसेनबलाधिकृतमस्मान् सुमतिवराङ्गकेसरिणः प्रधान