________________ आकारसं 142 मया चिन्तित-शठप्रकृतिरेष दुर्मुखः पापात्मा च, तन्न विज्ञायते किमयमाचरिष्यति ? यतो महताऽऽकूतेन प्रयममनेन मन्त्रितं पश्चादतित्वरया कृतमाकारसंवरणं, अतो निरूपयामस्तावत् / ततः प्रयुक्तो मया प्रणिधिचतुरो नामाप्तदारकः। गतेषु कतिचिदिनेषु समागतोऽसौ मत्समीपं, निवेदितमनेन-यथा स्वामिन् ! तावदितो निर्गतोऽहं, विनयेनाराध्य दुर्मुखं संपन्नस्तस्याङ्गरक्षकः। ततो दुर्मुखेण रहसि समाहूय समस्तस्था नेभ्यः प्रधानश्रावकानिदमभिहितं यदुत अरे एष कनकशेखरकुमारोऽलीकधर्मग्रहगृहीतो राज्यं विनाशयितुं लग्नः, ततो युष्मभ्यमितः प्रभृति यदेष किश्चित् प्रयच्छति यश्च राजभागसद्भूतो भवतां करस्तवयमपि प्रच्छन्नमेव मम समर्पणीयं, न च कुमाराय निवेदनीयमितरथा नास्ति भवतां जीवितमिति / श्रावकैरुक्तं यदाज्ञापयति महामात्यः, ततो निर्गतास्ते / मयाऽभिहित-भद्र ! अपि ज्ञातमेतत्तातेन ? चतुरः प्राह-ज्ञातम्। मयोक्तं-कुतः सकाशात् ?, चतुरेणोक्तं-तत एव दुर्मुखात्। मयाऽभिहितं-ततः किमाचरितं तातेन?, चतुरःप्राह-न किश्चित् , केवलं कृतागजनिमीलिका।ततो मया चिन्तितं-यथेष दुर्मुखः केवल एव तातस्यानभिप्रेतमिदमकरिष्यत्ततोऽहमदर्शयिष्यमस्य यदीदृशस्याविनयस्य फलं, यदा तु परकृतमनुमतमप्रतिषिद्धमिति न्यायात् तातेनापीदं गजनिमीलिकां कुर्बताऽभिमतमेव तदा किमत्र कुर्म: ? यतो दुष्प्रतिकारौ मातापितरावित्याख्यातं भगवता, ततो न युक्तं तावत्तातेन सह विग्रहकरणं, नापीदृशमिदानीं द्रष्टं शक्य, तस्मादितोऽपक्रमणमेव श्रेयः इत्यालोच्य कस्यचिदप्यकथयित्वा आप्तमित्रवृन्देन सहापक्रान्तोऽहं समागतोऽत्रेति / तदेष मे जनकेनापमानो विहित इति / मयाऽभिहितं-कुमार ! सुन्दरमनुष्ठितं भवता, न युक्त एवाभिमानशालिनां पुरुषाणां मानम्लानिकारिभिः सहैकत्र निवासः / तथाऽहि-भास्करस्तावदेवास्ते, गगने तेजसां निधिः / निर्धय तिमिरं यावत् कुरुते सज्जनोत्सवम् // 1 // यदा तु लक्षयत्येष, तमसोऽपि महोदयम् / तदाऽपरसमुद्रादौ, गत्वा कालं प्रतीक्षते // 2 // ततस्तुष्टो मद्वचनेन कनकशेखरः, तदेवं परस्परप्रीत्या गतं दशरात्रम् / अत्रान्तरे मद्भवने तिष्ठतोरावयोः समागतो वेदकः, प्रणतिपूर्वकमभिहितमनेन यदुत कुमारौ ! देवः समाज्ञापयति-शीघ्रमागन्तव्यं कुमाराभ्यामिति / ततो यदाज्ञापयति तात इत्यभिधायावां गतौ तातसमीपे यावत्तावदतिरभसवशेन तातास्थानादुत्थाय गलदानन्दोदकप्रवाहप्लावितनयनयुगलास्त्रयः प्रधानपुरुषाः समागत्य सपरिकराः पतिताः कनकशेखरचरणयोः। ततः साकूतं-अये ! कैते सुमतिवराङ्गकेशरिण इति वदता सस्नेहमूर्वीकृत्य समालिङ्गिताः कनकशेखरेण / मयोक्तं-कुमार ! क एते ? कनकशेखरः प्राह-मदीयजनकमहत्तमा इति / ततः कृतप्रतिपत्तयः समुपविष्टाः सर्वेऽपि ताताभ्यणे / तातः कनकशेखरं प्रत्याह-कुमार ! एतैस्त्वदीयजनकमहत्तमैराख्यातं यथा यतःप्रभृति कुमारोऽनाख्याय निर्गतो गेहात् तत आरभ्य राजा कनकचूडः परिजनसकाशान दृश्यते कापि कुमार इत्याकर्ण्य सहसा वजाहत इव, पिष्ट इव, परायत्त इव, मत्त इव, मूर्छित इव न किञ्चिच्चेतयते स्म, देवी च चूतमञ्जरी प्रविष्टा महामोहं मृतेव स्थिता मुहूर्त कृतं परिजनेन द्वयोरपि व्यञ्ज(ज)नचन्दनादिभिराश्वासनं ततो हा पुत्रक ! क गतोऽसीति प्रलपितुं प्रवृत्तौ तौ देवीनृपौ, ततः परिजनस्यापि समुल्लासितो महानाक्रन्दरवः, मिलितं मन्त्रिमण्डलम् / अभिहितमनेन-देव ! नायमत्रोपायः, ततो मुश्च विषादं, अवलम्बस्व धैर्य, क्रियतां यत्नः कुमारान्वेषणे, राजा न तद्वचनं वेदयते स्म / ततश्चतुरेण चिन्तितं-शोकातिरेकेण त्यक्ष्यति देवः प्राणान् ततो नाधुना ममोपेक्षा कर्तुं युक्ता ततः पादयोर्निपत्य तेन राजे निवेदितं सकारणं तदीयमपक्रमणं, ततो जीवति कुमार इतिकृत्वा प्रत्यागता कनकशेखराहानम्